________________ / अवयवप्रकरणे उदाहरणनिरूपणम् / हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोरुपदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायोदाहरणम्। तच्चानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवनिष्ठनियतव्यापकत्वाभिमतसम्बन्धबोधजनकशब्दत्वमुदाहरणत्वम् सामान्यलक्षणे।साध्यसाधनसम्बन्धबोधकत्वंसाध्याभावसाधनाभावसम्बन्धबोधकत्वं च विशेषलक्षणद्वयम्। / अथ उदाहरणग्रन्थः / - अथ मूलम् / हेताविति मूलम् / धूमादिति हेतुवुक्ते सति कथमस्य गमकत्वं साधयसाधकत्वं कथं स्यादित्याकाङ्क्षायां यतोऽयं व्याप्तः पक्षधर्मः इति व्याप्तिपक्षधर्मतयोरुभयोरपि प्रदर्शनम्। ननु उभयोः प्रदर्शनप्राप्ती पक्षधर्मतैव कथं नादौ प्रदर्श्यत इति व्याप्तेरिति। पक्षधर्मो धूमो विशेष्यः, तत्र व्याप्तिर्विशेषणम्। तथाहि - व्याप्तिः पक्षधर्मे वर्तते इति कृत्वेति भावः / तथा च व्याप्यस्य धूमस्य पक्षधर्मताप्रदर्शनं युक्तम् यथा वह्रिव्याप्यवान् अयमिति / तथा च व्याप्तिविशिष्टपक्षधर्मताप्रदर्शनं तत्र व्याप्तेर्विशेषणत्वेन प्रथमोपस्थितत्वात् / व्याप्तिप्रदर्शनायोदाहरणमित्यर्थः। तच्चेति मूलम्। उदाहरणमित्यर्थः / उदाहरणस्य लक्षणमाह - अनुमितीति मूलम् / अनुमितिहेतुर्यो लिङ्गपरामर्शस्तत्परं तदर्थप्रतिपादकं यद् वाक्यं वह्निव्याप्यधूमवानितिरूपं तज्जन्यं यज्ज्ञानं न्यायवाक्यजन्यं ज्ञानं [183 B] शाब्दबोधस्तजनकं यद् व्याप्यत्वाभिमतवन्निष्ठनियतव्यापकत्वाभिमतसम्बन्धबोधजनकशब्दत्वम् यथा यत्र धूमस्तत्र वह्निरिति यथा महानसमित्युदाहरणम् / तत्र व्याप्यत्वाभिमतो धूमः, तद्वत् महानसम्, तन्निष्ठो यो नियतव्यापकत्वाभिमतो वह्रिस्तत्सम्बन्धबोधजनकशब्दत्वमुदाहरणत्वम् / पदकृत्यं यथा / उदासीनवाक्ये यत्र धूमस्तत्र वह्रिरिति रूपेऽतिव्याप्तिवारणाय जनकपर्यन्तम् / उदासीनवाक्यं तु अनुमितिजनकंन भवतिइतिन तत्रातिव्याप्तिः।व्याप्यत्वाभिमतेत्यादिकमवयवान्तरेप्रतिज्ञादावतिव्याप्तिवारणाय / शेष टीकायां बोध्यम् / अन्वय्युदाहरणलक्षणमाह - साध्यसाधनेति मूलम् / व्याप्यत्वाभिमतेति पदं त्यक्त्वा साधनत्वाभिमतेतिपदंदातव्यम्। तथा चानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकसाधनत्वाभिमतवन्निष्ठनियतसाध्यत्वाभिमतसम्बन्धबोधजनकशब्दत्वम् अन्वयित्वमिति पर्यवसन्नम्। यथा शब्दोऽभिधेयः प्रमेयत्वात् इति अत्र यत्र प्रमेयत्वं तत्राभिधेयत्वमिति न्यायवाक्यजन्यज्ञानजनकत्वमत्रवाक्ये वर्तते, अथ च साधनत्वाभिमतं प्रमेयत्वंसाध्यत्वाभिमतमभिधेयत्वम् अनयोर्यः सम्बन्धस्तद्बोधजनकशब्दत्वं वर्तते अन्वयिनि वर्तते।व्यतिरेकिणि त्विदंनास्ति।यथा यत्र सात्मकत्वाभावस्तत्र प्राणादिमत्त्वाभाव इत्युदाहरणे साधनसाध्यसम्बन्धबोधजनकः शब्दो