________________ 390 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अघटज्ञानम् अथ च घटज्ञानाभाव इदं द्वयं भिन्नमेव।आद्यं गुणपदार्थः, द्वितीयम् अभावपदार्थः इति तयोर्भेदात् / अथेत्यारभ्य बोधनीयमिति पर्यन्तमाशङ्कार्थः / समाधत्ते - यद्ज्ञाने(यदवगमे) सतीति मूलम् / यद्ज्ञाने सति यन्न भवति तत् तदभावज्ञानसाध्यमिति, यथा अप्रामाण्यज्ञाने सति बहुवित्तव्ययायाससाध्या प्रवृत्तिर्न जायते इति कृत्वा सा प्रवृत्तिरप्रामाण्याभावज्ञानसाध्या। तद्वत् प्रकृते बाधज्ञाने सत्प्रतिपक्षज्ञाने च सति अनुमितिर्न जायते इति कृत्वा बाधाभावज्ञानासत्प्रतिपक्षितत्वज्ञानसाध्याऽनुमितिर्भवति। तथा च बाधाभावज्ञानमसत्प्रतिपक्षितत्वज्ञानं चावश्यमनुमितिकारणं मन्तव्यम् / पूर्वोक्तं तस्मादित्यनन्वयदोषमुद्धरति - न चेति मूलम् / यदि तस्मादित्यस्य हेतोरन्वयात् पूर्वं चेत् वह्नः [197 A] सिद्धत्वज्ञानमुच्येत तदाऽनन्वयो भवति / वढेः सिद्धत्वज्ञाने विद्यमाने हेतोरन्वय एव नास्ति किन्तु हेतोरन्वये ज्ञाते पश्चात् हेत्वनाकाङ्कितत्वरूपं सिद्धत्वज्ञानं भवति। तथा चहेतोरन्वये निश्चिते हेत्वनाकाक्षितत्वरूपं सिद्धत्वज्ञानं तस्मिन् चाबाधितत्वज्ञानं भवत्येव / एतदेवाह - न त्विति मूलम् / हेत्वन्वयात् पूर्वं सिद्धत्वज्ञानं नास्तीत्यर्थः / अथ टीका / प्रतीतेरिति टीका / अन्यथा प्रतीतिव्यतिरेकेण शब्दरूपावयवानां का पर्याप्तिरित्यर्थान्तराभावादनन्वयः स्यादित्यर्थः / नन्वपर्यवसानमपि शब्दरूपावयवानां किमित्यत आह - साकाङ्क्षत्वादित्यर्थः इति / तथा चावयवाङ्गीकारः साकाङ्क्षत्वनिमित्तक एवेत्यर्थः / नन्वथेति मूलेऽभिधानशब्देन पदमुच्यते, अभिधेयशब्देन पदार्थः पदशक्योऽर्थः / तयोः पर्यवसानं प्रकृते किञ्चिन्नास्त्येव / चतुर्ध्वप्यवयवेषु किं शब्दशब्दार्थयोः पर्यवसानम् ? शब्दात् शब्दार्थबोधो जात इति / ततः किम् ? निगमनस्य नानेन वैयर्थ्यमिति भावः इत्यत आह - व्याप्त्यादीति टीका। तथा चाभिधानस्यायमर्थ व्याप्तिपक्षधर्मतयोरनुभवस्तज्ज्ञानमिति यावत् / लिङ्गपदं स्वरूपाभिप्रायेण / तथा चाभिधानशब्देन व्याप्तिपक्षधर्मताज्ञानमिति अर्थः / अभिधेयशब्दस्यार्थमाह - तथाभूतेति टीका / व्याप्तिपक्षधर्मते यद्रूपावच्छिन्ने वर्तेते तद्रूपावच्छिन्नं ज्ञायमानं लिङ्गमिति यावत् / यथा व्याप्तिरपि धूमत्वेन रूपेण पक्षधर्मताऽपि धूमत्वेन रूपेण ततो धूमत्वावच्छिन्नं धूमज्ञानमिति यावत् / तथा चानुमितौ यानि व्याप्तिज्ञानपक्षधर्मतज्ञानलिङ्गज्ञानादीनि कारणानि तानि सर्वाणि व्याप्तिपक्षधर्मताविशिष्टलिङ्गज्ञाने सतिसिद्धान्येवेति किं निगमनेनेतिआशङ्कार्थः। ननु तथापि निगमनेन विनाऽवयवचतुष्टयस्य साकाङ्क्षत्वमेवेति / ततो निराकाङ्क्षत्वार्थं निगमनमवश्यमपेक्ष्यत इत्यत आह - आकाङ्क्षा हीति टीका / तथा चाकाङ्क्षा चतुर्ध्वप्यवयवेषु नास्ति। आकाङ्क्षा हि द्विविधा - एका अभिधानापर्यवसानलक्षणा आकाङ्क्षा / द्वितीया चाभिधेयापर्यवसानलक्षणा।द्वयोरुदाहरणमाह - द्वारमिति। यथाद्वारमित्येतावत्युक्ते एकस्यपदस्याननुभावकत्वात् द्वारपदस्य पिधेहीत्यनेन साकाङ्क्षत्वं तथा चेदमभिधानापर्यवसानम्। द्वितीया यथा विश्वजितेति विश्वजिद्यागेन यजेत इत्यत्राधिकारिज्ञानं स्वर्गकामज्ञानं यावत्पर्यन्तं ज्ञातं नास्ति तावत्पर्यन्तं वाक्यस्यापर्यवसानमेव / तथा