________________ 370 . तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका किं सिद्धमित्युपनयाभिधानाकाङ्क्षा भवेत्, जिज्ञासानन्तरमेवोपनयप्रयोगात् / जिज्ञासाजनकमुदाहरणम् / उदाहरणेन जिज्ञासा जन्यते, तथा चोपनयप्रयोग इत्युपनयप्रयोजकत्वम् / उदासीनवाक्येऽतिव्याप्तिवारणाय जनकान्तम् [186 A] | आत्मादावतिव्याप्तिवारणाय वाक्यपदम् / उपनयेति पदम् अवयवान्तरेऽतिव्याप्तिवारणायेति। इदं सामान्योदाहरणलक्षणम् / अथ विशेषोदाहरणलक्षणमाह - एतदेवेति मूलम् / यो यो धूमवान् सोऽग्निमान् इत्युदाहरणानन्तरं वहिव्याप्यधूमवांश्चायमित्युपनयवाक्यम् / एवं यत्र यत्र इतरभेदाभावस्तत्र पृथिवीत्वाभावो यथाजले इत्युदाहरणवाक्यानन्तरं पृथिवीत्वाभावव्याप्येतरभेदाभाववतीयमितिव्यतिरेकोपनय इति। व्यतिरेकोपनयाभिधानप्रयोजिका या जिज्ञासा तज्जनकवाक्यं व्यतिरेक्युदाहरणम् / ननु यत्र यत्र धूमस्तत्र वह्रिरित्युदाहरणे यच्छब्दद्वयानन्तरमेक एव तच्छब्दः प्रयोक्तव्यस्तच्छब्दद्वयं वेत्यत आह - अत्र चेति मूलम् / उदाहरणवाक्ये व्यभिचारवारणाय वीप्सामाहुः / आमेडितवाक्यं वीप्सा / ननु व्याप्तिबोधनार्थं वीप्सा / यत्र सामानाधिकरण्यादेवव्याप्तिर्बुध्यते तत्र किमर्थंवीप्सा इत्यत आह - यत्रचेतिमूलम्। यत्र चसामानाधिकरण्यादेव व्याप्तिबोधस्तत्र न वीप्सा इतीष्टापत्तिरेव / यथा हि केवलान्वय्यनुमानेऽभेदानुमाने वा सामानाधिकरण्यादेव व्याप्तिबोधो जायते / यथा शब्दोऽभिधेयः प्रमेयत्वात् इत्यत्र व्यभिचाराभावात् सामानाधिकरण्यमात्रादेव व्याप्तिबोधो जायते / अभेदानुमानं यथा अयमेतदभिन्नः एतत्त्वात् इति अत्र यंत्र एतत्त्वं तत्र एतदभिन्नत्वं व्यभिचाराशङ्काभावात् सामानाधिकरण्यमात्रादेव व्याप्तिबोधः तन्न यच्छब्देन वीप्सा। तथा च केवलान्वय्यभेदानुमानातिरिक्तस्थले व्यभिचारवारणार्थं वीप्सा वक्तव्या / तथाहि धूमादित्यनुमाने यत्र यत्र धूमस्तत्र वह्रिरित्यत्र नानाधिकरणेषु धूमवत्सु वह्निमत्त्वबोधने सति कस्मिंश्चिद्भूमवति वन्यभावो भविष्यतीति शङ्का निवृत्ता वीप्सया। भूयस्सु धूमवदधिकरणेषु वह्निमत्त्वबोधनात् वह्वेर्व्यतिरेकधर्मत्वव्यभिचारशङ्काऽन्यथा स्यादित्येके। मतान्तरमाह - वीप्सायामपीति मूलम् / तथा च वीप्सया भूयः सहचारज्ञाने जातेऽपि पार्थिवत्वलोहलेख्यत्ववत् व्यभिचारो भविष्यतीति तच्छङ्काया अनिवृत्तेर्वीप्सा व्यर्था इति पूर्वमते / तथा च वीप्साया: प्रयोजनं नास्त्येव / यत्र धूमस्तत्र वह्रिरित्येवोदाहरणम् / तुष्यतु दुर्जन इति न्यायेन वीप्सा तथापि यत्पदे एव सा न तु तत्पदे इत्याह - वीप्सा चेति मूलम् / ननु पूर्वयत्पदेनैकमधिकरणमुपस्थापितम्, द्वितीययत्पदेन तदधिकरणातिरिक्तान्यधिकरणान्युपस्थापितानि, तेषामुपस्थितिस्तु एकेन यत्पदेन कथं स्यादित्यत आह - विशेषरूपेति मूलम् / तथा च विशेषरूपेण महानसत्वचत्वरत्वादिरूपेणोपस्थितयोरधिकरणयोः यत्पदेनोपस्थितयोरधिकरणयोरेकेन तत्पदेन परामर्शः कर्तुं शक्यत एव / ततः पूर्वयत्पदेनैकमधिकरणं महानसादि उक्तम्, द्वितीयेन तु तदतिरिक्तानि सर्वाण्यधिकरणान्युपस्थापितानि, एकेन तत्पदेन तु तेषां सर्वेषामुपस्थितिः [186 B] कर्तुं शक्यत एवेति। एतदेवाह - विशेषेति। विशेषरूपेण महानसत्वादिरूपेणोपस्थितयोरप्येकेन तत्पदेन परामर्शसम्भवात्