________________ 366 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नास्ति किन्तु साध्याभावसाधनाभावासम्बन्धाबोधजनकशब्दत्वं वर्तते इति तद्व्यावृत्तिः / व्याप्यव्यापकगर्भ तु उभयसाधारणम् / अथव्यतिरेक्युदाहरणलक्षणमाह - साध्याभावेतिमूलम्।अत्राप्यनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकसाध्याभावसाधनाभावनियतसम्बन्धबोधजनकशब्दत्वं व्यतिरेकित्वमिति पर्यवसन्नम् / . अन्वय्युदाहरणलक्षणे साध्यसाधनपदे तु व्यतिरेक्युदाहरणेऽतिव्याप्तिवारणाय, एवं व्यतिरेक्युदाहरणलक्षणे साध्याभावसाधनाभावपदे अन्वय्युदाहरणेऽतिव्याप्तिवारणायेति पदकृत्यम्। . अथ टीका।व्याप्तेरितीति।ननुव्यप्तेर्विशेषणत्वेऽपिप्रथमनिरूपणे किंबीजमित्यतआह- प्रथमोपस्थिताया इति टीका / यथा वहिव्याप्यधूमवान् इत्यत्र व्याप्तिर्विशेषणम् / सा तु प्रथमोपस्थिता विशेषणत्वात् / तथा चोपस्थितिप्राथम्यादेव निरूपणप्राथम्यमित्यर्थः / ननु यथा व्याप्तिर्विशेषणं तथा पक्षधर्मोऽपि विशेषणम् / यथा व्याप्तिधूमवृत्तिस्तथा पक्षधर्मताऽपि धूमवृत्तिः, तथा चोभयोरपि धूमवृत्तित्वेन व्याप्तिवत् पक्षधर्मताया अपि विशेषणत्वमप्यस्तीत्युभयोरुपस्थितिरपि तुल्यैवेत्यत आह - पक्षधर्मतायाश्चेति टीका / अयमाशयः - स्वार्थानुमाने व्याप्ते (प्ति)महानसादौ परामर्शात् पूर्वं गृहीतो(ता) नास्ति / अतः स पक्षधर्मतारूपः सम्बन्धः संसर्गमर्यादा(द)यैव भासते। तथा च परामर्शे पक्षधर्मता संसर्गमर्यादया भासते व्याप्तिर्विशेषणत्वेन भासते। तेन स्वार्थानुमानस्थले स्वस्य यथा व्याप्तेर्विशेषणत्वेन [184 A] पूर्वमुपस्थितिः पश्चात् परामर्शकाले पक्षधर्मता संसर्गमर्यादया भासते, तथा च यथा स्वस्योपस्थितिः तथा परस्यापि तथैवोपस्थितिः कर्तव्या इति कृत्वा प्रथम व्याप्तेरभिधानमुदाहरणवाक्येन व्याप्तेः प्रतिपादनम्, तदनन्तरमुपनयेनोपनयवाक्येन पक्षधर्मतायाः प्रतिपादनम् यथा वह्निव्याप्यधूमवांश्चायमिति सुष्लूक्तं व्याप्तेः प्राथम्यादिति उपनयात् प्रागुदाहरणनिरूपणम् / वैशिष्टयेति टीका / पक्षहेत्वोर्वैशिष्टयमेव पक्षधर्मता / यतो धूमवानयं पर्वत इत्यत्र पर्वतो विशष्यं धूमो विशेषणम्, तयोः सम्बन्धः स एव पक्षधर्मता, तस्याश्च वैशिष्ट्यरूपत्वेन परामर्शात् पूर्वमनुपस्थितत्वेन प्रकारत्वाभावात्। तथा च स्वार्थानुमानस्थले आदौ व्याप्तिरुपस्थिता पश्चात् परामर्शकाले पक्षधर्मता धूमवान् अयम् इतिरूपा भासते / यथा स्वार्थानुमाने रीतिस्तथैव परार्थानुमानेऽपि, परं प्रति तयैव रीत्या प्रदर्शनीयमिति / अतथात्वादिति टीका / पक्षधर्मतायाः प्रकारत्वेन भानाभावात्। तथा च पक्षधर्मतायाः प्रकारत्वे पूर्वोपस्थितिरवश्यं वक्तव्या। तथा चपूर्वोपस्थित्यभावान्नसाप्रकार इत्यर्थः / व्याप्तेः प्राथम्यप्रदर्शनबीजे मतान्तरमवतारयति - केचित् त्विति टीका / व्याप्तिज्ञानमनुमितिमात्रकारणम्, इदं तु सकलवादिसिद्धम्, ततो व्याप्तेः प्राथमिकप्रदर्शनम् / पक्षधर्मतायाश्चानुमितिमात्रजनकत्वे विप्रतिपत्तिः। यथा सविता भूमेरुपरि भूमौ आलोकवत्त्वात्। सविता(तृ)पक्षे भूमेरूर्ध्वदेशवर्तित्वं साध्यम्, भूमावालोकवत्त्वादिति हेतुः स च सवितृरूपपक्षे नास्ति भूमावेव वर्तमानत्वात् / तथा च हेतोः पक्षावृत्तित्वात् पक्षधर्मता नास्ति, व्याप्तिस्तु वर्तते / तथा हि यत्र यत्र भूमेरालोकवत्त्वं तत्र तत्र