________________ 377 उदाहरणनिरूपणम् व्याप्तुमिच्छा वीप्सा / तथा च व्याप्तिं बोधयितुं येच्छा सा वीप्सा / ततस्थां(स्तां) बोधयितुं यत्र यस्य पदस्य प्रयोगः क्रियते तत्र एकपदस्य स्थाने पदद्वयात्मकः समुदायआदिश्यते। तेन [190 AJएकस्य पदस्य पदद्वयरूपता निपात्यते।एवं चसति यथा यत्पदे व्याप्तिं बोधयितुमिच्छा तथा तत्पदद्वयप्रयोक्तुरपि व्याप्ताविच्छा वर्तत एव / तथा च व्याप्तिश्च तदभिधेयस्य तत्पदाभिधेयस्य साकल्येनापरपदार्थेन सह सम्बन्धः, ततः किमित्यत आह - तथा चेति टीका। तथा च तत्पदद्वयसमुदायः एकपदतामापन्नोऽवयवद्वयं तत्पदद्वयं तच्छक्तिपुरस्कारेण युगपत् साकल्येनैव यत्तदादिप्रतिपाद्यं सर्वमुपस्थापयतीति व्युत्पत्ती(त्ति)रवसीयते / अत्रोपोद्वलकमाह - अत एवेति टीका / यतः पदसमुदायस्य सकलस्वावयवार्थोपस्थापकत्वमेकपदत्वं च पुरस्कृत्य अत्र बहुवचनापत्तिः / अत एवेति टीका / न्यासकार इदमाशय परिहतवान् / किं तत् ? तत्पदद्वयात्मको यः समुदायस्तस्य चेत् सकलस्वावयवार्थोपस्थापकत्वम् / अन्यश्च(च्च) पदद्वयस्थाने एकपदत्वं क्रियते तदाऽनेकार्थकं यत्पदम्, तत्र बहुवचनं स्यात्, यदा एकेनं पदेन बहवोऽर्था उपस्थापितास्तदा बहुवचनं स्यात्। यथा नृभिर्नृभिः इत्यत्र इदं चेदेकं पदं तदा द्वितीयनकारस्य णत्वं स्यात् यतो “रषाभ्यां नो णः” इति सूत्रे एकपदस्थाभ्यां रेफसकाराभ्यां परस्य नकारस्य णत्वं स्यात् इत्याशय परिहतवान् न्यासकारः। परिहारो यथा एकस्य पदस्य स्थाने पदद्वयात्मकः आदेशः यथा एकं पदं त्यक्त्वा पदद्वयं कर्तव्यमिति यथा वृक्षमित्येकपदस्य स्थाने वृक्षं वृक्षमिति निपातनम् न सिञ्चति।अयमादेशः पदद्वयात्मक एवेतिन बहुवचनम्; नापि नृभिभिरित्यत्रएकपदता तेन नस्य णत्वं न भवति इति परिहारः / उपसंहरति - तस्मादिति टीका / मूलकृता यदुक्तं वीप्सायामपि व्यभिचारतादवस्थ्यमिति तदयुक्तम् ।कुत इत्याह - यत्पदेति टीका।यत्पदद्वयेन हेतुमदधिकरणानां सर्वेषां बुद्धिस्थानामुपस्थापनात्। ततः किमित्यत आह - एवं चेति टीका / तथा च मूलकृतोक्तं विशेषरूपेणोपस्थितयोः तत्पदेनोपस्थापनं तदप्ययुक्तम् / यत्पदाभ्यां विशेषरूपेणोपस्थितिरेव नास्ति / धूमवत्त्वेनैव बुद्धिस्थानां सर्वेषां यत्पदद्वयेनोपस्थापनम् / ननु यत्पदद्वयेन विशेषरूपोपस्थितिः क्रियते एव, यथा यत्र घटरूपं यत्र च पटरूपं तत्रोभयत्रेत्यादौ यत्पदाद् आद्यात् घटपदत्वेनोपस्थितिः द्वितीयेन यत्पदेन पटत्वेनोपस्थितिः, ततो यत्पदद्वयाद् भिन्नरूपेणोपस्थितिर्भवत्येवेति। कथं न यत्पदद्वयाद् विशेषरूपोपस्थितिरित्यत आह - न हीति टीका। न हि यो यो धूमवान् इत्यत्र यत्पदद्वयं परस्परनिरपेक्षम्, यत्र घटरूपमित्यादौ च परस्परनिरपेक्षं यत्पदद्वयम्, अत्र वीप्सास्थले पदद्वयरूपादेशविधानात् यत्पदयोः सापेक्षतैव, तथा च परस्परसापेक्षतायां न विशेषरूपेणोपस्थापनं किन्तु एकेनैव रूपेणाभिधेयं विधत्ते / एतदेवाह टीका - किन्त्विति। एकेनैवेति। धूमवत्त्वेन रूपेणैवेत्यर्थः / तत्समुदाय इति टीका। यत्पदद्वयसमुदाय [190 B] इत्यर्थः / विशेषरूपेणोपस्थितौ बाधकमाह - अन्यथेति। यदि यत्पदद्वयाद् विशेषरूपेणोपस्थितिस्तर्हि यद्भूमवदित्यत्र विशेष्यधूमवत्पदस्यप्रथमयत्पदस्थले आवृत्तिप्रसङ्गात् यथायभूमवत्