________________ निगमननिरूपणम् 391 चाभिधानाभिधेययोरिदमेव नामान्तरमुपकार्योपकारकत्वम् / उपकार्यमभिधेयं तथाभूतं ज्ञायमानं लिङ्गमिति यावत् / अभिधानं व्याप्तिपक्षधर्मताज्ञानमुपकारकम् / तयोश्च प्रकृते पर्यवसानात् तेनोभयविधाऽप्याकाङ्क्षा नास्तीति कृत्वा किमर्थं [197 B] तदुभयाभावे च कथं चतुर्णामवयवानां साकाङ्क्षत्वं स्यादित्यर्थः / उत्तरग्रन्थयोजनार्थमाभासमाह - नन्विति टीका। यावत्पर्यन्तं पक्षे साध्यविपरीतशङ्का निवृत्ता नास्ति तावत्पर्यन्तमभिधेयं व्याप्तिपक्षधर्मताविशिष्टलिङ्गज्ञानं ज्ञायमानं लिङ्गं वा तत्पर्यवसन्नं नास्ति। एतदेवाह - न हीति टीका / न हि संभवति पक्षे साध्याभावोऽथसाध्यव्याप्तिपक्षधर्मताविशिष्टं लिङ्गम्, इदं न संभवति द्वयोरेतयोविरुद्धत्वात्। ततः किमित्यत आह - तथा चेति टीका। अभिधानाभिधेययोर्मध्ये अभिधेयस्यापर्यवसन्नत्वात् चतुर्णामप्यवयवानां साकाङ्क्षत्वात् तन्निवृत्तये निगमनमवश्यं वक्तव्यमित्याभासार्थः / साध्येति टीका / पक्षे साध्यविपरीतशङ्का साध्याभावशङ्का इत्यर्थः / सा केन निव]त्यत आह - साध्येति टीका / साध्यसत्त्वोपदर्शको यः प्रतिज्ञालक्षणोऽवयवः तस्मादेव साध्यशङ्कानिवृत्तिर्भविष्यति, किं निगमनेन ? अन्यथेत्यस्य व्याख्यामाह - प्रतिज्ञेति टीका / यदि प्रतिज्ञालक्षणोऽवयवः साध्यसत्त्वोपदर्शकः स चेद् विपरीतशङ्कानिवर्तको न भवति तदा साध्यसत्त्वोपदर्शकस्य निगमनस्यापि विपरीतशङ्कानिवर्तकत्वंनस्यादित्यन्वयेत्यारभ्यशङ्कार्थः ।नहीत्यस्य व्याख्यानमाह - नहीति टीका। विशेषदर्शनेनेत्यस्य व्याख्यानमाह - पक्षेति टीका। तथा चनिगमनमपि पक्षनिष्ठसाध्यसत्त्वोपदर्शकत्वात् विपरीतशङ्कानिवर्तकं वक्तव्यम् / न तु तद्रूपं पक्षनिष्ठसाध्यसत्त्वोपदर्शकत्वलक्षणं रूपं परित्यज्य शङ्कानिवर्तकम् / तथा च प्रतिज्ञाया एव साध्यसत्त्वोपदर्शकत्वात् विपरीतशङ्कानिवर्तकत्वमस्तीत्यर्थः / प्रतिज्ञेति टीका। तथा च प्रतिज्ञायां न सिद्धनिर्देशः / तथा च साध्यनिर्देशकस्य न विपरीतशङ्कानिवर्तकत्वं किन्तु सिद्धनिर्देशकस्यैवेति निगमनस्य तदुपदर्शकत्वात् सार्थकत्वमिति भावः / एतदेवाह - पक्षनिष्ठेति टीका / तथा च 'प्रतिज्ञानिगमनयोः पक्षनिष्ठसाध्यसत्त्वोपदर्शकत्वस्याविशेषे विद्यमानेऽपि निगमनं सिद्धत्वोपदर्शकत्वेन विपरीतशङ्कानिवर्तकं भविष्यति, प्रतिज्ञा तु सिद्धत्वोपदर्शिका न भवतीति प्रतिज्ञा विपरीतशङ्कानिवर्तिका न भवतीति निगमनस्य सिद्धिरेवेति भावः / इदं दूषयति - स्वरूपेति टीका। तात्पर्यमाह - सिद्धत्वेति टीका। निगमनमपि सिद्धत्वज्ञापनद्वारा विपरीतशङ्कानिवर्तकं तदा स्यात् यदि निगमने सिद्धत्वप्रतिपादकपदं किञ्चित् स्यात्, तच्च नास्तीति। किन्तु साध्यविशिष्टपक्षमात्राभिधायकत्वमेव निगमनस्य यथावहिव्याप्यधूमवत्त्वात् वह्निमानयमिति / न चात्रापि साध्यत्वोपदर्शकपदाभावात् कथं साध्योपदर्शकत्वमिति वाच्यम् / हेतौ हेतुत्वेनोपस्थिते सति तदन्वयप्रतियोगितया साध्यत्वस्य संसर्गविधयोपस्थितिः। ननुसाध्यत्वोपस्थापकपदाभावात् साध्यत्वानुपस्थितौ सिद्धत्वेनैवोपस्थितिः [198 A] कल्पनीया इत्यतो यन्मूलकृतोक्तं साध्यत्वानुपस्थिताविति तद् योजयति - प्रत्युतेति टीका। यदि निगमने साध्यतयोपस्थितिर्नास्ति तदा तस्मादिति हेतुविभक्त्यर्थस्यानन्वय एव स्यात्, यतः