________________ 360 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका [मान]त्वात् / अयम् अन्वयव्यतिरेकी हेत्ववयवो भवत्येवेति पक्षपदं व्यर्थमित्यत आह - अत्र चेति टीका। अत्र लक्षणे सद्धेतुविषयक एव हेत्ववयवः सङ्ग्राह्यः इति स्वरूपासिद्धिवारणाय पक्षपदम् / एतच्चेति टीका / व्यतिरेकिणिअतिव्याप्तिवारणाय सपक्षसतइति।ननु पक्षे सत् सपक्षेसत् विपक्षाव्यावर्तमान एवंभूतहेतुत्वप्रतिपादकविभक्तिमन्यायावयव इति मूलोक्ते प्रोच्यमाने गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वात् अयमपि हेत्ववयवः स्यात् / पृथिवीत्वं पक्षे विद्यमानः सपक्षे पटादावपि विद्यमानः विपक्षाजलादेावृत्तत्वादतोऽत्रातिव्याप्तिः, तद्वारणायाह - अबाधितत्वादीति [181 A]।आदिपदात् असत्प्रतिपक्षत्वपरिग्रहः / सपक्षसत इति पदस्य कृत्यमाह - असाधारणेति टीका। असाधारणहेत्ववयवे पक्षे सत्त्वं विपक्षाद् व्यावृत्तिरस्तीत्यतिव्याप्तिः, तथाहि - घटो घटरूपवान् घटत्वात् इत्यत्रायं पक्षे वर्तमानो भवति विपक्षात् पटादेया॑वर्तमान इति कृत्वाऽयमपि हेत्ववयवः स्यात् इत्यत आह - सपक्षे सत इति।व्यतिरेकिणि असाधारणे सपक्षे सत्त्वमेव नास्तीति व्यतिरेकिपरिहारः / अथ विपक्षासत इति पदस्य कृत्यमाह - व्यभिचारीत्यादि टीका। तथा च व्यभिचारी पर्वतो धूमवान् वह्नः इत्ययं पक्षे विद्यमानः सपक्षे सन्नपि भवति, एवं विरुद्धपदं न लगति / केवलान्वयिनि शब्दोऽभिधेयः प्रमेयत्वात् इत्यत्रातिव्याप्तिवारणाय विपक्षासत इति।केवलान्वयिनि तु विपक्षाभावान्नातिव्याप्तिः। व्यभिचारिणि वढ्यादौ विपक्षे विद्यमानेऽपि विपक्षेऽसत्त्वं नास्ति किन्तु अयोगोलकेऽपि विद्यमानत्वात् अतिव्याप्तिर्न भवतीत्यर्थः / ननु स्वरूपासिद्धसाधारणो हेत्ववयवः किमर्थं वार्यते इत्यत आह - एवं चेदिति टीका। एवं हेत्वाभाव(सः) साधारणो हेत्ववयवो वारणीय एव। एवं चेन्न व्याख्यायते तदावारणीया हेत्ववयंवा व्यभिचार्यादयः ते विपक्षासत इतिपदेनैववारिता इतिप्रथम(मे) [लक्षणे] पक्षइतिपदं द्वितीयलक्षणे चपक्षसपक्षपदंव्यर्थमेवापद्येतेति भावः स्वरूपासिद्धस्य सङ्ग्रहीतत्वात् / ननु अनुमितिकारणीभूतेत्यादिलक्षणं पर्वतो वह्निमान् धूमात् इत्यन्वयव्यतिरेकिणि गतम्। कथम् ? अनुमितिकारणीभूतोयः परामर्शस्तस्य प्रयोजकं यत् शाब्दज्ञानं न्यायजन्यं शाब्दज्ञानं तस्य कारणं यत्साध्याविषयका शाब्दधीस्तस्या जनकम् एवंभूतं प्रतीतान्वयं यत्साध्यसाधनवाचकहेतुविभक्तिमच्छब्दो धूमादिति भवति, यदान्वयव्याप्तिमात्रमेव ज्ञानं तद्दशायामन्वयव्यतिरेकिण्यतिव्याप्तिरित्यत आह - दशाविशेष इति टीका। तथा च दशाविशेषेऽन्वयव्याप्तिमात्रज्ञानदशायामपि अन्वयव्यतिरेकी अपि हेतुरन्वयी हेत्ववयवो भवत्येवेति सोऽपि लक्ष्य एवेत्यर्थः / अनुमितीत्यारभ्य शाब्दज्ञानकारणेति पदस्य कृत्यमाह - उदासीनेति। उदासीनान्वयिहेतुप्रतिपादकवाक्यवारणाय, तत्रपूर्वोक्तरीत्याऽनुमितिकारणीभूतपरामर्शप्रयोजकशाब्दज्ञानकारणत्वमेव नास्ति इति कृत्वा न तत्रातिव्याप्तिः / साध्याविषयकेति पदस्य कृत्यमाह - तस्मादिति / निगमने साध्याविषयकशाब्दधीजनकत्वं नास्ति, तेन न तत्रातिव्याप्तिः। ननु साध्याविषयकज्ञानजनकमित्येवास्तु, शाब्दपदं किमर्थमित्यत आह - शाब्दपदमिति टीका / सम्पातायाताम् / तथा च वाक्याज्जन्यं यद् ज्ञानं तत्