________________ 378 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका यच्च धूमवदिति धूमपदस्यावृत्तिप्रसङ्गः यथा यघटरूपवत् यच्च पटरूपवदित्यादिपदावृत्तिप्रसङ्गात् / तथा चायमभिप्रायः ग्रन्थकारेणोच्यते यत्पदतत्पदयोर्वीप्सान कर्तव्या। तत्रोपाध्यायेनाङ्कितम्। “नित्यवीप्सयोः" इति पाणिनिसूत्रेण व्याप्तिबोधने यदीच्छा तदा इच्छायां सत्यामेकपदस्य स्थाने पदद्वयात्मक एवादेशस्तेन च व्याप्तिबोधः / यथा वृक्षं वृक्षं सिञ्चति, वृक्षत्वं सिञ्चन(सेचन)व्याप्यमिति / प्रकृतेऽपि यत्पदतत्पदयोर्वीप्सा कर्तव्यैवेति यज्ञपत्युपाध्यायाः / इदं दूषयति - अत्र ब्रूमः / वीप्सायामपीति टीका / न हि मूलस्यायमर्थः / वीप्सायामपि व्यभिचारतादवस्थ्यमित्यस्य ग्रन्थस्यायमर्थो न भवति यतो(त्) वीप्सायामपि कृतायां व्यभिचारस्तिष्ठत्येवेति, किन्तु अनुमितौ हेतुव्याप्तिज्ञानं नोदेति / कथं नोदेतीत्याह - ग्रन्थकृन्मते इति टीका / मणिकारमतेऽन्योन्याभावगर्भव्याप्तिज्ञानम् अनुमितिहेतुः / हेतुसमानाधिकरणो योऽन्योन्याभावो घटादीनां यथाधूमवान् घटो नभवतीतिरूपस्तत्रधूमवन्निष्ठो योऽन्योन्याभावो घटान्योन्याभावस्तस्य प्रतियोगितावच्छेदकं घटत्वमेव न वह्निस्तथा च हेतुसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदको यो वह्निस्तेन सामानाधिकरण्यं हेतोः सा व्याप्तिः, इयं व्याप्तिरत्यन्ताभावगर्भव्याप्त्यपेक्षया लघुभूतेति ग्रन्थकृदाशयः / इयं व्याप्तिवर्वीप्सया ग्रहीतुं न शक्यते इत्यभिप्रायः / इयं व्याप्तिर्वीप्सया कथं ग्रहीतुं न शक्यते इत्यत आह - सा चेति टीका। तथा च साऽन्योन्याभावगर्भाव्याप्तिर्वीप्सया सकलसाधनाधिकरणे साध्यवत्त्वोपस्थापनेऽपि अन्योन्याभावस्यास्फुरणात् अन्योन्याभावप्रतियोगितानवच्छेदकत्वाज्ञानेऽन्योन्याभावप्रतियोगितानवच्छेदकसाध्यसामानाधिकारण्यारूपाव्याप्तितॊपस्थापयितुं शक्यते। एतदेवाह - अन्योन्याभाववाचकपदाभावात्। अत्यन्ताभावगर्भाऽपि ग्रहीतुं न शक्यते तदुपस्थापकपदाभावात् / ततः किमित्यत आह - एवं चेति टीका / वीप्सायाः सत्त्वे असत्त्वे वा यदि व्याप्तिग्रहानुकूलसहचारमात्रस्यैव ज्ञानं जायते तर्हि किंवीप्सया, यतो वीप्सायां सत्यामपि सहचारज्ञानम् असत्यामपि सहचारज्ञानं तर्हि किं वीप्सया / अत्राशङ्कते - न चेति टीका / अयमेव वीप्सासहितोदाहरणस्य विशेषः यत् वीप्सायाम् असत्यां सर्वस्मिन् साधनाधिकरणे [191 A] साध्यसहचारोपस्थिति स्ति वीप्सायां सत्यां तु सर्वस्मिन् साधनाधिकरणे साध्यसहचारोपस्थितिर्जायते इत्येव विशेषः / तस्माद् वीप्सादरः कर्तव्य इत्याशङ्कार्थः / समाधत्ते - सहचारज्ञानेति टीका। सर्वस्मिन् साधनाधिकरणे साध्यसहचारज्ञानत्वेन सहचारज्ञानस्य कारणत्वमिति नोच्यते किन्तु लाघवात् सहचारज्ञानत्वेनैव कारणता, न तु सकलसाधनाधिकरणे साध्यसहचारज्ञानत्वेन कारणतायेन वीप्सायाआदरः स्यात्। विशेषणस्येति।सर्वस्मिन्निति रूपस्येत्यर्थः / वीप्सायामपीति ग्रन्थहा वर्णयित्वा वीप्सा चेति ग्रन्थस्य हार्द वर्णयति - एवं चेति टीका / एवं वीप्सायाः कुत्रोपयोगइत्यत आह - यावदिति टीका। यावत्साधनाश्रयाश्रितसाध्यसम्बन्धरूपा या व्याप्तिस्तस्या अपि व्यभिचारव्यावृत्ततया वीप्साबलेनोदाहरणप्रतिपाद्यतया तस्या व्याप्तेः अनुमितिहेतुर्भ(तुत्वं भ)वतु इति