________________ उपाधिवादः रूपवत्त्वमुपाधिरुच्यते तदा रूपवत्त्वोपाधेः साधनव्यापकत्वशङ्का स्यात् / कथम् ? प्रत्यक्षस्पर्शाश्रयत्वं वायौ वर्तते तत्रोद्भूतरूपं भविष्यतीति शङ्का न भवति यतस्तत्र वायौ उद्भूतरूपसत्त्वे समानाधिकरणोद्भूतरूपस्य प्रत्यक्षतापत्तेरित्युद्भूतपदे दत्ते साधनव्यापकत्वशङ्का न भवतीत्यर्थः / उद्भूतत्वं जातिविशेषो रूपादिनिष्ठो ज्ञेयः / न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वस्यासिद्धिवारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके व्यर्थविशेषणत्वान्नस उपाधिः, बाधोनीतस्याप्यनुपाधितापत्तेः / न चेष्टापत्तिः, इतरान्यत्वस्याप्रसिद्धया विशेषणं विना व्याप्त्यग्रहेण तत्सार्थकत्वात् / वस्तुगत्या साध्यव्यापकः पक्षेतर उपाधिरिति चेत्, अस्तु तथा, तथापि पक्षातिरिक्ते साध्यव्यापकताग्रहादुपाधेर्दूषकत्वम्, तच्च तत्राप्यस्ति, अन्यथा पक्षे साध्यसन्देहादनुपाधित्वे उपाधिमात्रमुच्छिद्येत।। बाधानुन्नीतेति / यथाश्रुते नैयायिकमते बाधोनीतपक्षेतर उपाधिर्भवत्येवेतीष्टापत्तिः स्यादित्यर्थः / बाधोनीतपक्षेतरो यथावह्रिरुष्णः कृतकत्वात् इत्यत्र वहीतरत्वमुपाधिरेव भवति, तत्रोपाधौ इष्टापत्तिर्नैयायिकेन कर्तव्येत्यन्यथा व्याख्यातं बाधानुन्नीतेति। ननु पक्षेतर इतिप्रयोगो नसङ्गच्छते यतः सर्वनामत्वात् स्मिन्नादेशोऽयुक्तः इत्यत आह - पक्षमितरयतीति इति व्युत्पत्त्या पर्वतेतरत्वं यो धर्मस्तत्रातिव्याप्तिः तत्र स्मिन्नादेशो न भवतीत्यर्थः / पक्षातिरिक्तेति टीका / ननु पर्वतेतरत्वस्य साध्यव्यापकत्वाभावात् कथमुपाधिलक्षणातिव्याप्तिः ?, यत्र साध्यं वर्तते तत्र पर्वतेतरत्वं नास्ति इत्यतिव्याप्तिर्न भवतीत्यत आह - पक्षातिरिक्त इति / उपाधेः साध्यव्यापकता पक्षातिरिक्तस्थले ग्राह्या, तेन एतस्यापि पर्वतेतरत्वस्यापि पक्षातिरिक्त महानसादौ साध्यव्यापकत्वं ग्राह्यम्, तत्तु पक्षेतरत्वे प्रसिद्धमस्तीत्यर्थः / त्वन्मत इति नैयायिकमते इत्यर्थः / मम मते पक्षेतर उपाधिरेवेत्यर्थः / नचव्यतिरेक इति मूलम्। यत्रपर्वतेतरत्वव्यतिरेकेण साध्याभावः साधनीयस्तत्र पर्वतेतरत्वाभावादित्यनेन हेतुना तत्रैवेतरान्यत्वादित्युक्ते असिद्धिर्भवति / कथम् ? इतरत्वं केवलान्वयिधर्मः, तस्याभावः कुत्रापि नास्तीत्यसिद्धिः स्यादिति। तद्वारणार्थं पर्वतपदं देयम्, तथा चासिद्धिवारकं विशेषणं व्यर्थम् / अयं नैयायिकानां सिद्धान्तः, यतो व्यभिचारव्यतिरेकमेव विशेषणं सार्थकमिति कृत्वा व्यतिरेके व्यर्थविशेषणराहित्यं नास्तीत्ययं नोपाधिर्यतो व्यतिरेकसाधने व्यर्थविशेषणते(तै)वेत्यर्थः / बाधोनीतेति मूलम् / वहिरनुष्णः कृतकत्वात् इत्यत्र वहीतरत्वमुपाधिर्भवति, स न स्यात्, तस्यापि व्यतिरेके व्यर्थविशेषणत्वसत्त्वादित्यर्थः / न चेति मूलम् / बाधोनीतोऽप्युपाधिर्मा भवतु इति इष्टापत्तिरित्यर्थः / इतरेति मूलम् / इतरान्यत्वमप्रसिद्धमिति कृत्वा वह्रिपदं व्याप्तिग्राहकत्वेन सार्थकं भवति / ततो बाधोन्नीतपक्षेतर उपाधिः, तद्वत् पर्वतेतरत्वमप्युपाधिः स्यात् / [3A]