________________ / अवयवप्रकरणे उपनयनिरूपणम् / उदाहरणानन्तरं भवतु व्याप्तिस्तथापि व्याप्तं किं पक्षे वर्तते न वेत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्वप्रदर्शनायोपनयः / तत्रानुमितिकारणतृतीयलिङ्गपरामर्शजनकावयवत्वमुपनयत्वमिति सामान्यलक्षणम् / साध्यव्याप्यविशिष्टपक्षबोधकावयवत्वं साध्याभावव्यापकाभावप्रतियोगिमत्पक्षबोधकावयवत्वं च विशेषलक्षणद्वयम् / उदाहरणान्त एव प्रयोग इति न वाच्यं तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्षधर्मतावगाहिनोऽवयवान्तरादलाभात् तदनभ्युपगमेऽपि पक्षधर्मताया अलाभात् / न च हेतुवचनादेव तदवगमः, तस्य को हेतुरित्याकाङ्क्षायां प्रवृत्तत्वेन हेतुस्वरूपोपस्थापकस्यातत्परत्वात्, वादिवाक्यादेवाक्षेप इति चेत्। न। तदर्थस्यासिद्धत्वेनानाक्षेपकत्वात्, अन्यथाप्रतिज्ञावाक्यादेवसर्वाक्षेपेऽवयवान्तरविलयात्।प्रतिपाद्यानां स्वत एव तदवगम इति चेत्, न, तेषां व्युत्पन्नाव्युत्पन्नतया सर्वत्र तदसम्भवात् प्रतिपादकेन स्वव्यापारस्य निर्वाहयितुमुचितत्वाच्च, अन्यथावयवान्तरेऽप्येवं प्रसङ्गादिति। / अथ उपनयग्रन्थः / ननु उदाहरणानन्तरमुपनयः किमर्थं वक्तव्य इत्यत आह - उदाहरणानन्तरमिति मूलम् / उदाहरणानन्तरं भवतु धूमादौ व्याप्तिः परं पर्वतेधूमश्चेन्नस्यात् केन साधकेन पर्वते वह्निः साधनीयः इत्याकाङ्क्षायामुपनयप्रयोग इत्यर्थः / एतदेवाह - व्याप्तमिति मूलम् ।व्याप्तंव्याप्यं किं पक्षे वर्तते न वा इति सन्देहे सति अनुमितिर्न जायते, अतो व्याप्यस्य पक्षधर्मत्वोपपादनायोदाहरणानन्तरमुपनयः कर्तव्य एवेत्याह - व्याप्तस्येति मूलम् / तत्रेति उपनयलक्षणे कर्तव्ये सामान्यलक्षणमिदमित्यर्थः। तथाहि - अनुमितीतिमूलम्।अनुमितिकरणं यस्तृतीयलिङ्गपरामर्शस्तज्जनकावयवत्वम्।न च प्रतिज्ञादावतिव्याप्तिरिति वाच्यम्, तत्र तृतीयलिङ्गपरामर्शजनकत्वाभावात् / प्रतिज्ञादीनां न्यायजन्यवाक्यार्थज्ञानद्वारा तृतीयलिङ्गपरामर्शप्रयोजकत्वं वर्तते न तु तज्जनकत्वम् / उपनयेन तु तृतीयलिङ्गपरामर्शः साक्षाज्जन्यत एव / तेन वह्निव्याप्यधूमवान् अयम् इति वाक्यात् वह्निव्याप्यधूमवत्त्वज्ञानं जायते / शब्दरूपोपनयात् परामर्शरूपं शब्दजन्यं [193 B] ज्ञानमुत्पद्यते / यद्यपि उपनयस्यापि चरमलिङ्गपरामर्शे न्यायजन्यवाक्यार्थज्ञानद्वारा प्रयोजकत्वमप्यस्ति तथा च प्रतिज्ञादिवत् एतस्यापि समानं तथापि अत्र चरमलिङ्गपरामर्शो न विवक्षितः किातु] अनुमितिकारणा(ण)लिङ्गपरामर्शमात्रम्।वह्निव्याप्यधूमवान् अयम् इति