________________ उदाहरणनिरूपणम् 381 तथा च यो धूमवान् इत्यत्र यत्पदार्थः पर्वतमहानसादिः तस्याधारत्वं, धूमवान् इत्यत्र धूमशब्देन धूम उपस्थापितो वतुप्रत्ययेन तत्संयोग उपस्थापितः तस्य आधेयत्वं प्रतीयते पर्वतादेराधारत्वं प्रतीयते, तथा च पर्वतो धूमवान् इत्यत्र धूमसंयोगनिरूपिताधारः पर्वतः, तथा च यो धूमसंयोगनिरूपिताधार: पर्वतः स वहिसंयोगाधार इत्येव प्रतीतिर्भवति, ततोऽत्र धूमसंयोग-वह्रिसंयोगयोरेव सामानाधिकरण्यं भासते न तु धूमवह्निसामानाधिकरण्यमिति कृत्वा धूमवान् इत्युदाहरणं न युक्तम्। [192 B] यतो वतुप्रत्ययार्थः संयोगः, तेन यत्रधूमसंयोगस्तत्र वह्रिसंयोग इति वत् यो धूमवान् स वह्रिमान् इत्यपि धूमसंयोगवहिसंयोगसामानाधिकरण्यमेव पर्यवसन्नम् / तेन धूमवह्निसामानाधिकरण्यं न पर्यवसन्नम्। तथा चधूमवढ्योर्व्याप्तिबोधोनस्यात् किन्तुधूमसंयोगवहिसंयोगयोरेव व्याप्तिबोध: स्यात्। तेन यत्रधूमस्तत्र वह्रिरित्येवोदाहरणं वाच्यम्। न तु यो धूमवान् स वह्निमान् इति वक्तव्यम् / एवं कृते तत्संयोगयोरेवव्याप्तिबोधः स्यादित्यर्थः। एतदेवाह - धूमस्येतिटीका।धूमवान् इत्यत्रसंयोगविशेषणता धूमे प्रतीयते / यत्पदार्थविशेषणता च संयोगे प्रतीयते न तु धूमे, तेन धूमसम्बन्धः पर्वते न प्रतीयते। उपसंहरति - तस्मादिति टीका। तथा च यत्र धूमस्तत्र वह्निः इत्युदाहरणं वक्तव्यम्, न तु यो यो धूमवान् स वह्निमान् इति / प्राचीनमतं दूषयति - अत्र ब्रूम इति / एवमिति / यदि यो धूमवान् स वह्निमान् इत्युदाहरणवाक्याद् धूमसंयोगवह्निसंयोगसामानाधिकरण्यमेव भासेत तदा पर्वतो वह्निमान् इति प्रतिज्ञा न स्यात् किन्तु पर्वते वह्निः इति सा स्यात् / न हि पर्वतो वह्निमान् इत्यत्र वहिर्विधेयः किन्तु वह्रिमान् इत्यनेन वहिसंयोग एव विधेयः तथा च पर्वतो वह्निमान् इति प्रतिज्ञा न स्यात्। दूषणान्तरमप्याह - उपनयोऽपि वहिव्याप्यधूमवान् अयम् इत्याकारको नस्यात् किन्तु पर्वतेवहिव्याप्योधूमइत्युपनयः स्यात्। एवं निगमनमपि, तस्माद्वह्निमान् अयम् इति निगमनमपि न स्यात् किन्तु तस्मात् पर्वते वह्निः इत्येव स्यात् / कुतः ? प्रतिज्ञायां वर्विधेयतया भानाभावात् किन्तु वहिसंयोगस्य विधेयतया भानात् / एवमुपनयेऽपि पर्वतविशेषणत्वेन धूमस्य भानं नास्ति किन्तु धूमसंयोगस्य। एवं निगमनेऽपि वढेर्विधेयतया भानं नास्ति किन्तु वह्निसंयोगस्येति। अत्राशङ्कते - न चेति टीका। तथा च पर्वतो वह्रिमान् इति प्रतिज्ञा नास्त्येव / किन्तु पर्वते वह्निः इत्येव प्रतिज्ञा / एवं पर्वते वह्रिव्याप्यो धूम इत्येवोपनयः / निगमनमपि तस्मात् पर्वते वह्निः इति आशङ्कार्थः / दूषयति - कथकेति टीका। तथा च न हि सर्वत्र न्याये पर्वते वह्निः इति प्रतिज्ञा क्रियते न वा पर्वते वहिव्याप्यधूम इत्युपनयोऽपि कथकसम्प्रदायविरोधात् / अथ प्रतिबन्धा समाधानमाह- यदिचेतिटीका। तथा चयद्यपिपर्वतोवह्रिमान् इतिप्रतिज्ञा क्रियते तथापि वह्निसम्बन्धाधेयताप्रतीतौ वह्निसम्बन्धाधेयतायां प्रयोजनाभावेनोभयो,दिनोराकाक्षितस्तु वह्निरेवेति तत्रैवाधेयता पर्यवसन्ना इति कृत्वा पर्वतो वह्निमान् इत्येव प्रतिज्ञा इत्यर्थः / तथा च पर्वतो [193 A] वह्निमान् इत्यत्र वढ्यादिविशिष्टसम्बन्धाधेयताप्रतीतौ सम्बन्धस्याधेयतायां प्रयोजनाभावात् वह्निरूपविशेषणांशे एवाधेयता पर्यवसन्ना /