________________ उदाहरणनिरूपणम् 369 हेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपनायकं वचनं तत्, उपनयातिव्याप्तेः, अत उपनयाभिधानप्रयोजकजिज्ञासाजनकवाक्यमुदाहरणम्।एतदेवान्वयव्यतिरेकव्याप्तिविषयत्वविशेषितं विशेषलक्षणद्वयमित्यन्ये। अत्र चव्यभिचारवारणायवीप्सामाहुः / यत्रच सामानाधिकरण्यादेवव्याप्तिस्तत्र नवीप्सा केवलान्वयिन्यभेदानुमाने चवीप्सायामपि व्यभिचारतादवस्थ्यमिति तु वयम्, वीप्सा च यत्पदेन तु तत्पदेऽपि विशेषरूपोपस्थितयोरपि तत्पदेन परामर्शाद् बुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः, यथा "यद्यत् पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे' [मालतीमाधव] इत्यत्र। इदं च साध्यसाधनोभयाश्रयविकलानुपदर्शितान्वय-विपरीतोपदर्शितान्वयानुपदर्शितव्यतिरेकविपरीतोपदर्शितव्यतिरेकभेदाद् आभासरूपमिति। ___ अथ मूलम् / कस्याप्युदाहरणलक्षणं दूषयति - न्यायावयवेति मूलम्। न्यायावयवरूपं यद् दृष्टान्तवचनम्, तथा चन्यायावयवत्वे सतिदृष्टान्तवचनम्।उदासीनवाक्ये यो योधूमवान् सवह्निमान् इतिरूपेऽतिव्याप्तिवारणाय सत्यन्तम्, अवयवान्तरेऽतिव्याप्तिवारणाय दृष्टान्तवचनम् / दूषयति - दृष्टान्तप्रयोगस्येति मूलम् / तथा चायमसाधको व्यभिचारित्वादित्यादौ दृष्टान्तप्रयोगो नास्ति दृष्टान्तप्रयोगस्य सामयिकत्वात् कादाचित्कत्वात्। यो यो व्यभिचारी सोऽसाधक इत्येतावन्मात्रं वर्तते, दृष्टान्तप्रयोगो नास्ति सङ्केतितत्वात्। अतोऽत्रोदाहरणवाक्ये दृष्टान्तवचनत्वाभावादव्याप्तिरित्यर्थः / एतदेवाह - सामयिकत्वेनेति मूलम् / ननु दृष्टान्ताभावाद् व्याप्तिलाभः कथं स्यादित्यतआह - यो योधूमवान् सवह्निमान् इत्येतावतैव व्याप्तिबोधात् तेषां मते महानसमिति दृष्टान्तवचनं नास्ति तावन्मात्रेणैव 'व्याप्तिलाभादित्यर्थः / पुनरपि मतान्तरमाशय दूषयति - नापीति मूलम् / प्रकृतानुमितिहेतुभूतं यद्ज्ञानं वह्निव्याप्यधूमवानितिरूपं तस्य विषयो याव्याप्तिस्ततस्तद्वारणाय प्रकृतानुमितिहेतुभूतेति पदम्। वादिप्रतिवादिनोरुद्देश्या याऽनुमितिस्तद्धेतुभूतं यद् ज्ञानं तस्य विषयो यो व्याप्तिस्तस्योपनायकं वचनं यत्र धूमस्तत्रवह्रिरितिरूपं तद्बोधकंवचनमुदाहरणम्, एतद् दूषयति-तदितिमूलम्।तथा चेदंलक्षणमुपनयेऽतिव्याप्तम्, यतस्तत्रापि वहिव्याप्यधूमवानयमिति स्वरूपे व्याप्त्युपनायकवचनत्वं वर्तते एवेति [अतिव्याप्तिरित्यर्थः / अन्यसम्मतोदाहरणलक्षणमाह - अतइति मूलम्। यतोऽन्यानि लक्षणानि दुष्टानि अत इत्यर्थः। उपनयेति मूलम्। उपनयाभिधानप्रयोजिका या जिज्ञासा तज्जनकं यद् वाक्यं यो य इत्यादिरूपम्। यदि धूमो वहिव्याप्यो जातस्ततः 1. प्रतिवादिना तथा सङ्केतितत्वात् / प्रतौ टिप्पणी।