________________ निगमननिरूपणम् 389 निगमनरूपेणावयवेनेत्याशङ्कार्थः / अक्षरयोजना तु अभिधानशब्देन व्याप्तिापक्षाधर्मताज्ञानं सङ्केतात् / अभिधेयं यद्रूपावच्छिन्नस्य लिङ्गस्य ज्ञानमनुमितिहेतुः इदमत्राभिधेयम् / अयमर्थः / अभिधानशब्देन व्याप्तिपक्षधर्मतयोमा॑नम् / अभिधेयशब्देन लिङ्गतावच्छेदकावच्छिन्नं लिङ्गज्ञानम्, एवं च धूमत्वेन रूपेण धूमज्ञानम् अन्यथा द्रव्यत्वेन रूपेण व्यभिचारिज्ञानादनुमितिर्न जायत इति / तथा च तादृशाभिधानाभिधेययोर्व्याप्तिपक्षधर्मताविशिष्टलिङ्गप्रतिपादनादेव पर्यवसानेन सिद्धत्वेन यथा घटपटोभयगोचरज्ञानात् घटज्ञानपटज्ञानयोः पर्यवसानात् घटपटोभयसमूहालम्बनज्ञाने पुरुषस्य घटज्ञानेऽप्यपेक्षा न जायते पक्ष(ट)ज्ञानेऽप्यपेक्षा न जायते तद्वत्प्रकृते व्याप्तिपक्षधर्मताविशिष्टं लिङ्गं चेद् ज्ञातं तदा व्याप्तिज्ञानान्तरेऽपेक्षा पुरुषस्य नास्ति लिङ्गज्ञानेऽप्यपेक्षा नास्ति, तथा चानुमितिसामर याः सर्वस्या जातत्वात् अवयवान्तराणां निराकाङ्क्षत्वम् अवयवान्तरस्यापेक्षा नास्तीत्यर्थः / एवं चसति निगमनं व्यर्थमितिभावः। ननु पक्षे वह्नयभावोऽपि भविष्यतीति विपरीतशङ्कानिवृत्त्यर्थं निगमनमपेक्षितमित्यत आह - विपरीतेति मूलम् / विपरीतशङ्कानिवृत्तिरपि पूर्वकृतचतुर्भिरवयवैर्भविष्यतीति किमर्थं निगमनम्। अन्यथेति मूलम् / यदि पूर्वेभ्योऽवयवेभ्यो विपरीतशङ्कानिवृत्तिर्न भवेत् तदा निगमनेनापि न भवेत् / न हि पूर्वावयवापेक्षया निगमने कोऽपि विशेषः इत्यर्थः / निगमनेन या विपरीतशङ्का वारणीया सा विशेषदर्शनमुद्रयैव वारणीया, विशेषदर्शनमुद्राव्यतिरेकेण विपरीतशङ्कानिवर्तनं न भवति / [196 B] तथा च विशेषदर्शनविधया निवर्तनं वक्तव्यम्। तच्चोपनयेऽपितुल्यमस्तीत्यर्थः / एतदेवाह - नहीतिमूलम्।अत्रशङ्कते - सिद्धनिर्देशतयेति मूलम् / तथा च प्रतिज्ञादौ उदाहरणे वा, प्रतिज्ञायां वह्नः साध्यतया निर्देशः निगमने तु सिद्धतया निर्देशः / ततः सिद्धनिर्देशेन वढेविपरीतशङ्कानिवृत्तिर्भवतीत्याशङ्कार्थः / दूषयति - स्वरूपेति मूलम् / निगमने तस्माद् वह्निमान् इत्येव रूपे स्वरूपमात्रमेवावगम्यते न तु तस्य सिद्धत्वं तद्वाचकपदाभावात् / अथ चयदिवढेः सिद्धत्वेनोपस्थितिः तदा तस्मादित्यस्यानन्वय एवस्यात्, यतः सिद्धत्वेनोपस्थिते हेत्वाकाङ्क्षाया अभावात् / इत्युक्तयुक्त्या निगमनं व्यर्थमेवेत्यर्थः / अथेत्यारभ्य निगमने पूर्वपक्षग्रन्थः / सिद्धान्तयति - व्याप्तीति मूलम् / तथा चोक्तचतुर्भिरवयवैर्व्याप्तिपक्षधर्मताज्ञाने विद्यमानेऽपि बाधस्तत्प्रतिपक्षितत्वज्ञाने विद्यमानेऽनुमितिर्न जायते / तयोर्ज्ञानं यथाऽत्र वह्निर्नास्तीति आप्तवाक्यादिना बाधज्ञानम्, सत्प्रतिपक्षो यथा वह्नयभावव्याप्यपाषाणवत्त्ववान् अयमिति ज्ञाने विद्यमानेऽनुमितिर्न जायते इति कृत्वाऽबाधितत्वाऽसत्प्रतिपक्षितत्वबोधनाय निगमनमवश्यमपेक्षितव्यम्। एतदेवाह - तदभावेतिमूलम्।बाधसत्प्रतिपक्षितत्वाभावाबोधने चतुर्णामप्यवयवानां समीहिता याऽनुमितिस्तदनिर्वाहात्। अत्राशङ्कते - अथेति मूलम् / अबाधितत्वमसत्प्रतिपक्षितत्वं च किमर्थं बोधनीयम्, अनुमितावबाधितत्वादिज्ञानस्य कारणत्वे प्रमाणाभावात् / नन्वेवं बाधे सत्यनुमितिः स्यादिति चेन्न, बाधादिज्ञानाभावस्य कारणत्वं न तु अबाधितज्ञानस्य।न चैतयोरैक्यमिति वाच्यम् /