________________ हेतुनिरूपणम् 359 हेत्ववयवेऽस्तीत्यतिव्याप्तम् / मध्ये शङ्कते - न चेति टीका / अन्वयव्याप्तिमात्राभिधायकत्वं विवक्षितमिति न वाच्यमित्यन्वयः / दूषयति - केवलान्वयीति टीका। केवलान्वयिहेतौ मात्रपदघटितलक्षणस्याप्रसिद्धिः / कथम् ? अन्वयव्याप्तिमात्राभिधायकत्वमित्यस्य कोऽर्थः ? अन्वयवयाप्त्याभिधायकत्वे सति अन्वयव्याप्तीतरव्याप्त्यनभिधायकत्वम्। तथा च केवलान्वयिनि अन्वयव्याप्तीतरा या व्याप्तिस्तस्या अप्रसिद्धे (द्धिः)। एतदेवाह -केवलान्वयीति टीका। तथा चकेवलान्वयिनि मात्रपदव्यावृत्त्या या व्यतिरेकव्याप्तिस्तस्या अप्रसिद्धिरित्यर्थः / समाधत्ते - अन्वयेति टीका। तथा चान्वयव्याप्तिस्थाने यदि मात्रपदं दीयते तदाअप्रसिद्धिः, यदि चावयवपदस्थाने मात्रपदं दीयते तदा नाप्रसिद्धिरित्यर्थः / आशयमविद्वान् शङ्कते - न चैवमिति टीका। यथा केवलान्वयिनि व्यतिरेकव्याप्तिरप्रसिद्धा तथा व्यतिरेकव्याप्त्यभिधायकोऽप्यप्रसिद्ध एव / व्यतिरेकव्याप्तिरपि नास्ति तदभिधायकोऽवयवोऽपि नास्ति / समाधत्ते - व्यतिरेकेति टीका / यद्यपि व्यतिरेकव्याप्तिरप्रसिद्धा तथापि विशेषादर्शनदशायाम् अभिधेयत्वस्य केवलान्वयित्वाज्ञानदशायां यत्राभिधेयत्वाभावस्तत्र प्रमेयत्वाभाव इति व्यतिरेकव्याप्त्यभिधायकावयवप्रसिद्धेः / ननु व्यतिरेकव्याप्त्यप्रसिद्धौ व्यतिरेकव्याप्त्यभिधायकोऽवयवः कथं प्रसिद्ध इत्यत आह [180 B] - तत्प्रतीतिजनकस्यैवेति टीका / यद्यपि व्यतिरेकव्याप्तिः अप्रसिद्धा तथापि विशेषा[दर्शन]दशायां केवलान्वयिनि व्यतिरेकव्याप्तिभ्रमो भवत्येव, तभ्रमे जाते सतिव्यतिरेकव्याप्त्यभिधायकोऽवयवः प्रसिद्ध एवेति न लक्षणेऽप्रसिद्धिः / मतान्तरमाह - दशाविशेष इति टीका। तथा चान्वयव्यतिरेकिणि हेतौ यदा अन्वयव्याप्त्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं तदानीमन्वय्यवयवत्वेनान्वयव्यतिरेकी हेतुरन्वय्यवयवत्वेन सङ्ग्राह्य एवेत्याहुः / आहुरित्यनेनास्वरसो यथा यदाऽन्वयव्यतिरेकिणिअन्वयव्याप्त्यभिधानं जातं व्यतिरेकव्याप्त्यभिधानमपि जातं तस्यां दशायाम् उक्तलक्षणं वर्तते, तथा चान्वयव्यतिरेकित्वेन जातः स केवलान्वयित्वेन लक्ष्यः स्यात् / उक्तलक्षणमन्वयेत्यादि तत्र वर्तते एवेति।मध्ये शङ्कते - न चेति टीका / तथा च केवलान्वयिनि संशयाभावात् संशयमूलको न्यायावतारो नास्ति / अभिधेयत्वादेः संशयाभावात् न्यायावतारएव नास्तीति केवलान्वय्यनुमानं परार्थं न भवतीतिशङ्कार्थः। समाधत्ते - अनुमित्सयेति टीका। न हि सर्वत्र सन्देह(हा)धी[ना] न्याया(य)प्रवृत्तिः अपि तु अनुमित्साधीनापि सा। अत * एव निश्चितेऽपि करिणि चित्कारादिनाऽनुमित्सया न्यायप्रवृत्तिः। न चैवं सिद्धसाधनमिति वाच्यम्। सिषाधयिषाविरहसहकृतसिद्धेः प्रतिबन्धकत्वेन सिषाधयिषायां सिषाधयिषाविरहसहकृतसिद्धयभावरूपपक्षताया विद्यमानत्वात् अवश्यमनुमितिर्भवत्येव।तथा चानुमित्सयापिअनुमानसम्भवादितिभावः।अन्वयव्यतिरेकोदाहरणेति मूलं स्फुटत्वादुपेक्ष्य पक्षसपक्षेति मूलं व्याकरोति - पक्षादिरिति। पक्षे सतः सपक्षे च सतो विपक्षे चासत एवंभूतस्यार्थस्य प्रतिपादको हेत्ववयवोऽन्वयव्यतिरेकी। ननु ह्रदो वह्रिमान् धूमात् इत्यत्र स्वरूपासिद्धः पक्षे हेतोरविद्य