________________ उदाहरणनिरूपणम् 379 रीत्या वीप्साया उपयोग इति यस्याभ्युपगमस्तं प्रत्याह मूलकार: - वीप्सा चेति मूलम् / तद्व्याचष्टे - योऽपीति टीका / योऽपीमां व्याप्तिमनुमित्यनुकूलामिच्छति तस्यापि मते तत्पदे वीप्सा व्यर्थैव / तत्पदे वीप्सां विनापि यत्पदवीप्सयैव अशेषसाधनाश्रयाश्रितव्याप्तिलाभसम्भवात् इति कृत्वा तत्पदे वीप्सा व्यर्थेत्यर्थः / पूर्वोक्तमूलानुपपत्तिमाशङ्कते - नन्विति टीका। तथापीति यद् मूलकृतोक्तं प्रथमयत्पदाद् धूमाधिकरणस्य येन रूपेण महानंसत्वादिरूपेणोपस्थितिः तद्भिन्नरूपेणैव द्वितीययत्पदस्योपस्थापकत्वमिति तदयुक्तम् / समुदायस्य यत्पदद्वयरूपस्य एकेन रूपेण' उपस्थापकत्वमस्तीति विरूपोपस्थिति स्ति, ततो मूलमशुद्धम्। मूलकारेणोक्तं विरूपोपस्थितिरस्तीत्युक्तरीत्या तन्न सम्भवतीति भावः / समाधत्ते - गौरवेणेति टीका / लाघवात् प्रत्येकयत्पदाभ्यामेव प्रत्येकपदार्थोपस्थितौ सत्यां पदद्वयसमुदायस्य एकार्थोपस्थापकत्वे प्रमाणाभावात्, तथा च गौरवं [स्यादितिभावः / तथा चप्रत्येकं यत्पदद्वयस्यस्वस्वपदार्थे शक्तत्वात् भिन्नभिन्नरूपेण तस्यैवोपस्थापकत्वम् / तथा चोभयत्रधूमवत्त्वेनैकेनैवरूपेणोपस्थितौ सत्यां वीप्साव्युत्पत्तिसहकारिवशा व्याप्तिबोधउपाध्यायमते / अशेषसाधनेत्यादि व्याप्तिवादिमते प्रथमयत्पदाद् धूमाधिकरणस्य येन रूपेणोपस्थितिः तद्भिन्नाशेषशेषधूमाधिकरणत्वेन द्वितीययत्पदाद् उपस्थितिः। एवं भिन्नभिन्नरूपेणाशेषधूमाधिकरणोपस्थितौ सत्यां बुद्धिस्थानामशेषधूमाधिकरणानामेकेनैव तत्पदेनोपस्थितौ सत्यां तत्रवह्निमत्त्वबोधेऽशेषसाधनाश्रयाश्रितसाध्यसम्बन्धरूपा व्याप्तिर्बुध्यत इति द्वितीयमतस्यार्थः / न चैवम् / भिन्नभिन्नेन रूपेणोपस्थितिश्चेत् तदा सकृदुच्चरितस्य पदस्य सकृदन्वयबोधकत्वमिति कृत्वा [191 B] एकस्मात् यत्पदात् एकरूपेणोपस्थितिः तेन रूपेण तत्पदार्थं प्रति धूमवत्पदमन्वितं पश्चाद् द्वितीयेन यत्पदेन पूर्वयत्पदोपस्थापितस्वरूपं परित्यज्य रूपान्तरं द्वितीययत्पदादुपस्थितं तेन रूपान्तरेणोपस्थितपदार्थं प्रतिधूमवत्पदान्वये आवृत्त्यापत्तिः। यत एकंधूमावत्]पदमेकेन यत्पदेन सहान्वितम्, द्वितीयं यत्पदं तेन साह] तधूमवत्पदमन्वितं न भवति। तस्य धूमवत्पदस्य प्रथमयत्पदेन सहान्वितत्वात् द्वितीययत्पदेन सह धूमवत्पदमन्वितं न भवति। यतः सकृदुच्चरितपदस्य सकृदर्थप्रत्यायकत्वनियमात् / अतो घटं पटं चानयेत्यादिवत् आनयेति पदस्य यथाऽऽवृत्तिः तद्वत् धूमवत्पदस्याऽऽवृत्तिप्रसङ्गः / तथा च वाक्यभेदो दोषः / यदाह - सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु दूषणम् / एतद्रूषकताबीजं तु एकवाक्ये लाघवं वाक्यद्वयकल्पने गौरवमिति / तथा च मूलकारेण यदुक्तं पूर्वयत्पदेन एकेन रूपेणोपस्थितिर्दितीययत्पदेन तदितररूपेणोपस्थितिरिति तद् दूषितम्, यतस्तत्राऽऽवृत्त्यापत्तिरेव दोष इति भावः / समाधत्ते - धूमवत्पदेनेति टीका / तथा च सकृदुच्चरितास्य] सकृदर्थप्रत्यायकत्वमयं नियमो नास्ति, यत एकेनापि पदेन नानापदार्थान्वयबोधसम्भवात् / अत एव शब्दखण्डे मूलकृतोक्तं तात्पर्यप्रकरणे - नानार्थात् श्लिष्टात् 1. धूमवत्त्वेन / प्रतौ टिप्पणी।