SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 368 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका न्यायजन्यज्ञानपरम्, तेन नोदासीनेऽतिव्याप्तिरित्यर्थः [185 A] / अथ न्यायजन्यज्ञानजनकशब्दत्वमित्येतावति उक्ते प्रतिज्ञादिष्वतिव्याप्तिः, तद्वारणाय व्याप्यत्वेत्यारभ्य बोधजनकेत्यन्तम् / प्रतिज्ञाद्यवयवे व्याप्यत्वाभिमतवनिष्ठनियतसम्बन्धबोधजनकशब्दत्वं नास्ति / प्रतिज्ञाजन्यवाक्यार्थबोधे व्याप्यत्वाभिमतव्यापकत्वाभिमतसम्बन्धो न भासते, साध्यं केवलं शुद्धमेव भासते इति तद्व्यावृत्तिः / ननु उदाहरणे निरुक्तो यो व्याप्यत्वाभिमतव्यापकत्वाभिमतसम्बन्धबोधस्तज्जनकत्वं नास्ति किन्तु धूमवढ्योः सामानाधिकरण्यमानं भासते परमिदमेतस्य व्याप्यमिदमेतस्य व्यापकमित्यनेन रूपेण न भासते इत्यत आह - निरुक्तेति टीका / तथा च यद्यपि तत् साक्षात् न भासते तथापि व्याप्यत्वाभिमतव्यापकत्वाभिमतयोर्नियततात्पर्यकमुदाहरणं भवत्येवेति कृत्वा निरुक्तसम्बन्धबोधजनकत्वं बोध्यम् / ननु न्यायजन्यज्ञानजनकत्वमुपनयेऽप्यस्ति यतस्तत्र वह्निव्याप्यधूमवांश्चायमिति प्रयोगस्ततस्तत्र व्याप्तिर्भासते इति कृत्वा व्याप्यत्वाभिमतेत्यादिकं लक्षणं तत्र वर्तत इत्यतिव्याप्तिरित्यत आह - उपनये चेति टीका। उपनये पक्षधर्मताबोधनमात्रे तात्पर्यं न तु व्याप्तौ तात्पर्यम्, व्याप्तेरुदाहरणेनैव सिद्धत्वादिति भावः / पक्षान्तरमाह - यद्वेति टीका / तथा च व्याप्यत्वाभिमतवन्निष्ठव्यापकत्वाभिमतसम्बन्धविधायकत्वं विवक्षितम् / नन्वेतावता उपनये कथमतिव्याप्तिर्वारितेत्यत आह - उपनयस्य चेति टीका / तथा चोपनये व्याप्तिरूपः सम्बन्धोऽनूद्यते पक्षधर्मता तु विधीयते यतो यो धूमो वह्रिव्याप्यस्तद्वान् यो यश्चैत्रः कुण्डली वा सस्वी(स) इति व्याप्त्यंशेऽनुवादः सिद्धकथनं पक्षधर्मताऽसिद्धा प्रोच्यते इति तदंशे विधायकत्वमेवेति कृत्वोपनये नातिव्याप्तिः उपनये व्याप्तिविधायकत्वाभावात् उदाहरणे तु व्याप्तिविधायकत्वमितिभावः। ननु तथाप्युदाहरणैकदेशेऽतिव्याप्तम्।तथाहि यत्रधूमस्तत्रवद्भिरित्युदाहरणांशेऽतिव्याप्तिः लक्षणं तु सम्पूर्णोदाहरणस्य यतस्तत्रापि तादृशसम्बन्धविधायकत्वं तिष्ठति / अशेषसाधनाश्रयाश्रिता साध्यसम्बन्धलक्षणाव्याप्तिः सा विधीयते इति कृत्वा तत्सम्बन्धबोधकत्वंतत्राऽप्यस्तीत्यतिव्याप्तिवारणाय शब्दपदम् / तथा च यावदवच्छेदेन तत्सम्बन्धबोधकत्वं तावत्पदसमुदायत्वम्। उदाहरणैकदेशे तु यावदवच्छेन तत्सम्बन्धबोधकत्वं पर्यवसितं तावत्पदसमुदायत्वं तु नास्ति महानसादिपदपर्यन्तावच्छेदेनैव तत्सम्बन्धबोधकत्वात् / ननु सामान्यलक्षणे [185 B] अनुमितीत्यादिके साध्यसाधनपदे न स्त इत्यत आह - व्याप्यत्वाभिमतेति टीका। तथा च सामान्यलक्षणे साध्यसाधनपदे न स्तस्तथापि व्याप्यत्वाभिमतेत्यस्य स्थाने साधनत्वाभिमतेति पदं दातव्यं व्यापकत्वाभिमतस्थले साध्यत्वाभिमतेति पदं दातव्यम् / तथा चोदाहरणलक्षणे व्याप्यत्वाभिमतव्यापकत्वाभिमतपददाने अन्वयिनोऽथ च व्यतिरेकिण उदाहरणस्य सङ्ग्रहो भवतीति भावः। न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु न, दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्वत्रिकत्वात् यो यो धूमवान् सोऽग्निमान् इत्येव व्याप्तिप्रतीतेः / नापि प्रकृतानुमिति
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy