________________ 380 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अनेककारकान्वितैकक्रियापदात् मुख्यलाक्षणिकपराच्च शब्दात् नानाऽऽवृत्तिं विनाऽन्वयबोध इत्युक्त्वाऽनेकार्थप्रतीतीच्छया एकमुच्चारणं भवत्येवेति तत्र सिद्धान्तितम् / तथा च यथा एकं नानार्थपदं यथा सैन्धवपदं नानार्थम्, अन्यच्च श्लिष्टं यथा पृथुकार्तस्वरपात्रमित्यादि / नानार्थश्लिष्टार्थयोरयमेव भेदः - यत्रैकावच्छेदेन नानार्थेषु शक्तिः तन्नानार्थं यथा सैन्धवमानय इत्यादिस्थले सैन्धवत्वावच्छेदेनैव सैन्धवपदस्य अश्वलवणयोः शक्तिमत्त्वम्, श्लिष्टस्य तु भिन्नभिन्नावच्छेदेन शक्तिः एकत्र सुवर्णे पृथुत्वेन कार्तस्वरत्वेन शक्तिः अपरत्र पृथुकत्वेन आर्तस्वरत्वेन च शक्तिः इति भिन्नभिन्नावच्छेदेन शक्तिः / अनेककारकान्वितक्रियापदात् यथा दण्डेन गामानय घटं पटं चानय इति अत्रानेककारकान्वितमेकं क्रियापदम् / मुख्येति यथा गङ्गायां मीन-घोषौ इत्यत्र गङ्गापदं मुख्यपरं मुख्यः प्रवाहः तत्परं लाक्षणिकं तीरं तत्परमपि इत्यत्र सर्वत्राऽऽवृत्तिसहितोऽन्वयबोध इति प्राचां मतम् / नानार्थस्थले यथाऽऽवृत्तिः सैन्धवं पश्य इत्यत्र यत्र वक्त्रां नानार्थपरतया एकं पदमुक्तं तत्र नानार्थपदस्य आवृत्तिर्यथा एकेन सैन्धवपदेन एक एवार्थ उपस्थाप्यते, [192 A] द्वितीयोऽर्थो नोपस्थाप्यते तथा चैकेन सैन्धवपदेन लवणं चेदुपस्थापितं तदा तेन सैन्धवपदेन अश्वबोधे कर्तव्ये सैन्धवपदस्य आवृत्तिः कर्तव्या। आवृत्तिं विनाऽन्वयबोधो न सम्भवतीतिप्राचां मतम्। एवं श्लिष्टे पृथुकार्तेत्यादौ एकेन पृथुकार्तस्वरपदेन पृथु कार्तस्वरमुपस्थापितं तदा पृथुकानाम् आर्तस्वरबोधनार्थं पृथुकार्तस्वरपदस्य आवृत्तिः / एवमनेककारकेत्यत्र घटं पटं च आनय इत्यादौ एकेन आनयपदेन घटेन सहान्वयबोधे पटेन सहान्वयबोध आनयपदस्य आवृत्तिं विना न सम्भवति / मुख्येति / गङ्गायां मीन-घोषौ इत्यत्र एकेन गङ्गापदेन प्रवाहं बोधयित्वामीनान्वयबोधेघोषान्वयबोधार्थं गङ्गापदस्यआवृत्तिः / इतिप्राचां वाचस्पतिमिश्राणां मतम् / नवीनमते आवृत्तिं विनैव अन्वयबोधः / तत्र युक्तिर्यथा सकृदुच्चरितपदस्य सकृदर्थप्रत्यायकत्वनियमे प्रमाणाभावात्, सकृदुच्चरितपदाद् अनेकार्थोपस्थितौ बाधकाभावात्, एकमेव आनयादिपदं स्वार्थोपस्थितिद्वारा घटे पटे चान्वितम् इति आवृत्तिः किमर्थमुपकल्पनीया / एकमपि पदमुभयत्रान्वितं बाधकाभावादिति मणिकारसिद्धान्तानुरोधेनाह - धूमवत्पदेनेति टीका। एकेनधूमवत्पदेनोभययत्पदाभ्यांसहान्वयबोधसम्भवात् किमर्थं धूमवत्पदस्योभयत्र आवृत्तिरित्यर्थः / उपसंहरति - तथा चेति टीका / तेन धूमवत्पदस्य न आवृत्तिः यत्पदाभ्यां सहान्वये / न त्विदं सिद्धान्तविरुद्धमित्यत आह - तथाग्रेऽपीति टीका / अग्रे तात्पर्यग्रन्थे मूलकृता वक्ष्यते यथा नानार्थप्रतीतीच्छया एकपदोच्चारणं सम्भवत्येवेत्यनेन ग्रन्थेनेत्यर्थः / ननु वक्ष्यमाणदूषणात् यो धूमवान् स वह्निमान् इत्युदाहरणवाक्यं कथं भविष्यतीत्यत आह - अत्र चेति टीका। तथा च यो धूमवान् स वह्निमान् इत्युदाहरणवाक्यं वह्नौ साध्ये धूमे हेतौ न युज्यते एव / कथमित्यत आह - न हीति टीका / न हि यो धूमवान् स वह्निमान् इत्यत्र धूमवह्नयोः सामानाधिकरण्यं भासते / कुत इत्यत आह - धूमस्येति टीका /