SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 4 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मुपाधिः शुद्धसाध्यव्यापको न भवति यतः प्रत्यक्षत्वमात्मनि वर्तते उद्भूतरूपे चवर्तते तत्रोद्भूतरूपवत्त्वं नास्तीति साध्यव्यापकता नास्ति।अतः पक्षधर्मो यो बहिर्द्रव्यत्वं तदवच्छिन्नं यत् साध्यं प्रत्यक्षत्वं तस्य व्यापकमुद्भूतरूपवत्त्वमस्त्येवेत्यर्थः / तथा च [साधन-पक्षधर्मावच्छिन्नासाध्यव्यापकत्वमुपाधेर्लक्षणं कैश्चित् कृतं तद् दूषितम् - नचेतिमूलम्। पक्षधर्मावच्छिन्नसाध्यव्यापकः साधनावच्छिन्नासाध्यव्यापकः] एतयोरनुपाधित्वमित्याशङ्कार्थः / दूषकताबीजं व्यभिचारोन्नायकमेतयोरप्यस्ति, अतो दूषकत्वमेतयोरित्यर्थः / मित्रातनयत्वेन श्यामत्वसाधने शाकपाकजत्वस्य प्रत्यक्षस्पर्शाश्रयत्वेन वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रे प्रयोजकत्वेनोपाधित्वस्वीकाराच्च पक्षेतरेऽतिव्याप्तेश्च। 'दूषणान्तरमप्याह - शास्त्रे इति / प्रयोजन(क)त्वेनैवैतयोरप्युपाधित्वं स्वीकृतमस्ति / तथाहि - श्यामत्वे शाकपाकजत्वं प्रयोजकं व्या(प्रा)प्तम्, प्रत्यक्षे उद्भूतरूपवत्त्वं प्रयोजकं भवति यथा यदुद्भूतरूपवत् तत् प्रत्यक्षं भवत्येव, इतिद्वयोरपिशास्त्रे उपाधित्वेन व्यवहार इत्यर्थः / ननु साधनस्यापि पक्षधर्मत्वात् कथमेतयोर्भेदमुच्यते ? अत्र मिश्राः ज्ञानगतिमादाय द्वैविध्यम् / तथाहि - यदा साधनं पक्षधर्मत्वेन ज्ञायते तदा साधनं पक्षधर्मो भवति / यदा पक्षधर्मः साधनत्वेन ज्ञायते तदा [पक्षधर्मः] साधनं भवति]। वस्तुगत्या भेदो नास्तीति पक्षधरमिश्रा ऊचुः / अन्ये तु साधनावच्छिन्नपक्षधर्मावच्छिन्नयोर्भेद एव। तथाहि - घटः प्रत्यक्षः विभुत्वात् इत्यत्र विभुत्वं यत् साधनं तदवच्छिन्नप्रत्यक्षत्वव्यापकमात्मत्वमुपाधिः / अयं साधनावच्छिन्नसाध्यव्यापकः / वायुः प्रत्यक्षः वायुत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नं यत् प्रत्यक्षत्वं तस्य व्यापकम् उद्भूतरूपवत्त्वमुपाधिः / अत्र द्वयोर्भेदः, यतः प्रथमे साधनं विभुत्वं पक्षस्य घटस्य धर्मो न भवति, द्वितीये पक्षधर्मो बहिर्द्रव्यत्वं तत् साधनं न भवति यतस्तत्र वायुत्वमेव साधनं कृतमिति भेदः / उद्धृतपदमिति टीका - उद्भूतपदं प्रत्यक्षपरं कर्तव्यम् / तथा च प्रत्यक्षरूपवत्त्वमित्यर्थो यथाश्रुते यत्र बहिर्द्रव्यत्वावच्छिन्नं प्रत्यक्षं तत्र रूपवत्त्वमस्त्येवोद्भूतपदं व्यर्थं स्यात् इत्यर्थः / तत्रोच्यते - उद्भूतपदं समव्याप्त एवोपाधिर्भवति, विषमव्याप्तस्तु उपाधिन भवतीत्यभिप्रायेण / तथा च रूपवत्त्वस्य [2B] समा व्याप्ति स्ति। कथम् ? यत्र रूपवत्त्वं तत्र बहिर्द्रव्यत्वावच्छिन्नं प्रत्यक्षत्वमिति नास्ति / कथम् ? रूपवत्त्वं वर्तते परमाणौ, तत्र बहिर्द्रव्यत्वावच्छिन्नं प्रत्यक्षत्वं नास्ति, इति कृत्वा समव्याप्तिः रूपवत्त्वस्य नास्ति, तत उद्भूतरूपपदम्। ननु तथाप्युद्भूतरूपस्यापि समव्याप्ति स्ति, उद्भूतरूपं वर्तते परमाणौ, तत्र बहिर्द्रव्यत्वावच्छिन्नंप्रत्यक्षत्वं नास्तीति कृत्वा समव्याप्तिर्नास्तीति उद्भूतपदंप्रत्यक्षपरम्। तथा यत्र प्रत्यक्षरूपवत्त्वं तत्र बहिर्द्रव्यत्वावच्छिन्नं प्रत्यक्षत्वमिति व्याप्तिस्तिष्ठत्येवेत्यभिप्रायेण समव्याप्त एवोपाधिः, न तु विषमव्याप्त आर्टेन्धनादिः उपाधिः / यद्वेति उद्भूतपदं साधनव्यापकत्वशङ्कापरिहारवारकम् / तथाहि - यदि केवलं
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy