________________ उदाहरणनिरूंपणम् 371 इति यत्पदे एव वीप्सा न तत्पदे इत्याह - ननु नानारूपेणोपस्थितयोः पदार्थयोरेकेन तत्पदेन परामर्शः कथं स्यात् नानायत्पदोक्ताः पदार्थाः कथमेकतत्पदादुपस्थिता भविष्यन्तीत्यत आह - बुद्धिस्थेति मूलम् / तथा च सर्वनाम्नो वुद्धिस्थे शक्तिः यथा यश्चकार वनं धन्यं गोपस्त्री यं पुनः पपौ' इत्यादौ षड्विभक्तिसमभिव्याहतपदानां येऽर्थास्ते एकेनैव तत्पदेन बोद्धं शक्यते इति / यत्पदेन यः पूर्वं बुद्धिस्थः स एव य(त)त्पदेन (बोद्धुं शक्यते। यत् नानायत्पदैरुपस्थितं तदेकेनापि तत्पदेन बोद्धं शक्यत एव / ननु यत्र यत्पदद्वयं तत्रावश्यं तत्पदद्वयमपेक्षितं यत्तदोर्नित्यसम्बन्धात्। अन्यथा व्याकरणानुशासनरूपव्युत्पत्तिविरोधः स्यात् इत्यत आह - न व्युत्पत्तिविरोध इति मूलम् / तथा च यत्तदोर्नित्यसम्बन्धमानं न तु यावन्तो यच्छब्दास्तावन्तस्तच्छब्दा इति एकेनापि तत्पदेन सर्वयत्पदोक्तार्थानां परामर्शात् / व्युत्पत्त्यविरोधे उदाहरणसम्मतिमाह - भवभूतेर्मालतीमाधवे - यद् यत् पापमिति / हे जगन्नाथ नम्रस्य मे यद् यत् पापं तत् प्रतिजहि इति / अत्र यत्पदोभयोपस्थापितयोरर्थयोरेकेनैव तत्पदेन परामर्शसम्भवादिति भावः / तत्पदे न वीप्सा इति सिद्धम् / अथ टीका / न्यायावयवेति टीका / ननु न्यायावयवपदस्य दृष्टान्तविशेषणभ्रमं वारयति - न्यायावयवत्वे सतिइत्यनेन। तथा चन्यायावयवपदं न दृष्टान्तस्य विशेषणं किन्तु वचनस्यैव विशेषणमित्यर्थः।अन्यथा दृष्टान्तविशेषणत्वे महानसादेः पदार्थस्यशब्दरूपन्यायावयवत्वाभावादसङ्गतिः स्यात् इत्यर्थः / ननु निगमनेऽतिव्याप्तमिदं लक्षणम्, प्रकृतानुमितिहेतुज्ञानविषयव्याप्त्युपनायकं वचनं निगमनमपि भवति / तस्माद् वह्निव्याप्यधूमाद् वह्निमान् इत्येवं रूपं निगमनं भवति, तत्रापि व्याप्त्युपनायकत्वादित्यत आह - उपनयेत्युपलक्षणमिति टीका। तथा च तत्राप्यतिव्याप्तिरिष्टैवेत्यर्थः / तद्वीजमितिटीका।उपनयाभिधानप्रयोजकजिज्ञासाजनकतावच्छेदकाज्ञाने तादृशजनकता ग्रहीतुं न शक्यते, न चोदाहरणत्वं तदवच्छेदकमिति वाच्यम्। उदाहरणस्य जातित्वाभावात् चैत्रशब्दवृत्तिजात्यासह सङ्करः / तथाहि यत्र चैत्रशब्दवृत्तिजातिस्तत्रोदाहरणत्वमेवं नास्ति। चैत्रशब्दवृत्तिजातिर्घटम् आनय इति वाक्येऽस्ति, तत्रोदाहरणत्वं नास्ति, यत्र चोदाहरणत्वं तत्र चैत्रशब्दवृत्तिजातित्वं नास्ति मैत्रोदाहरणे चैत्रशब्दवृत्तिजातित्वाभावात्, उभयमपि चैत्रोदाहरणेऽस्तीति जातिसङ्करात् तदोपाधिस्तत् / तदाऽयमेव उपनयेत्यादिरेव अन्यो वा ? नायम् आत्माश्रयात्, नान्यः तदनिर्वचनात् इत्यर्थः / अनुगतेति टीका। यावत्पर्यन्तमुदाहरणवाक्यनिष्ठं तादृशजिज्ञासाजनकतावच्छेदकं गृहीतं नास्ति तावत्पर्यन्तं जिज्ञासाजनकत्वं ग्रहीतुं न शक्यत इत्यर्थः / तत्सत्त्वे इति टीका / यदि जनकतावच्छेदकं किञ्चिदस्ति तदा तदेवोदाहरणस्य लक्षणमस्तु इत्यर्थः / अत्र चेतीति टीका[187 A]|वीप्सा [व्यभिचारावारणाय। ननु वीप्सया व्यभिचारस्य वारणं कथं भवति व्यभिचारस्य वस्तुधर्मस्वात् / तथाहि धूमाभावववृत्तित्वं वह्नौ तिष्ठति तस्य तद्धर्मत्वात् तद्वारणं वीप्सया कथं स्यादित्यत आह - व्यभिचारिसाधारणेति टीका / तथा च व्यभिचारिसाधारणो यः साध्यसम्बन्धस्तन्मात्र