________________ हेतुनिरूपणम् 361 [181 B] शाब्दमेवेति शाब्दपदकिञ्चित्करमित्यर्थः / प्रतीत्या(ता)न्वयेति पदस्य कृत्यमाह - केवलव्यतिरेकिणीति टीका / तथा च केवलव्यतिरेकिणि सर्वमनुमितीत्यारभ्य लक्षणं विद्यते इत्यतिव्याप्तिः स्यात्, अतः प्रतीत्या(ता)न्वयपदम्, व्यतिरेकिणि प्रतीत्या(ता)न्वयत्वाभावान्नातिव्याप्तिरिति भावः / ननु अन्वयव्यतिरेकिव्याप्तिप्रतिसन्धानदशायामन्वयव्यतिरेकी अलक्ष्यो भवति / तत्र प्रतीत्या(ता)न्वयत्वं वर्तत इत्यत आह - प्रतीतान्वयमात्रेति / तथा चान्वयव्यतिरेकव्याप्त्युपस्थितिदशायां प्रतीत्या(ता)न्वयमात्रत्वं नास्ति व्यतिरेकस्यापि सत्त्वात् इत्यतो मात्रपदम् / एतदेव व्याचष्टे - प्रतीतेति टीका / प्रतीतान्वयं यत् साध्यं यस्य साधनस्य तद्वाचकविभक्तिमत्त्वम्, अन्यथा घट इतरेभ्यो भिद्यते घटत्वात् इति व्यतिरेकिणि घटत्वस्य हेतोः पक्ष एवान्वयस्यप्रतीयमानत्वात् व्यतिरेकिण्यतिव्याप्तिः स्यात्, अतोव्याख्यातंप्रतीतान्वयं यत्साध्यमिति, व्यतिरेकिणि तु साध्यं प्रतीतांन्वयमेव नास्तीति न तत्रातिव्याप्तिः / हेतुविभक्तिमदिति पदस्य कृत्यमाह - यो य इति / यो यो धूमवान् इत्युदाहरणांशे अनुमितीत्यारभ्य प्रतीत्या(ता)न्वयपर्यन्तं सर्वं वर्तते परं हेतुविभक्तिमत्त्वं नास्तीति भावः / ननु वक्ष्यमाणं व्यतिरेकिलक्षणम् अन्वयव्यतिरेकिणि अतिव्याप्तमत आह - दशाविशेष इति टीका। तथा च यदि अन्वयव्यतिरेकिणि व्यतिरेकि(क)व्याप्तिमात्रप्रतिसन्धानं तदाऽन्वयव्यतिरेकी केवलव्यतिरेकी भवत्येवेत्यर्थः / एतदेवेति / तथा चान्वयेति पदं परित्यज्य व्यतिरेकपदं दत्त्वा पूर्वोक्तमेव लक्षणं व्यतिरेकिहेत्ववयवलक्षणं द्रष्टव्यम्। कथायांधूमादित्येवप्रयोक्तव्यम्, नतुधूमवत्त्वादितिमतुपोव्यर्थत्वात्।सामान्यवत्त्वे सति बाह्यकरणप्रत्यक्षत्वादित्यपार्थकं विशेष्यविभक्त्युपस्थापितहेतुत्वेन सामान्यवत्त्वस्य विभक्त्यन्तरावरुद्धस्यानन्वयादिति केचित्। तन्न।सतिसप्तमीबलात् सामान्यवत्त्वस्य बाह्यकरणप्रत्यक्षत्वस्य च सामानाधिकरण्योपस्थितौ विशिष्टे हेतुत्वान्वयात् तथैव व्युत्पत्तेः, न ह्ययमर्थोऽस्मान्नावगम्यते इति। . ननु कथायांधूमवत्त्वात् इतिएव प्राचीनानां प्रयोगः। तत्रमतुग्रहणं किमर्थमित्याह - कथायामिति मूलम् / इष्टापत्त्या मतुब् व्यर्थ एवेति इष्टापत्त्या परिहतम् / तथा च धूमात् इत्येव प्रयोगः कर्तव्यः, न तु धूमवत्त्वादिति, मतुपो व्यर्थत्वात् इत्यर्थः / ननु शब्दोऽनित्यः सामान्यवत्त्वे सति बाह्यकरणप्रत्यक्षत्वात् घटवत् इत्यत्रानित्यत्वसाधकानुमानं न स्यात् / कथम् ? सप्तम्यन्तपञ्चम्यन्तयोः विरुद्धविभक्त्यन्तावरुद्धयो भेदान्वय इति / तथा च यत् सामान्यवत् तद् बाह्यकरणप्रत्यक्षमित्यन्वयो न भवति विरुद्धविभक्त्यवरुद्धत्वात् इत्याशङ्कायां केषाञ्चित् मतमाह - सामान्यवत्त्वे सतीति मूलम् / तथा च सामान्यवत्त्वे सति बाह्यकरणप्रत्यक्षत्वादिति हेतुर्न भवत्येव /