________________ 384 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञाने परामर्शरूपे यस्यावयवस्य साक्षाज्जनकत्वं तादृशावयवत्वमुपनयत्वम् / अयं भावः / प्रथमं पर्वतो वह्निमत्तया ज्ञातव्य इत्येकं प्रतिज्ञावाक्यजन्यं ज्ञानम् / 1 / तदनन्तरं वह्रिज्ञानं प्रतिधूमज्ञानं हेतुरिति हेत्ववयवजन्य ज्ञानम् / 2 / यो यो धूमवान् स वह्निमान् इत्युदाहरणात् धूमो वह्रिव्याप्य इति तृतीयं शाब्दज्ञानम् / 3 / चतुर्थं तु वहिव्याप्यधूमवान् अयम् इति शाब्दरूपज्ञानम् / 4 / यो वह्रिव्याप्यस्तद्वान् अयम् इति ज्ञानमुपनयजन्यम् / पञ्चमं तु तस्माद् वहिव्याप्यधूमवत्त्वात् वह्निर्बाधितो नास्तीति निगमनजन्यं ज्ञानम् / 5 / एतानि पञ्च खण्डवाक्यार्थज्ञानानि / एतैः पञ्चभिर्ज्ञानैः महावाक्यार्थज्ञानमेकं जायते। तथाहि पर्वतीयवह्रिज्ञानकारणीभूतं धूमज्ञानं तज्ज्ञानविषयो धूमो वहिव्याप्योऽबाधितविषयोऽसत्प्रतिपक्षश्चेति न्यायजन्यवाक्यार्थज्ञानम् / तदनन्तरं मानसं ज्ञानम् / तत्र सति मानसे ज्ञाने पश्चात् चरमो लिङ्गपरामर्श उत्पद्यते अबाधितासत्प्रतिपक्षविषयवह्निव्याप्यधूमवान् अयम् इति रूपः, तथा च सर्वेषां चरमलिङ्गपरामर्शप्रयोजकता तिष्ठति तथापि लिङ्गपरामर्शरूपं प्रति साक्षाज्जनकत्वमुपनयस्यैवसम्भवति नान्येषाम् यतोऽनेन प्रथमो यो लिङ्गपरामर्शः स साक्षादेव जन्यते चरमस्तुतद्वारा उपनयजन्यलिङ्गपरामर्शानन्तरं मानस: परामर्शस्तदनन्तरं चरमो मानसः परामर्शोऽप्रामाण्यशङ्कानिरासार्थमङ्गीक्रियते / अथोपनयविशेषणं दर्शयति - साध्यव्याप्येति मूलम् / साध्यव्याप्यविशिष्टो यः पक्षस्तद्बोधकावयवत्वम् अन्वय्युपनयत्वम् वहिव्याप्यधूमवांश्चायमिति रूपम् / अत्र पक्षबोधकावयवत्वमात्रं प्रतिज्ञायामतिव्याप्तम् / ततस्तद्वारणाय साध्यव्याप्यविशिष्टेति / प्रतिज्ञायां तु साध्यव्याप्यविशिष्टः पक्षो नास्ति / साध्यव्याप्यविशिष्टपक्षबोधकत्वं वह्रिव्याप्यधूमवानयमित्याप्तवाक्ये गतम्, अतस्तद्वारणाय अवयवपदम् / व्यतिरेक्युपनयलक्षणमाह - साध्याभावेति मूलम् / साध्याभावस्य व्यापको योऽभावः साधनाभावस्तत्प्रतियोगिमत्त्वबोधको योऽवयवस्तत्त्वं व्यतिरेक्युपनयत्वम्। यथा पृथिवी इतरेभ्यो भिद्यते इति प्रतिज्ञा, पृथिवीत्वात् अयं हेतुः, यत्र यत्र इतरभेदाभावस्तत्र पृथिवीत्वाभावो यथा जलम् इत्युदाहरणम्, इतरभेदाभावव्यापकाभावप्रतियोगिपृथिवीत्ववतीयम् इत्युपनयः / अत्र च प्रतियोगिमत्त्वबोधकावयवत्वमित्युच्यमाने वह्निव्याप्यधूमवानयमित्यन्वय्युपनयेऽतिव्याप्तिः, धूमाभावस्य प्रतियोगी धूमो भावो भवत्येव तद्वत्त्वबोधकावयवत्वमत्र [194 A] तिष्ठत्येव, तद्वारणाय साध्याभावेति पदम् / वस्तुगत्या योऽभावप्रतियोगी तद्वत्त्वबोधकावयवत्वं यद्यपि तिष्ठति तथापि साध्याभावव्यापकाभावप्रतियोगिमत्त्वबोधकावयवत्वं तत्र नास्ति।अवयवपदमाप्तवाक्येऽतिव्याप्तिवारणाय। ननु उपनयरूपोऽवयवः किमर्थं स्वीकाव्याः पक्षधर्मताप्रतिपत्तिरूपप्रयोजनस्य हेतुवाक्यादेव जातत्वात् इत्यत आह - उदाहरणान्तेति मूलम्। तथा च अवयवत्रयमेवेति न वक्तव्यम्।कुत इत्यत आह - तृतीयलिङ्गेति मूलम् / यदि उपनयरूपोऽवयवो नाङ्गीक्रियते तदा व्याप्तिपक्षधर्मताविशिष्टप्रतिपत्तिः कस्माद् भविष्यति ?, प्रतिज्ञया पक्षलाभेऽपि व्याप्तिपक्षधर्मताविशिष्टहेत्वलाभात् / एतदेवाह - व्याप्तीति मूलम् / तृतीयलिङ्ग