________________ उदाहरणनिरूपणम् 373 नोपस्थाप्यते अपदार्थत्वस्योभयत्रापि तुल्यत्वात् / व्याप्त्युपदर्शकत्वस्येति टीका / यदि व्यभिचारज्ञानविरोधिज्ञानमुत्पाद्यते उदाहरणवाक्ये वीप्सया तदा हेतुसमानाधिकरणेत्यादिरूपा व्याप्तिरपि तया कथं नोपदा / तथा च वीप्सया पूर्वं व्यभिचाराज्ञानाविरोधिज्ञानमुत्पाद्यते पश्चान्मानसं हेतुसमानाधिकरणेत्यादिकं व्याप्तिज्ञानं जायत इति यदुक्तं तद् विरुद्धमित्यर्थः / एतदेव विवृणोति - व्यभिचारज्ञानेति टीका। यदि वीप्सया व्यभिचारज्ञानविरोधिज्ञानमुत्पाद्यते तर्हि यो व्यभिचारज्ञानविरोधिज्ञानविषयः स एव व्याप्तिस्तथा च तद्बोधो मानसो न स्यात् किन्तु उदाहरणवाक्यजन्यः शाब्द एव स्यात् / ततः सिद्धं न वीप्सावाक्याद् मूलकृदभिमतव्याप्तिबोधः तस्य वीप्सावाक्यस्थपदार्थत्वाभावात् इति भावः / यत्र चेतीति टीका / अत्र शङ्कते - न त्विति टीका / तथा च यत्र केवलान्वयिनि अभेदानुमाने वा सामानाधिकरण्यमेव व्याप्तिस्तत्र वीप्सायाः प्रयोजनं नास्तीति केंवलान्वयिनि सामानाधिकरणस्यैवव्याप्तित्वात्। तत्र टीकाकारः शङ्कते - केवलान्वयिन्यपि सामानाधिकरण्यं न व्याप्तिः / कुतः ? शब्दोऽभिधेयः प्रमेयत्वात् इत्यत्र यथा अभिधेयत्वसामानाधिकरण्यं प्रमेयत्वे तिष्ठति एवं घटसामानाधिकरण्यमपि प्रमेयत्वे तिष्ठति घटप्रमेयत्वाधिकरणे घटस्यापि सत्त्वात् / अथवा भूतले घटोऽप्यस्तिप्रमेयत्वमप्यस्तीति तयोः सामानाधिकरण्यम्। तथा चसामानाधिकरण्यमानंनव्याप्तिः किन्तु केवलान्वयिसाध्येन सह हेतोः सामानाधिकरण्यं केवलान्वयिव्याप्तिः।तथा चतल्लाभः केवलान्वयिसामानाधिकरण्यलाभो वीप्सां विना केवलोदाहरणमात्रान्न भवतीति वीप्सा वक्तव्यैव / तल्लाभ इति टीका / यदि च केवलान्वयिसाध्यसामानाधिकरण्यलाभो वीप्सां विनापि स्यात् तर्हि धूमादावपि मूलकृदभिमतव्याप्तिरप्युदाहरणादवगम्येत [188 A] अपदार्थत्वस्य तुल्यत्वात्, एतदेवाह - न चेदिति टीका / धूमेऽपदार्थत्वात् सा व्याप्तिर्वीप्सां विना न बुध्येत तर्हि केवलान्वयिन्यपि सा व्याप्तिः कथं बोद्धव्या ? तथा च केवलान्वयिन्यपि * साध्यसामानाधिकरण्यरूपा या व्याप्तिः तस्या बोधो न वीप्सां विनेति केवलान्वयिन्यपि सा उपादेयैवेत्यर्थः / मध्ये शङ्कते - नचेति टीका। तथा चधूमादौ वक़्यादेर्व्यतिरेकिधर्मत्वेन व्यभिचारशङ्का अत्रभवति, प्रमेयत्वादौ तुअभिधेयत्वादेर्व्यतिरेकिधर्मत्वाभावेन व्यभिचारसंशयाभावात् किमर्थं केवलान्वयिनि वीप्सा उपादेया ? तथा च केवलान्वयिनि धूमापेक्षया व्यभिचारशङ्काऽभावरूपविशेषो वर्तत इति कृत्वाऽनुपादेयैव केवलान्वयिनि वीप्सा इत्याशङ्कार्थः।समाधत्ते - हेतुसमानाधिकरणेति टीका।यदिधूमः साध्याभावववृत्तिर्न वेति व्यभिचारशङ्काधूमे तिष्ठति तर्हि केवलान्वयिन्यपिसाध्याभावस्याप्रसिद्धत्वेऽपि साध्यं हेतुसमानाधिकरणो योऽत्यन्ताभावो घटपटाद्यत्यन्ताभावस्तत्प्रतियोगिनवेति व्यभिचारसंशयः केवलान्वयिसाध्ये भवत्येव। यतो हि व्यभिचारो द्विविधोऽस्ति।एको हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिसाध्यकत्वम्, द्वितीयस्तु साध्यात्यन्ताभावववृत्तित्वं हेतोरिति / द्वितीयस्यासम्भवेऽपि प्रथमस्योक्तरीत्या सम्भवात् / अत्राशङ्कते - न चेति टीका / साध्यस्या