________________ 388 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नास्तीति कथं विशेषणमित्यत आह - साध्यधीविशेषणमिति टीका। तथा चायं समासः। अनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणं या व्याप्तिपक्षधर्मताधीप्रयुक्ता साध्यधीस्तज्जनकवाक्यत्वमित्यर्थः / तथा च व्याप्तेर्यद्यपि शाब्दज्ञानकारणत्वं नास्ति तथापि व्याप्तिपक्षधर्मताधीप्रयुक्तसाध्यधियो जनकत्वमस्त्येवेति नोक्तदोषः इत्यर्थः / व्याप्तीत्यारभ्योत्तरदलप्रयोजनमाह - प्रतिज्ञेति टीका / तथा च प्रतिज्ञायामनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणत्वं वर्तते इति कृत्वा कारणान्तमात्रोपादाने प्रतिज्ञायामतिव्याप्तिः, तद्वारणाय व्याप्तीत्यादि उत्तरदलम् / ननु व्याप्तिपक्षधर्मताधीप्रयुक्तसाध्यधीजनकत्वं कथं निगमनवाक्यस्यास्तीत्याह - साध्यधीरिति टीका। पर्वतो वह्निमान् इति प्रतिज्ञायां [196 A] वह्रिमत्तया पर्वतो ज्ञातव्य इति ज्ञानलक्षणा, तथा निगमनवाक्येऽपि वहिव्याप्यधूमवत्त्वादित्यत्रापिधूमज्ञानमुपस्थितम् तथा चव्याप्तिपक्षधर्मताविशिष्टहेतुज्ञानात् पर्वतो वह्रिमत्तया ज्ञातव्य इति ज्ञानलक्षणा निगमनेऽप्युचिता। तथा च यदि वह्रिज्ञाने लक्षणा जाता तदा व्याप्तिपक्षधर्मताधीप्रयुक्तसाध्यधीर्जातैवेति, यतो वह्रिव्याप्यो धूमो ज्ञातोऽतः पर्वतोऽपि वह्निमत्तया ज्ञातव्य इति व्याप्तिपक्षधर्मताधीप्रयुक्ता साध्यधीर्भवत्येवेत्यर्थः।। अथाभिधानाभिधेययोर्व्याप्तिपक्षधर्मतावल्लिङ्गप्रतिपादनादेव पर्यवसानेनावयवान्तराणां निराकाङ्क्षत्वं विपरीतशङ्कानिवृत्तेरपितत एव लाभात् अन्यथा निगमनेनापि तदवारणात्, न हि तत् विशेषदर्शनमनादृत्यैव तन्निवर्तकम्। सिद्धनिर्देशतया वारयतीति चेत् / न / स्वरूपमात्राभिधानात् साध्यत्वानुपस्थितौ तस्मादिति हेतुविभक्त्यनन्वयप्रसङ्गाच्चेति चेत् / न / व्याप्तिपक्षधर्मताज्ञानेऽपि बाधसत्प्रतिपक्षबुद्धेः साध्यज्ञानानुत्पत्तिदर्शनात् तदभावाबोधने समीहितानिर्वाहात्। अथ बाधादिविरहस्य प्रयोजकत्वंन तु तद्बोधस्य मानाभावात् असिद्धेश्च इति किमर्थं बाधादिविरहो बोधनीय इति चेत् / न / यदवगमे सति यन्न भवति तत्तदभावज्ञानसाध्यमिति व्याप्तेः / न चानन्वयः, तस्मादित्यन्वयबलात् एव हेत्वनाकाक्षितत्वलक्षणसिद्धत्वज्ञानात् नत्वन्वयात्प्राक् / अथ निगमनस्य वैयर्थ्यमाशङ्कते - अथेति मूलम् / प्रतिज्ञादीनां चतुर्णामप्यवयवानां तावत्पर्यन्तमाकाङ्क्षा यावत्पर्यन्तं व्याप्तिपक्षधर्मतयोञ्जन कृतम्।अथच यद्रूपावच्छिन्नत्वेन ज्ञातस्य लिङ्गस्यानुमितिजनकत्वं तादृशं लिङ्गं यावत्पर्यन्तं न प्रतिपादितं न ज्ञातं तावत्पर्यन्तमाकाङ्क्षा। प्रकृते चोपनयपर्यन्तावयवैः व्याप्तिपक्षधर्मताविशिष्टं लिङ्गं चेत् प्रतिपादितं तदा व्याप्तिपक्षधर्मतयोर्ज्ञानमपि सिद्धम् अथ च लिङ्गस्यापि ज्ञानं सिद्धमेव, किं