________________ निगमननिरूपणम् 393 अयमर्थः - यैरबाधितासत्प्रतिपक्षितत्वविषयतयैव कारणत्वमुच्यते तेषां मते बाधसत्प्रतिपक्षयोर्न स्वातन्त्र्येण हेत्वाभासत्वम् किन्तु एतयोरसिद्धमध्ये एवान्तर्भावः / तथा चाबाधितत्वज्ञानस्यासत्प्रतिपक्षत्वज्ञानस्यानुमितौ कारणत्वमेव नास्ति किन्तु तयोः परामर्शकारणतावच्छेदकत्वम्। यतोऽबाधितासत्प्रतिपक्षत्वविषयकपरामर्शत्वेन कारणताऽतः कारणतावच्छेदकत्वं तयोरिति / एवं बाधितत्वज्ञानस्य सत्प्रतिपक्षितत्वज्ञानस्य च न साक्षादनुमितिप्रतिबन्धकत्वं किन्तु अबाधितासत्प्रतिपक्षत्वविषयतया परामर्शस्य यत्कारणत्वं तद्विघटकद्वारा तयोस्तत्र प्रतिबन्धकत्वम्। तथा च तादृशपरामर्शकारणविघटनद्वारैवप्रतिबन्धकत्वसम्भवात् न तयोः स्वातन्त्र्येण तत्प्रतिबन्धकत्वमिति भावः / अत्र न च शुद्धज्ञानत्वम् अपसिद्धान्तश्चेति पाठोऽलग्न एव / किञ्चेति टीका / बाधः किं पक्षे साध्याभावो वा साध्याभावप्रमा वा / तत्र नाद्य इत्याह - बाधस्येति टीका / यदि बाधो नाम पक्षे साध्याभावस्तदाऽबाधितत्वं नामसाध्याभावाभावत्वम्, तच्चसाध्यमेव। तथाचाबाधितत्वज्ञानत्वेन कारणत्वमिति वदता साध्यज्ञानस्य साध्यज्ञानत्वेन कारणत्वमुक्तं भवति / तथा चात्माश्रयः / पक्षे साध्यज्ञाने साध्यज्ञानस्य कारणतेत्यात्माश्रय इत्यर्थः / एतदेवाह - पक्षे इति टीका / पक्षे साध्यज्ञानं पक्षे साध्यज्ञाने हेतुरित्येव पर्यवसन्नम्। ततः किमित्यत आह - तच्चेतिटीका। तच्चासङ्गतम्, यतः सिद्धसाधनप्रसङ्गात्।यदि पूर्व पक्षे साध्यज्ञानं तिष्ठति तदा सिद्धसाधनम्, पक्षे साध्यसिद्धौ सत्यां किं साध्यज्ञानेनेत्यर्थः / यदि च पक्षे साध्यज्ञानं नास्ति तदाऽबाधितत्वज्ञानाभावादनुमितिर्न स्यात् / द्वितीये आह - यदि चेति टीका। [199 A] यदि च साध्याभावप्रमा बाधस्तदा दूषणं यथा - तदेति टीका / स्वशब्देन यस्य पुरुषस्यानुमितिर्जायते तस्य परस्य वा साध्याभावप्रमाविरहरूपो बाधाभावस्तत्र साध्यसत्त्वनिश्चयं विना निश्चेतुमशक्य एव, तथा च तन्निश्चये पक्षे साध्यनिश्चये सिद्धसाधनं स्यात्। किञ्च पक्षे साध्यनिश्चयोऽप्यनुमितिरूपो वक्तव्यस्तत्राप्यबाधितत्वज्ञानं कारणं वक्तव्यम् / तत्राप्यबाधितत्वं नाम स्वपरसाधारणसाध्याभावप्रमाविरहरूपो बाधाभावः, सोऽपिपक्षे साध्यनिश्चयं विना न सम्भवतीत्यनवस्थास्यात् / उपसंहरति- इतीति टीका।तथा चस्वतोऽबाधितत्वनिश्चयस्यानुमितिहेतुत्वे परम्परया पक्षगोचरसाध्यसत्त्वनिश्चयस्यानुमितिहेतुत्वमापद्यते इति सिद्धसाधनात्माश्रयानवस्थादिदोषसम्भवान्महदसमञ्जसम् / उपसंहरति - तस्मादिति टीका। अबाधितासत्प्रतिपक्षत्वज्ञानं स्वतोऽनुमितिकारणं न भवति किन्तु परामर्श कारणतावच्छेदकमिति केचिदिति मताशयः / ननु अबाधितत्वज्ञानस्यानुमितौ स्वातन्त्र्येण कारणत्वं नास्ति तदा यदवगमे सतीत्यादिग्रन्थोऽसङ्गतः स्यात् / तथाहि यदवगमे सति यन्न भवति तदभावज्ञाने सति तद्भवत्येवेति रूपो नियमो न स्यादेव। बाधितत्वज्ञाने जाते सति अनुमितिर्न जायते। बाधितत्वाभावज्ञाने सति अनुमितिर्जायते इति अबाधितत्वज्ञानं कारणमित्युक्तं मूलकृता तच्चासङ्गतमापद्यत इत्यत आह - यदवगमे सतीति टीका।तथा चमूलकृतापियोऽयं नियम उक्तः सनाबाधितत्वज्ञानस्य कारणताभिप्रायेण किन्तु