________________ 392 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सिद्धत्वेनोपस्थिते हेतोरपेक्षा एव न स्यादिति भावः / निगमनेऽपि यदि सिद्धनिर्देशकत्वं तदा प्रतिज्ञायामपि सिद्धनिर्देशापत्तौ प्रतिज्ञयैव विपरीतशङ्कानिवृत्तौ निगमनस्य वैयर्थ्यमेव स्यादित्यर्थः / तदभावाबोधने समीहितानिर्वाहादिति मूलं व्याचष्टे - समीहितेति टीका / समीहितम् उद्देश्या या परस्यानुमितिः तदुत्पादानिर्वाहात् / अयमर्थः - यावत्पर्यन्तमबाधितत्वमसत्प्रतिपक्षत्वं च न बोधितं तावत्पर्यन्तं परस्य यं प्रति अनुमितिः क्रियते तस्यानुमिति!त्पद्यते बाधज्ञानस्य प्रतिबन्धकत्वात् / ततः किमित्यत आह - तथा चेति टीका / तथा च तात्पर्यविषयीभूतं यदबाधितासत्प्रतिपक्षत्वे तदन्वितो योऽर्थः तस्य यदभिधानापर्यवसानं सैवावयवान्तराणामाकाङ्क्षा, तथा चावयवान्तराणां साकाङ्क्षत्वान्निगमनमवश्यं वक्तव्यमेवेति भावः / ननु बाधादिविरहस्य न प्रयोजकत्वं जनकजनकत्वलक्षणम्, बाधाभावस्यानुमितिं प्रति साक्षाज्जनकत्वात्, इत्यत आह - अनुमितीति टीका / न ह्यत्र जनकजनकत्वलक्षणं प्रयोजकं विवक्षितम्, किन्त्वनुमितिजनकत्वमेव विवक्षितम्, तथा च नोक्तदोषः / असिद्धेश्चेति मूलं व्याचष्टे - तेनेति टीका / अबाधितत्वादिज्ञानेन विनापि स्वार्थानुमितेर्दृष्टत्वात् स्वार्थानुमितौ तस्य व्यभिचारात् परार्थानुमितावप्यबाधितत्वज्ञानं न कारणमित्यर्थः / सिद्धान्तग्रन्थे यदवगम इति मूलं व्याचष्टे - यदवगम इति टीका / ननु यद्ज्ञाने सति यन्न भवति तत् तदभावज्ञानसाध्यमिति व्याप्तिर्नास्ति। कथम् ? घटाभावज्ञाने सति घटप्रत्यक्षं न जायते इति कृत्वा / न च घटज्ञानसाध्यं घटज्ञानं यतो घटाभावाभावो घटस्तज्ज्ञानसाध्यं घटज्ञानमिति व्यभिचार इत्यत आह - अयं चेति टीका। अयं च नियमः प्रत्यक्षातिरिक्तज्ञाने बोद्धव्यः / उक्तानुपपत्तिं स्पष्टयति - अन्यथेति टीका। आभास एव व्याख्यातप्रायमेतत् / प्रत्यक्षातिरिक्तस्थले यथाऽयं नियमः / यथाऽयोग्यताज्ञाने सति शाब्दबोधो न जायते, तदभावो योग्यताज्ञानं तज्ज्ञानसाध्यः शाब्दबोधः / तथाच बाधाभावज्ञानमनुमितिजनकमनुमितिप्रतिबन्धकीभूतज्ञानविषयप्रतियोगिकाभावज्ञानत्वात् योग्यताज्ञानवत् / अत्र केचिदिति टीका / अबाधितत्वज्ञानस्यानुमितिहेतुत्वे प्रोच्यमाने लाघवेनाबाधितासत्प्रतिपक्षत्वविषयकपरामर्शस्यैवानुमितिकारणत्वं वक्तव्यम् / न तु परामर्शस्य भिन्ना कारणता [198 B] अबाधितत्वादिज्ञानस्य भिन्ना कारणता, गौरवात् / अबाधितासत्प्रतिपक्षत्वविषयकपरामर्शस्यैव कारणत्वम् यथाऽबाधितासत्प्रतिपक्षितवह्रिव्याप्यधूमवानयमित्यस्यैवानुमितिकारणता, न त्वन्यस्य। क्लृप्तकारणकारणतावच्छेदककल्पना लधीयसी। न तु कारणान्तरकल्पना कार्या, तस्या गौरवग्रस्तत्वात् इति भावः / एतदेवाह - न त्विति टीका / गौरवादिति टीका / कारणतावच्छेदककल्पनापेक्षया कारणान्तरकल्पने गौरवं स्यात् / तथा चाबाधिताऽसत्प्रतिपक्षत्वं परामर्शस्य कारणतावच्छेदकम्, न तु भिन्न कारणान्तरम्, गौरवात्। ततः किमित्यत आह - परामर्शविषयाभाव इति टीका / तथा चाबाधितत्वमसत्प्रतिपक्षत्वं परामर्शविषयस्तदा तदभावत्वेन सत्प्रतिपक्षत्वस्य परामर्शविषयाभावत्वेनासिद्धमध्ये एवान्तर्भावो बाधितत्वस्य सत्प्रतिपक्षत्वस्य सत्त्वात् /