SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ / अवयवप्रकरणे निगमननिरूपणम् / उपनयानन्तरं निगमनं तच्चानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणव्याप्तिपक्षताधीप्रयुक्तसाध्यधीजनकं वाक्यम् / न च व्याप्ति-पक्षधमतयोश्चतुभिरेवावयवैः पर्याप्ते:किंतेनेतिवाच्यम्।अबाधितासत्प्रतिपक्षितत्वयोरलाभेचतुर्णामप्यपर्यवसानात् / ।अथ निगमनग्रन्थः। ___ मूलम् / उपनयानन्तरं निगमनलक्षणमाह - तच्चेति मूलम् / अनुमितीति मूलम् / अनुमितिहेतुर्यो लिङ्गपरामर्शस्तस्य प्रयोजकं यच्छाब्दज्ञानं तस्य कारणम् एतादृशी या व्याप्तिपक्षधर्मताधीप्रयुक्ता साध्यधी: तज्जनकं वाक्यं निगमनम्, यथा तस्माद् वह्रिमान् इत्येतस्मिन् निगमने वर्तते / तथाहि अनुमितिहेतुर्यो लिङ्गपरामर्शः चरमलिङ्गपरामर्शो मानसज्ञानानन्तरं योऽबाधितत्वाऽसत्प्रतिपक्षत्वज्ञानकालीनव्याप्तिपक्षधर्मताज्ञानरूपः [195 B] यथा अबाधितासत्प्रतिपक्षितवह्रिव्याप्यधूमवान् अयम् इति रूपः तस्य प्रयोजकं यन्यायजन्यं शाब्दज्ञानं पञ्चावयववाक्यजन्यं यच्छाब्दज्ञानं तस्य कारणं यत्, अथ व्याप्तिपक्षधर्मताधीप्रयुक्ता या साध्यधीः वहिव्याप्यधूमवत्त्वज्ञानप्रयोज्या या वह्निमत्त्वधीः तज्जनकं यद् वाक्यं तस्माद् वह्निमान् इति एवं रूपम् इदं निगमनम् / कारणान्तं विशेषणं तस्माद् वह्निमान् इत्याप्तवाक्येऽतिव्याप्तिवारणाय, तत्र पूर्वोक्तरीत्याऽनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणत्वं नास्ति। उत्तरंदलमवयवान्तरेऽतिव्याप्तिवारणाय।अवयवान्तरे व्याप्तिपक्षधर्मताधीप्रयुक्तसाध्यधीजनकवाक्यत्वं नास्ति। उपनयवाक्ये यद्यपिव्याप्तिपक्षधर्मताविषयत्वं वर्तते यथा वहिव्याप्यधूमवांश्चायमिति रूप उपनयः तथापि तत्र व्याप्तिपक्षधर्मताधीप्रयुक्तसाध्यधीजनकवाक्यत्वं नास्ति। सा तु धीर्वह्रिव्याप्यधूमवत्त्वाद् वह्निमान् इति रूपा तज्जनकवाक्यत्वं निगमने (उपनये) नास्ति। कुतः? वहिव्याप्यधूमवत्त्वाद् वह्निमान् इत्येवं यद् ज्ञानं तदुपनयवाक्याद् न जायते, तत्तु निगमनवाक्यादेव जायते इति अवयवान्तरव्यावृत्तिः / अत्राशङ्कते मूले - न चेति / तथा च प्रतिज्ञाहेत्वोर्यद्विषयिकाऽनुमितिर्जायते तत्साध्यप्रतिपत्तिद्वारा उपयोगः / हेतुवाक्यस्य तु कोऽत्र हेतुरिति हेतूत्थापनद्वारा उपयोगः। उदाहरणोपनययोस्तु व्याप्तिपक्षधर्मताज्ञानद्वारा उपयोगः / तथा च चतुर्णामप्यवयवानां तत्तदनुमित्यङ्गप्रतिपत्तिद्वाराऽस्त्युपयोगः / निगमनस्य तु न कोऽप्युपयोग इत्याशङ्कार्थः / समाधत्ते - अबाधितेति मूलम् / हेतौ अबाधिताऽसत्प्रतिपक्षत्वं चेन्न लब्धं तदाऽनुमितिर्न जायते इति अबाधितासत्प्रतिपक्षत्वयोरलाभे चतुर्णामप्यवयवानां निष्प्रयोजनत्वात् निगमनस्याबाधितासत्प्रतिपक्षत्वज्ञानद्वारा उपयोगः। अथ टीका / कारणान्तस्य कृत्यमाह - अत्रेति टीका। निगमनलक्षणे / ननु व्याप्तेः शाब्दज्ञानकारणत्वमेव
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy