________________ 376 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विनैवेत्यर्थः / यद्योगप्राथम्याभ्यामिति टीका / यद्योगो यत्पदयोगः एकं यत्पदमिति यावत् / तस्य प्राथम्यं तत्पदात् पूर्वम् / यत्पदस्य प्राथम्यं नास्ति यत्पदयोगोऽपि नास्ति। तत्र धूमवति वह्रिरित्येतादृशे वाक्ये व्याप्तिबोधो न जायते इति कृत्वा यत्पदयोग-प्राथम्याभ्यामेव व्याप्तितात्पर्यकत्वमिति व्युत्पत्त्यनन्तरादेव सर्वसिद्धात् अन्यत्र क्लृप्तात् सकृदुच्चारितयत्पदादेव सकलसाधनाधिकरणोपस्थितौ सत्यां वीप्सावत् वीप्साव्यतिरेकेणापि व्याप्तिग्रहसम्भवे किं गुरुणा व्याप्त्यादरेणेत्यर्थः / ननु वीप्साया अभावे किं लाघवमित्यत आह - यद्योगेति टीका [189 B] / तथा च वीप्सया यो व्याप्तिग्रहः कर्तव्यः स यत्पदयोगः तत्शब्दात् प्राथम्यं च ताभ्यां या व्युत्पत्तिर्बोधस्तत्पुरस्कारेणस्वल्पाक्षरेण एकयत्पदेनोहारणसंभवे सति वीप्साव्युत्पत्त्यादरो व्यर्थ इत्यत्र वयमित्यस्य ग्रन्थस्य तात्पर्यम् / ननु व्यभिचारतादवस्थ्यमित्यस्य कोऽर्थः ? अयं भावः / त्वयोच्यते यद्योगप्राथम्याभ्यामेव व्याप्तिग्रहसम्भवे वीप्सा व्यर्थेति, मूलकृता तूच्यते वीप्सायामपि [व्यभिचारतादवस्थ्यम्, इति तेन सह विरोधइत्यत आह - नत्विति टीका। तथा चवीप्साव्युत्पत्त्यादरेऽपि व्यभिचारतादवस्थ्यमित्यत्र मूलस्य न तात्पर्यं किन्तु यद्योग-प्राथम्याभ्यामेव व्याप्तिग्रहसम्भवे किं वीप्सया इति अत्र तद्ग्रन्थस्य तात्पर्यात् / उत्तरग्रन्थोपयोगार्थमाह - एवमिति टीका। यदि यद्योग-प्राथम्याभ्यामेव व्याप्तिग्रहसम्भवस्तदा वीप्सावधारणं स्फुटार्थमितिकृत्वा वीप्साव्युत्पत्त्यादरः स्फुटव्याप्तिलाभार्थम्, न तु व्यभिचारशङ्कानिरासार्थवीप्सादर इत्यर्थः / वीप्सेति टीका / भवतु वीप्साव्युत्पत्त्यादरे व्याप्तिलाभस्तथापि सा वीप्सा यत्पदे एव न तु तत्पदे इति / मूलं योजयति - वीप्सेति। तथा चैतद्ग्रन्थकारमते वीप्सा नास्त्येव, यत्र धूमस्तत्र वह्रिरित्येव व्याप्तिग्रहात्। शङ्कते - यद्यपीति टीका / यद्यपि यथा यत्पदे वीप्सा क्रियते तथा तत्पदे वीप्सा क्रियते तदा तत्पदद्वयस्याप्यन्वयो भविष्यत्येव / कथम् ? एकेन यत्पदेनैकमधिकरणमुपस्थापितं द्वितीयेन यत्पदेन अन्यान्याधिकरणानीति, तद्वत् यत्पदेन प्रथममधिकरणं यदुपस्थापितं तत् प्रथमतत्पदेनोपस्थापयितुं शक्यते एवं द्वितीययत्पदेनोपस्थापितं यदधिकरणं तत् द्वितीयेन तत्पदेनोपस्थापयितुं शक्यते। तथा च तत्पदवीप्सायामपि न दोषः / अत्रैव सम्मतिमाह - सा सा ह्रियेति टीका। तथा च तत्पदेऽपि वीप्सा कर्तव्येत्युक्तम् / तथापीति टीका / एकतत्पदोपादानेनापि अभितः यावदधिकरणोपस्थितिसम्भवे सति द्वितीयतत्पदोपादानं प्रयत्नगौरवम्, यथा यश्चाह वनं धनमित्यादौ नानायत्पदोपस्थाप्यानामनामेकेन तत्पदेनोपस्थापनं कर्तुंशक्यतएवेतिद्वितीयतत्पदोपादानं व्यर्थमिति भावः / विशेषरूपेतीति टीका। यत्यत्धूमवत्इत्यत्र यत्पदद्वयाभिन्नरूपेण महानसत्वचत्वरत्वादिभिन्नविशेषरूपेणोपस्थितयोरपि यत्पदार्थयोः केनचिदेकेन धूमवत्त्वादिरूपेण एकतत्पदेनापि परामर्शसम्भवात् तत्पदद्वयं व्यर्थमित्यर्थः / उपाध्यायमतमाह - अत्र वदतीति टीका। उपाध्यायो वदति तत्पदेऽपि वीप्साऽवश्यं कर्तव्येति / नित्यवीप्सयोः इति सूत्रे कोऽर्थः प्रतिपादित इत्यत आह - वीप्सायामिति टीका / वीप्साशब्दार्थो यथा