________________ 386 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यापारो मानसज्ञानोत्तरकालीनतृतीयलिङ्गपरामर्शस्तत्समानाकारं व्याप्तिपक्षधर्मतावगाहितया समानाकारं यत् ज्ञानम् उपनयवाक्यजन्यं ज्ञानं परामर्शरूपं भवत्येव तदेव परामर्शशब्देन विवक्षितम् / ननु अनुमितिकारणीभूतस्तृतीयलिङ्गपरामर्शः, तस्योपनयः कारणं न भवति परमेतादृशमेव मानसं ज्ञानं कारणम् / अत्राशङ्कते - यद्यपीति टीका / निगमनेऽपि तस्मादिति तच्छब्देन व्याप्तिपक्षधर्मावुच्येते इति कृत्वाऽनुमितिकारणतृतीयलिङ्गपरामर्शजनकावयवत्वं तत्रापिवर्तते इति कृत्वा निगमनेऽतिव्याप्तिः। एतदेवोपपादयति - तच्छब्देनेति टीका। [195 A] तच्छब्दस्य बुद्धिस्थवाचकत्वात् / बुद्धिस्थे तु व्याप्तिपक्षधर्मते, तदवगाहित्वं निगमनेऽस्तीति भावः / समाधत्ते - तथापीति टीका / तद् ज्ञानं व्याप्तिपक्षधर्मतावगाहि ज्ञानं कीदृशं विवक्षितम् ? यत्साध्यव्याप्यविशेषणेति। साध्यस्य यद् व्याप्यं हेतुरूपं तद् विशेषणं यस्य, यथा पक्षविशेष्यकहेतुविशेषणकं यद् ज्ञानं तदेव विवक्षितम्, निगमनं चैतादृशं न भवति / निगमने वहिव्याप्यो धूमो न पर्वतस्य विशेषणं किन्तु पर्वतस्य विशेषणं वह्निः, तस्माद् वहिव्याप्यधूमात् वह्रिमानयमिति निगमनम्, निगमने पर्वतांशे वह्रिर्विशेषणं तस्य विशेषणं धूम उपनये तु साक्षात् पक्षस्यैव विशेषणं व्याप्यो धूम इति निगमने परामर्शसमानाकारज्ञानजनकत्वमेव नास्ति, कुत्रातिव्याप्तिरित्यर्थः / उत्तरग्रन्थं योजयितुमाभासमाह - नत्विति। परेषां प्राभाकराणां मते यतस्तन्मते व्याप्यतावच्छेदकप्रकारकं व्याप्तिज्ञानम्, व्याप्यतानवच्छेदकप्रकारकंपक्षधर्मताज्ञानमेवजनकंन तुव्याप्तिप्रकारकं पक्षधर्मताज्ञानमित्यर्थः / तल्लाभायेति उपनयलाभायेत्यर्थः / तथा च यद्यपि प्राभाकराणां मते व्याप्तिपक्षधर्मतोभयवैशिष्ट्यावगाहिज्ञानं कारणं नास्ति तथापि पक्षधर्मताज्ञानं तु कारणं वर्तत एवेति पक्षधर्मताप्रदर्शनाय उपनयः स्वीकार्य एवेत्यर्थः / इदमेवाह - तथा चेति टीका / उदाहरणेन व्याप्त्यामवगतायां सत्यां पक्षधर्मताबोधनार्थमवश्यमुपनयः कर्तव्य एवेत्यर्थः / ननु तथापि धूमवान् अयम् इत्येवोपनयः कर्तव्यो न तु वहिव्याप्यधूमवान् अयम् इति, व्याप्तिप्रदर्शनं किमर्थम् ?, व्याप्तेस्तु उदाहरणन प्रतिपादितत्वात्, व्याप्तिपक्षधर्मतोभयवैशिष्टयावगाहिज्ञानं तु कारणमेव न भवति, किमर्थं वह्रिव्याप्येत्यंश उपनये इत्यत आह - व्याप्तिविशिष्टेति टीका / तथा च धूमवान् इत्येव उपनयप्रयोग इत्यर्थः / समाधत्ते - तच्चेति टीका / यतस्तृतीयलिङ्गपरामर्शस्य कारणत्वं व्यवस्थापितं ततो व्याप्तिपक्षधर्मतोभयवैशिष्टयप्रतिपादनाय पक्षधर्मताऽ(व्याप्तिर)पि प्रतिपादनीयैवेत्यर्थः / त्वयोक्तं व्याप्तिप्रदर्शनं किमर्थमिति तन्निरस्तमित्यर्थः / इत्युपनयग्रन्थटीका समाप्ता। / अवयवप्रकरणे उपनयनिरूपणं समाप्तम्।