________________ 375 उदाहरणनिरूपणम् यथा अयम् एतदभिन्नः एतत्त्वात् इत्यभेदानुमाने यत्र यत्र एतत्त्वं तत्र तत्र एतदभिन्नत्वमिति वीप्सा कर्तव्या एवेति व्याप्त्यव्यभिचारबोधनार्थं व्याप्तिबोधनार्थं वा वीप्सोपादानात् / ननु अभेदानुमाने दृष्टान्ताभावात् कथं वीप्साघटितमुदाहरणं प्रयोज्यमित्यत आह - तथा चेति टीका / तथा चैकस्यैव घटादेः पक्षस्य किञ्चिदवस्थाभेदेन भिन्नभिन्नकालावच्छेदेन पक्षत्वदृष्टान्तत्वयोः सम्भवात् / तथा अभेदानुमाने पक्ष एव दृष्टान्तः / तथाहि अयं घट एतदभिन्नः एतत्त्वात् एतद्वत्, अत्र पूर्वकालावच्छिन्नघटस्य पक्षत्वम् एतत्कालावच्छिन्नस्य दृष्टान्तत्वम् इत्यभेदानुमानेऽपि दृष्टान्तसम्भव इत्यर्थः / तस्माद् यत् मूलकृतोक्तं केवलान्वयिन्यभेदानुमाने वा वीप्सा नास्तीति तत्समाधानं चिन्त्यम्, तदशुद्धमित्यर्थः / वीप्सायामपीति मूलम् / तथा च मूलकृता यदुक्तं वीप्सयाऽनेकेष्वधिकरणेषु साध्यसामानाधिकरण्यग्रहेऽपि व्यभिचारशङ्का तदवस्थैव यथा पार्थिवत्वलोहलेख्यत्वयोरनेकेष्वधिकरणेषु सामानाधिकरण्ये उपस्थिते पार्थिवत्वलोहलेख्यत्वयोहीरकादौ व्यभिचारतादवस्थ्यमेव, [189 A] तथा च व्यभिचारशङ्कानिवृत्त्यर्थमपि वीप्सा नोपादेयेति मणिकृन्मतम् / एतन्मूलं व्याचष्टे - अनेकेति टीका / यो यो धूमवान् स वह्निमान् यथा महानसम् इत्यत्र वीप्सया साधनाधिकरणद्वीत्यादिव्यक्लीनामुपस्थापनेऽपि तत्र प्रथमयत्पदेनैकमधिकरणमुपस्थापितं द्वितीयेन द्वितीयमधिकरणमुपस्थापितम्। तत्र यद्यप्यधिकरणे हेतुमति साध्यवत्त्वग्रहो जातस्तथापि अधिकरणान्तरे साध्यवत्त्वाग्रहात् व्यभिचारग्रहस्तदवस्थ एव, द्वितीयेनापि यत्पदेन द्वितीयमेवाधिकरणमुपस्थापितमित्ययमाशयः नतु सर्वाण्यधिकरणान्युपस्थापितानीति हृदयम् / आशङ्कते - नन्विति टीका / वीप्सया व्युत्पत्तिबलादेव व्याप्तिग्रहः स्यात् / कथं स्यादित्यत आह - वीप्सितशब्दश्रवणेति टीका।यो यो धूमवान् इति वीप्सितशब्दश्रवणानन्तरम् एकयत्पदेनैवाधिकरणोपस्थितौ सत्यां तत्र हेतोः साध्यसामानाधिकरण्यग्रहे पुनर्यत्पदान्तरं किमर्थमुक्तम् ? तथा चानुवादे किञ्चित् प्रयोजनमावश्यकम् / प्रयोजनं च किमिति प्रयोजनजिज्ञासायां सत्यां द्वितीययत्पदस्यानुवादादेन(व) व्याप्तितात्पर्यकत्वं गृहीतम्, व्याप्तितात्पर्यकत्वे च गृहीते व्याप्तिबोध एव प्रयोजनमिति प्रथमयत्पदेन बोधितं यत्साधनाधिकरणं तद्भिन्नंसर्वसाधनाधिकरणं द्वितीययत्पदेनोपस्थाप्यते; तद्भिन्नत्वेन सर्वसाधनाधिकरणत्वेनोपस्थाप्यते। ततः किमित्यत आह - एवं चेति टीका। एवं चोभययत्पदाभ्यां सर्वसाधनाधिकरणे साध्यवत्त्वबोधनात् भवति वीप्सया व्याप्तिग्रह इति / नन्वित्यारभ्य चेत्पर्यन्तं शङ्कार्थः / समाधत्ते - हन्तैवमिति टीका / यदि व्युत्पत्तिविना एकयत्पदोच्चारणानन्तरं पुनर्यात्पादोच्चारणंतत्रव्याप्तितात्पर्यकात्वामितिएतादृशव्युत्पत्तिसहकृतया वीप्सयैव व्याप्तिबोधश्चेत् तर्हि एतादृश्यपि व्युत्पत्तिर्यत्र यत्पदयोगः यत्पदस्य च प्राथम्यं तत्र व्याप्तितात्पर्यकत्वमित्यपि व्युत्पत्तिसहकृताभ्यां यत्पदयोगप्राथम्याभ्यां व्याप्तिबोधो भविष्यतीति।अयमर्थः / एकेनैव यत्पदेन व्याप्तिबोधेसति वीप्सा किमर्थमित्यर्थः / एतदेवाह - वीप्सां विनैवेति टीका। यत्र यत्रेति वीप्सां