________________ 394 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका बाधादिज्ञानस्य प्रतिबन्धकत्वाभिप्रायेणाबाधितत्वज्ञानं कारणत्वेन बोध्यते, न तु स्वातन्त्र्येण कारणत्वमबाधितत्वादिज्ञानत्वेन हेतुत्वं किन्तूक्तरीत्या परामर्शकारणतावच्छेदकतया। यद्यपि अबाधितत्वविषयकज्ञानं कारणं भवति कारणीभूतपरामर्शस्यैवाबाधितासत्प्रतिपक्षविषयत्वात् किन्तु अबाधितत्वज्ञानत्वेन स्वातन्त्र्येण कारणं नास्ति / यथा घटविषयपरामर्शेऽपि धूमे व्याप्तिपक्षधर्मताविषयकपरामर्श दैवादघटोऽपि भातस्तदा घटज्ञानं कारणं भवत्येव परन्तु तस्य घटज्ञानत्वेन कारणत्वं नास्ति तद्वत् अबाधितासत्प्रतिपक्षविषयकपरामर्शस्य कारणत्वेऽपिअबाधितज्ञानत्वरूपस्य स्वातन्त्र्येण न कारणत्वमित्यभिप्रायेणयदवगमे सतीत्यादिग्रन्थः केचिदित्यत्रास्वरसमाह - वस्तुत इति टीका / यदि अबाधितत्वज्ञानमनुमितौ कारणं नोच्यते तदाऽनुमितौ को गुणः ? . प्रमात्वप्रयोजको गुणः / यथा प्रत्यक्षप्रमायां विशेषणवत् विशेष्येन्द्रियसन्निकर्षो गुणः / यथा विशेषणवत् यद् . विशेष्यं तद्विशेष्येन्द्रियसन्निकर्षो गुणः, भ्रमे तु एवं नास्ति विशेष्यस्य शुक्तेः रजतत्वाभावात् नोक्तगुणस्तत्रेति भावः [199 B] / अनुमितौ परामर्शमात्रं न गुणः, तस्य भ्रमरूपानुमितावपि सत्त्वात् / किन्तु पक्षे साध्यस्याबाधितत्वादिकमेव गुणः / तेन तस्य गुणस्य संशयनिश्चयसाधारणाबाधितत्वज्ञानत्वेनैव कारणत्वम् / तथा चानुमितित्वेन कार्यता, संशयनिश्चयसाधारणाबाधितत्वज्ञानत्वेन कारणता / यदि अबाधितत्वनिश्चयत्वेन कारणतोच्यते तदापक्षे साध्यनिश्चयस्य कारणत्वेन सिद्धसाधनं स्यात्। किन्तु अबाधितत्वज्ञानत्वेन कारणत्वम् / तथा च साध्यनिश्चयोऽनुभितेः पूर्वं नापेक्षितः किन्तु संशयसाधारणंज्ञानमात्रं वर्तत एव। यथाशाब्दप्रमायां योग्यता गुणस्तस्याः / संशयनिश्चयसाधारणं ज्ञानमात्रं शब्दप्रमायां योग्यता संशयस्यापि कारणत्वात् / एतदेवाह - योग्यताज्ञानवदिति टीका।यथा योग्यताज्ञानं संशयनिश्चयसाधारणंशब्दप्रमायांगुणस्तथात्रापिअबाधितत्वज्ञानं संशयनिश्चयसाधारणं गुणः इत्यग्रे बाधग्रन्थे वक्ष्यते। तथा च मूलकारेण यदवगमे सति यन्न भवतीति यदुक्तं तद् बाधस्य प्रतिबन्धकत्वाभिप्रायेण, न तु कारणत्वाभिप्रायेण, इत्येतज्ज्ञापनार्थं सग्रन्थः। अत्र केचिदित्यनेन यदुक्तं पूर्वं तद् दूषयति - तथा चेति टीका / तेनाबाधितत्वज्ञानस्य गुण इत्याद्युक्तरीत्या हेतुत्वे सम्भवति सति हेतुत्वाभिप्रायेणैव यदवगमे सतीत्यादिको ग्रन्थः, न तु बाधज्ञानस्य प्रतिबन्धकत्वाभिप्रायेणेत्यर्थः / ननु वक्ष्यमाणासिद्धलक्षणोक्तरीत्याऽबाधितत्वज्ञानस्य स्वातन्त्र्येण कारणत्वं नायातीत्यत आह - असिद्धलक्षणं चेति टीका / असिद्धलक्षणेऽन्यथैव वक्ष्यामः / यथाऽबाधितासत्प्रतिपक्षत्वविषयतया परामर्शस्य कारणता नास्तीति तथाऽग्रे वक्ष्यत इत्यर्थः / उत्तरग्रंथयोजनार्थमाभासमाह - न त्विति टीका / तथा च निगमनेनापि यद् अबाधितत्वबोधनं कर्तव्यं तदपि साक्षान्न, अबाधितत्ववाचकपदाभावात्, किन्तु साध्यस्य सिद्धत्वप्रतिपादनमुखेन / विरोधि यदसिद्धत्वज्ञानं तद्वयवच्छेदकतया अबाधितत्वज्ञानं कार्यम् / अन्यथा सिद्धत्वप्रतिपादनेन विनाऽपिचेदबाधितत्वज्ञानं क्रियते तदा प्रतिज्ञावयवादपि तद्बोधापत्तिः।तथा चसिद्धत्वप्रतिपादनं साध्यस्यावश्यं