________________ उदाहरणनिरूपणम् 367 भूमेरुपरिदेशवृत्तित्वं साध्यम्, इयं सामान्यव्याप्तिः। विशेषव्याप्तौ दृष्टान्ताभावात् व्यतिरेकव्याप्तिरेवेति कृत्वा सा पक्षधर्मता विप्रतिपन्नेति / व्याप्तिस्तु सर्ववादिसिद्धेति सा प्रथमं प्रदर्श्यते पश्चात् पक्षधर्मतेति मतान्तरेण समाधानमित्यर्थः / ननु उदाहरणेन समानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यस(सा)मानाधिकरण्यरूपा व्याप्तिः कथं प्रदर्श्यते? यो योधूमवान् इत्युदाहरणमध्ये ग्रन्थोक्ता व्याप्तिः कथं ज्ञायतइत्यत आह - व्याप्तिर्यथोदाहरणेति टीका। तथा चाशेषसाधनाश्रयाश्रितसाध्यसम्बन्धरूपा या व्याप्तिः सैवोदाहरणेन प्रदर्श्यते यथा यत्रधूमस्तत्र वह्निः इत्यत्र अशेषसाधनान्युपस्थितानि तत्र वह्निमत्त्वस्य बोधनात् अशेषसाधनाश्रयाश्रितसाध्यसम्बन्धरूपा व्याप्तिः प्रदीत एव / ननु तथापि [184 B] मूलोक्ता अत्यन्ताभावगर्भा व्याप्तिः सा तु उदाहरणेन न प्रदर्श्यते इत्यत आह - ग्रन्थकृदिति टीका / तथा च ग्रन्थकृदभिमता व्याप्तिरत्यन्ताभावगर्भा, तद्बोधे उदाहरणस्य परम्परयोपयोगः / तथाहि यदा उदाहरणवाक्येनाशेषाणि साधनान्युपस्थितानि पश्चात् तावत्सु साधनाधिकरणेषु साध्यसम्बन्धे बोधिते सतिपश्चात् हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यज्ञानंयत्र यावत्साधनाधिकरणेषु यस्य साध्यस्य सम्बन्धस्तस्मिन् साध्ये हेतुसमानाधिकरणात्यन्ताभावप्रतियोगित्वस्याप्यभाव इति परम्परया अशेषसाधनाश्रयाश्रितसाध्यसम्बन्धरूपव्याप्तिज्ञानद्वारा पश्चात् उदाहरणेनात्यन्ताभावगर्भा व्याप्तिरुपदर्श्यते इति परम्परया तत्राप्युदाहरणस्योपयोग इत्यर्थः / ननुअशेषेत्यादिव्याप्तिवत् हेतुसमानाधिकरणेत्यादिव्याप्तिरप्युदाहरणवाक्येन कुतो न प्रदर्श्यत इत्यत आह - पदार्थेति टीका। तथा चात्यन्ताभावगर्भा या व्याप्तिः सा पदार्थविधया वा उदाहरणेन बोध्यते किंवा वाक्यार्थविधया उदाहरणेन बोध्यते / द्वाभ्यामप्येताभ्यां न लभ्यते। कुतः ? यो यो धूमवान् इत्यत्र धूमाधिकरणमुपस्थितम्, स वह्रिमान् इत्यनेन वन्यधिकरणमुपस्थितम्, तथा च यत्तच्छब्दाभ्यां साध्यसाधनसामानाधिकरण्यमेवोपस्थितम् न तु अत्यन्ताभावादिः पदार्थ उपस्थित इति न पदार्थविधया तदुपस्थितिः / वाक्यार्थविधयाऽपि न तदुपस्थितिः / पदार्थसम्बन्धो हि वाक्यार्थः, न तु अपदार्थसम्बन्धो वाक्यार्थः / तथा चात्यन्ताभावादीनां पदार्थत्वाभावात् कथमत्यन्ताभावगर्भा व्याप्ति: उदाहरणेन प्रदीत इत्यर्थः / ननु तर्हि उदाहरणवाक्यात् कथं सा लभ्यत इत्यत आह - किन्त्विंति टीका। तथा तेनोदाहरणेन सहचारे बोधिते मानसो व्याप्तिग्रहो भविष्यति / व्याप्तिग्रहो हि व्यभिचारज्ञानाभावसहकृतसहचारज्ञानात् जायते / तथा चोदाहरणवाक्ये यत्तच्छब्दाभ्यां सहचार ज्ञानं जातं यच्छब्दवीप्सया व्यभिचारज्ञानाभावोऽपि प्रदर्शितः, पश्चाद् व्यभिचारज्ञानाभावसहकृतसहचारज्ञानेनात्यन्ताभावगर्भव्याप्तिग्रहो भविष्यति इति सर्वं सुस्थम्। उदाहरणलक्षणे जनकेत्यन्तस्य कृत्यमाह - अत्रेति टीका / उदासीने आप्तवाक्ये न्यायबहिर्भूतेऽतिव्याप्तिवारणाय जनकान्तं विशेषणम् / ननु तदप्यनुमितिहेतुलिङ्गपरामर्शपरं यद् वाक्यं तजन्यं यद् ज्ञानं तत्र परम्परया कारणमुदासीनवाक्यमपि भवति सामानाधिकरण्यज्ञानद्वाराऽपीत्यत आह - न्यायजन्यज्ञानेति टीका। तथा च जनकत्वस्यार्थो