SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ 374 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भिधेयत्वस्यात्यन्ताभावाप्रतियोगित्वलक्षणकेवलान्वयित्वज्ञानात् तादृशव्यभिचारसंशयोनभवतीतिन विप्सायाः केवलान्वयिनि उपादानम् / तत्रैवेति टीका / धूमादावेव तदुपादानं वीप्सोपादानम्, न केवलान्वयिनि इत्यर्थः / दूषयति - स्वेति / स्वकर्तव्यतया वादिकर्तव्यतया व्यभिचारशङ्काया अभावेऽपि केवलान्वयिनि वीप्साऽवश्यं वक्तव्यैव / तथाहि न्यायवाक्यैर्यावन्ति यादृशा यादृशा अवयवास्ते ते तादृशास्तादृशा वक्तव्या एव / यदि केवलान्वयिनि व्यभिचारशङ्काया अभावे वीप्सा न प्रदर्श्यते तदा केवलान्वयित्वेन ज्ञाने स्वरूपासिद्धत्वशङ्का नास्तीति पक्षधर्मताऽप्युपनये न प्रदर्येतेति उपनयोऽपि केवलान्वयिनि न प्रयोज्य: हेतोः अपक्षधर्मत्वशङ्काया अभावात्। हेतोरपक्षधर्मत्वशङ्काया अभावेऽपि वादिनापक्षधर्मताऽवश्यं प्रदर्शनीयावादिना चोपनयरूपावयवस्य स्वकर्तव्यत्वात्, तादृशावयवत्यागे हि कथकसम्प्रदायविरोधात् / तथा च यथा केवलान्वयिनि हेतोः पक्षधर्मता प्रदर्शनीया, यथा उपनयः स्वकर्तव्यत्वात् उपदर्श्यते तथा वीप्साऽपि प्रदर्शनीयैव केवलान्वयिन्यपीति सिद्धम् / ननु यथाऽसाधकताप्रयोगे उदाहरणाप्रयोगः तद्वत् केवलान्वयिन्यपि वीप्साया अप्रयोग एवेत्यत आह - असाधकेति / असाधकताप्रयोगे हि नियमत [188 B] उभयवादिनोः सङ्केतस्तथैव तिष्ठति, यो दोषः सोऽसाधकताव्याप्य इत्युभाभ्यां वादिभ्यामङ्गीकृतत्वात्। तत्रोदाहरणस्य न प्रयोजनम्, तथैव कथकसम्प्रदायात् / सभास्थले वादिनामयमेव सम्प्रदायः, यथा तत्र तथा कथकसम्प्रदायः, तथा केवलान्वयिनि वीप्साया अभाव इति. कथकसम्प्रदायात् / केवलान्वयिनि न वीप्सोपादानमित्यस्वरसादाह - किञ्चेति टीका। यदि केवलान्वयित्वेन ज्ञाते साध्ये व्यभिचारशङ्काविरहात् वीप्साया अनुपादानं तर्हि साध्ये केवलान्वयित्वेन ज्ञाते सहचारशङ्कापि नास्ति, केवलान्वयित्वस्य सर्ववृत्तित्वात् सहचारशङ्काऽभावः, तदा सहचारबोधने प्रयोजनाभावात् उदाहरणमपि नप्रयुज्येत, उदाहरणं हिसहचारशङ्कानिरासद्वारा सहचारनिश्चयार्थं प्रयोज्यम्, सहचारशङ्कायाअभावाद् उदाहरणं निरर्थकं स्यादित्यर्थः / अत्राऽऽशक्य दूषयति - यदिचेति टीका / तथा च यद्यपि केवलान्वयिनि सहचारशङ्का नास्ति तथापि सहचारस्य प्रतिज्ञाहेतुभ्यां पूर्वमनुपस्थितत्वात् सहचारघटितव्याप्तेर्बोधः उदाहरणेन विना मानसोऽपि कथं स्यात्, तदर्थमुदाहरणं प्रयोज्यमेवेत्यर्थः / दूषयति - तदेति टीका / तर्हि व्यभिचारज्ञानं विना व्यभिचाराभावघटितविशिष्टसामानाधिकरण्यरूपा व्याप्तिहेतुसमानेत्यादिकाअथवा साध्यात्यन्ताभावववृत्तित्वे सति साध्यसामानाधिकरण्यरूपा व्याप्तिस्तद्ज्ञानाय वीप्साघटितमुदाहरणमावश्यकं केवलान्वयिन्यपि / यदि वीप्साव्यतिरिक्तोदाहरणेन सहचारो बोध्यते तदा वीप्सयाऽव्यभिचारांशोऽपि बोधनीयः, उभयोपस्थितौ सहचारव्यभिचाराभावोपस्थितौ मानसो व्याप्तिनिश्चयो हेतुसमानाधिकरणेत्यादिको बोद्धव्यः / एवं केवलान्वयिनि वीप्साऽऽवश्यिकीत्युक्ता, अभेदानुमानेऽपि तां दर्शयति - एवं चेति टीका। अभेदानुमानेऽपि वीप्सा उपादेयैव 1. अयमसाधको व्यभिचारित्वात / प्रतौ टिप्पणी।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy