________________ तस्वचिन्तामणिः 'सुखबोधिकाटिप्पनिकासहितः ।तत्त्वचिन्तामणिः। | उपाधिवादः। ... उपाधिज्ञानाद् व्यभिचारज्ञाने सति न व्याप्तिनिश्चय इत्युपाधिर्निरूप्यते। तत्रोपाधि: साध्यत्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकः / अनौपाधिकत्वज्ञानं च न व्याप्तिज्ञाने हेतुः। अतो व्यापकत्वादिज्ञाने नान्योन्याश्रयः / यद्वा व्यापकत्वं तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम्, तत्प्रतियोगित्वं चाव्यापकत्वम्, प्रतियोगित्वं च तदधिकरणानधिकरणत्वमिति वदन्ति। तन्न। साधन-पक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तेः / न च तयोरनुपाधित्वम्, दूषकताबीजसाम्यात्। ।सुखबोधिका। / उपाधिवादः। [2A)न्योन्याभावस्य घटः प्रतियोगी न स्यात्, यतो घटान्योन्याभावस्याधिकरणं कपालं तत्र घटो वर्तत एवेत्यव्याप्तिः / पुनरपि दूषणान्तरमाह-एवं चेति / यदि प्रतियोगित्वं तदधिकरणानधिकरणत्वमुच्यते तदा आर्टेन्धनमप्युपाधिन स्यात्, साधनाव्यापकत्वाभावात् / तदेव दर्शयति - वह्नयादीति। साधनवनिष्ठात्यन्ताभावाधिकरणानधिकरणत्वं नास्ति / साधनवन्महानसः, तनिष्ठो योऽत्यन्ताभावः आकाशस्य, तस्याधिकरणं महानसः, स असाधनम्, वह्निः तत्समानाधिकरणोऽत्यन्ताभाव आकाशस्य, तस्याधिकरणं महानसः, स अधिकरणमेव भवति आर्टेन्धनस्य, तदनधिकरणत्वरूपं प्रतियोगित्वं नास्तीत्या!न्धनेऽव्याप्तिरित्यर्थः / ___ साधनेति मूलम् / एकः साधनावच्छिन्नसाध्यव्यापक उपाधिः, अपर: पक्षधर्मावच्छिन्नसाध्यव्यापकश्च / तत्रोभयत्राव्याप्तिः।आद्यो यथा - मित्रातनयः श्यामः मित्रातनयत्वात् इत्यत्रशाकपाकजत्वमुपाधिः शुद्धसाध्यव्यापको नास्तीति साधनावच्छिन्नसाध्यव्यापकः, तथा च मित्रातनयत्वावच्छिन्नं यत्र श्यामत्वं तत्र शाकपाकजत्वम् एवं साधनावच्छिन्नसाध्यव्यापको वर्तते। द्वितीयो यथा - वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र उद्भूतरूपवत्त्व1. प्रथमं पत्रं नोपलभ्यते।