________________ 362 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कुत इत्यत आह - विशेष्येति मूलम् / विशेष्यविभक्तिः पञ्चमी, तयोपस्थापितं यद्धेतुत्वं तेन सह सप्तमीविभक्त्यन्तरेणावरुद्धस्य सामान्यवत्त्वस्यानन्वयात्। तर्हि अनित्यत्वसाधकोऽयं हेतुर्न भवति किन्तु शब्दोऽनित्यः बाह्यकरणप्रत्यक्षसामान्यवत्त्वात् / प्रत्यक्षता च यत्र यत्र हेतुरयं तत्तदधिकरणान्तर्भावेन बोद्धव्या। तथा च बाह्यकरणप्रत्यक्षं यद्रूपत्वं तद्वत्त्वं वर्तते जलपरमाणुरूपे, तत्ररूपे हेतुर्वर्तते साध्यमनित्यत्वं नास्तीति व्यभिचारः स्यात्, स न भवति / कथम् ? यतः स्ववृत्ति यद्बाह्यकरणप्रत्यक्षं सामान्यं तद्वत्त्वात् / तथा च जलपरमाणुरूपे [182 A] व्यभिचारो न भवति। तत्रस्ववृत्ति जलपरमाणुरूपवृत्ति यद्बाह्यकरणप्रत्यक्षं सामान्यं तद्वत्त्वं नास्तीति / अयमर्थः - स्वाधिकरणविषयकं यद्बाह्यकरणप्रत्यक्षं तद्विषयं यत् सामान्यं तद्वत्त्वात् जलपरमाणुरूपे जलपरमाणुरूपाधिकरणविषयकबाह्यकरणजन्ये (न्यं) यत्प्रत्यक्षं तद्विषयत्वं नास्तीति न व्यभिचारः / न तु पूर्वोक्तः सप्तम्यन्तविशेषणघटितो हेतुः कर्तव्यः, तस्यापार्थकत्वात् / कथमपार्थकत्वम् ? अनन्वयिपंदजातमपार्थकात्वामित्याहुः केचित् प्राञ्चः। तद् दूषयति - तन्नेति मूलम् / सप्तमीति मूलम् / तथा च सतिसप्तमीबलात् सामान्यवत्त्वसमानाधिकरणबाह्यकरणप्रत्यक्षत्वं लभ्यते इति कृत्वा सामान्यवत्त्वस्य बाह्यकरणग्राह्यत्वस्य च सामानाधिकरण्योपस्थितौ विशिष्टे पदार्थे उभयोर्विशेषणयोरन्वयात् / अयमर्थः - बाह्यकरणग्राह्यत्वसामान्यवत्त्वयोरुभयोः सम्बन्धवत्त्वादित्येव हेतुः, तथा च सामान्यवत्त्वबाह्यकरणग्राह्यत्वोभयसामानाधिकरण्यवत्त्वात् / नन्विदं व्युत्पत्तिविरुद्धमित्यत आह - तथैवेतिमूलम्। तथा चसतिसप्तमीमहिम्ना सप्तम्यर्थेन सह सामानाधिकरण्यं लभ्यते, सतिसप्तम्या सामानाधिकरण्यमेवोपस्थाप्यते / यथा स्वाश्रये सति तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वादित्यत्र सतिसप्तमीमहिम्नास्वाश्रयसमानाधिकरणतृतीयक्षणवृत्तिसंशयविषयत्वादित्यर्थः तथाऽत्रापीत्यर्थः / ननु व्युत्पत्तिरप्रामाणिक्येवेत्यत आह - नहीतिमूलम्। तथा च यत्रसतिसप्तमी श्रूयते तत्र सामानाधिकरण्यं सप्तम्यवरुद्धस्यान्यविभक्त्यवरुद्धस्य चलभ्यते।अयं बोधोऽनुभवसिद्धो भवतीत्यर्थः / तथा चानुभवसिद्धबोधानुभवेन व्युत्पत्तिरपि तथैव कल्प्यते यथा तुल्यविभक्तिकस्थलेऽभेदान्वयबोधस्यानुभवसिद्धत्वात् तुल्यविभक्तिकयोरभेदान्वयबोध इति व्युत्पत्तिरित्यर्थः / इति हेत्ववयवग्रन्थार्थो मूले। ___ अथ टीका / व्यर्थत्वादित्यत्र केषाञ्चिद् व्याख्यानं दूषयितुमुपन्यस्यति - ननु पक्षधर्मताबोधनार्थमेव मतुप्प्रयोगो भविष्यति इत्यत आह - पक्षधर्मताया इति टीका। तथा च पक्षधर्मतायास्तदानीं गमकत्वाकाङ्क्षाकालेऽनाकाङ्कितत्वेन व्यर्थत्वम् / ननु तर्हि मीमांसकै—मवत्त्वादिति कथं प्रयुज्यते इत्यत आह - मीमांसकवदिति / तथा च [182 B] मीमांसकानां मते उपनयो नास्तीति कृत्वा तेषां पक्षधर्मताबोधनार्थं मतुप्प्रयोगः, तद्वत् अत्र मतुप्प्रयोगो न कर्तव्यः, आकाङ्क्षानुसारेणैव शब्दाभिधानम्, न हि हेतौ व्याप्तिमनभिधाय कस्यापि पक्षधर्मताकाङ्क्षा भवति, तथा चानाकाङ्क्षिताभिधाने निग्रहो भवतीत्येतदेवाह - अनाकाङ्क्षि