________________ 382 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथा च पर्वतो वह्रिमान् इत्यत्र वह्निसम्बन्धस्य पदार्थत्वेन वह्निसम्बन्धसम्बन्धस्य वाक्यार्थमर्यादया भानेऽपि तस्य प्रयोजनाभावात् वहावेव वह्निसम्बन्धेन संयोगेनाधेयता पर्यवसन्ना / तेन पर्वतो वह्निमान् इति प्रतिज्ञा सम्भवत्येव तादृशकथकसम्प्रदायात् इति चेन्मन्यसे तर्हि अत्रापि यो योधूमवान् इत्युदाहरणवाक्येऽपि तुल्यमेव, अत्रापिधूमवानित्यनेन धूमसम्बन्धसम्बन्धे बोधितेऽपिधूमसम्बन्धसम्बन्धांशे प्रयोजनाभावात् धूमसम्बन्ध एव प्रयोजनम्, तेन धूमसम्बन्धेन संयोगेन धूम एव सामानाधिकरण्यं बोध्यते इत्यर्थः / अयं भावः - प्राचीनानां मते यो धूमवान् स वह्निमान् इत्युदाहरणं न सम्भवति किन्तु यत्रधूमस्तत्र वह्निरित्येवोदाहरणम्।--प्रमुखानां मते यथा पर्वतो वह्निमान् इति प्रतिज्ञा, वहिव्याप्यधूमवांश्चायमित्युपनयः, तथा यो यो धूमवान् स वह्निमान् इत्यप्युदाहरणं सम्भवत्येव, पूर्वोक्तप्रतिबन्द्या समाधानात् / उदाहरणमुक्त्वा उदाहरणाभासमाह - इदं चेति मूलम् / इदमुदाहरणं तद् यदि। विकलपदस्य त्रिष्वन्वयः। तेन साध्यविकलमुदाहरणं तदोदाहरणाभासः यथायोधूमवान् यथा महानस इति।साधनविकलं यथा सवह्निमान् यथा महानसः / उभयविकलं यथा महानस इत्येव / चतुर्थमाश्रयविकलं यथा यो धूमवान् स वह्निमान् महानसपदादानात्। अनुपदर्शितान्वयेति। एकमनुपदर्शितान्वयम्, अनुपदर्शितव्यतिरेकं वा, सम्भवत्यन्वयेऽनुपदर्शितान्वये सति उपदर्शितव्यतिरेकं वा उदाहरणाभासः इत्येवोदाहरणाभासभेदा द्रष्टव्याः। अथ टीका। इदं चेतीति टीका / ननु यत्रोदाहरणे साध्यसाधनवैकल्यं ज्ञातं तत्रोभयवैकल्ये एकवैकल्यरूपो दोषस्तिष्ठति किमर्थमुभयवैकल्यदोषाद् दृष्टान्ताभासत्वमुच्यते इत्यत आह - यद्यपीति टीका / साध्यादीति टीका / साध्यवैकल्यं साधनवैकल्यं वा उभयवैकल्येऽस्त्येव तथापि अत्यन्तेति टीका / यद्यप्येकतरवैकल्ये दृष्टान्ताभासो भवत्येव तथाप्युभयवैकल्यं महान् दोषो भवतीति ज्ञापनार्थमुभयविकलोदाहरणमप्युदाहरणाभास एवेत्यर्थः / एतदेवाह - अत्यन्तेति। अत्या(त्य)कौशल्यख्यापनाय तेनापि रूपेण साध्यसाधनवैकल्यरूपेणापि पृथगुद्भावनमेकवैकल्यादिति शेषः / यथेति टीका / यो यो धूमवान् स स वह्रिमान् इति रूपं परित्यज्य यथा महानसः इत्येवोच्यते इति / एवं व्यतिरेकानुपदर्शने दृष्टान्तो ह्रद इत्युक्तेऽपि ज्ञेयम् / विपरीतस्योदाहरणमाह - योऽग्नीति / यो धूमवान् सोऽग्निमानिति वक्तव्ये योऽग्निमानित्युक्ते विपरीतत्वमित्यर्थः / अत्र चिन्त्यमाह - अवयवान्तराणि परित्यज्योदाहरणरूपावयव एवोदाहरणाभासत्वं कथमुक्तमिति चिन्त्यमाहेत्यर्थः / इत्युदाहरणग्रन्थः समाप्तः। / उदाहरणनिरूपणं समाप्तम् /