________________ 364 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका इति / तथा च यत्र धूमस्तत्र वह्निारित्युदाहरणम्] उपनयश्च धूमवांश्चायमिति द्वाभ्यामेवं निर्णीयते धूम एव हेतुर्न तु धूमसम्बन्धइति।धूमवत्त्वं चेत् हेतुस्तदा कीदृशमुदाहरणं युज्यत इत्यत आह - किन्तु यत्रेति टीका।धूमवत्त्वस्य हेतुत्वे यत्र धूमवत्त्वमित्युदाहरणं स्यात्, न चैवमुदाहरणमेवमुपनयोऽपि धूमवत्त्ववांश्चायमिति न, तस्माद् धूममात्रस्यैव हेतुत्वं तत्र धूमसम्बन्धाभिधाने पक्षधर्मताया अनाकाङ्क्षितत्वात्। तत्र च पक्षधर्मताप्रतिपादनार्थं यो मुतप् स व्यर्थ एव स्यादित्यर्थः / इदं मतं दूषयति - एवं हीति टीका / यदि धूममात्रं येषां मते हेतुः तदा धूमवांश्चायम् इत्युपनयो न युज्यते किन्तु वहिव्याप्यधूम इत्येवोपनयः स्यात् / तथा चोपनये मतुप्प्रयोगो व्यर्थ इत्याकूतम् / यदि चानादिसिद्धकथकसम्प्रदायानुरोधात् तत्रेति उपनये धूमवांश्चायमित्येव प्रयोगः तदा हेतुरपि धूमवत्त्वात् इति प्रयुज्यतां कथकसम्प्रदायानुरोधात् / तथा च धूमवत्त्वादित्यपि प्रयोगः स्यादेवेति हृदयम् / एवमिति टीका / पर्वतो वह्निमान् अत्रापि मतुप्प्रयोगो व्यर्थः, अत्र पर्वते वह्निः इत्येव प्रयोगः स्यात्, यथा प्रतिज्ञायां साध्यांशे कथकसम्प्रदायानुरोधात् यदि मतुप्प्रयोगस्तदा हेत्वंशे तथा प्रयोगः कथं न स्यादित्यर्थः / सप्तमीति टीका / सामान्यवत्त्वे सतीति सतिसप्तमीबलादित्यर्थः / ननु विभक्त्यन्तरावरुद्धे पदद्वये कथमन्वयः स्यात् इत्यतो व्याचष्टे - विरुद्धार्थकेति टीका / तथा च विभक्त्यन्तमात्रमन्वयत्वेऽप्रयोजकं किन्तु विरुद्धार्थविभक्तिकत्वम्, प्रकृते च सप्तमी विरुद्धार्थका न भवति किन्तु सतिसप्तमीमहिम्ना उभयसामानाधिकरण्यमेव लभ्यते / तथा च सामान्यवत्त्वसामानाधिकरण्यं यत् बाह्यकरणप्रत्यक्षं तत्त्वादित्यर्थः / एकत्र शब्दे एतद्वयस्य विद्यमानत्वादिति भावः / इति हेतुग्रन्थटीकाव्याख्याग्रन्थः / / अवयवप्रकरणे हेतुनिरूपणं समाप्तम्।।