________________ 358 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका उक्तेति टीका / तथा चोक्तप्रयोजकत्वस्य पञ्चम्यर्थे प्रमाणाभाव इत्यर्थः / मतान्तरमाह - यत्त्विति टीका / तथा च धूमपद एव लक्षणा / विभक्तौ लक्षणा नास्ति किन्तु प्रातिपदिके धूमपद एव लक्षणा / तथा च धूमपदादेव धूमज्ञानं धूमविशिष्टज्ञानमुपस्थितम्, धूमोऽप्युपस्थितो धूमज्ञानमप्युपस्थितम्, तथा च पञ्चम्यर्थो ज्ञान एवान्वितो भविष्यति। उदाहरणप्रतिपाद्या व्याप्तिस्तुगमकत्वाकाङ्क्षायां धूमेऽन्विता भविष्यति। यथा गङ्गायां घोषः इत्यत्र यथा प्रवाहविशिष्टतीरस्य विशिष्टलक्षणयैव तीरस्योपस्थितिः तद्वत् अत्रापि विशिष्टलक्षणया धूमविशिष्टज्ञानोपस्थितिरिति धूमपदे लक्षणा इति इदं मतं दूषयति - तथा चेति टीका / यथा धूमपदात् धूमविशिष्टज्ञानोपस्थितिः तथा गङ्गापदादपि प्रवाहविशिष्टतीरोपस्थितिः स्यादित्यत्रेष्टापत्तिः स्यात्, तथा च यथा नेष्टापत्तिः तथा लक्षणावसरे वक्ष्यते इत्यत आह - तत्रेति टीका। अन्येति / यन्मतं तन्मतदूषणार्थं जातिं विनेति यन्मूलं तद् योजयति - अनन्तरोक्तेति टीका। अनन्तरोक्तेऽन्येषां मते परैर्या युक्तिरुक्ता तां दर्शयति जातिं विनेति ग्रन्थेन / तथा च हेतुवाक्यजन्ये ज्ञाने तथाविधजातिविशेषस्याज्ञाने वाक्यविशेष्यजन्यत्वमपि कथं ग्राह्यम् ? यावत्पर्यन्तं वाक्ये जनकतावच्छेदकरूपं ज्ञानं नास्ति तावत्पर्यन्तं जनकत्वमपि ग्रहीतुं न शक्यते। ननु हेतुवाक्ये धर्मविशेष एव जनकतावच्छेदकः स्यात् इत्यत आह - अत्रेति टीका। अत्र मतेऽस्वरसोऽयम् / यदि हेतुवाक्ये जनकतावच्छेदको धर्मविशेषस्तिष्ठति तदा स एव हेतुलक्षणमस्तु। यदि च जनकतावच्छेदको धर्मविशेषो नास्ति तदा जनकत्वमपि दुह]मित्यस्वरसः पूर्वमते इत्यर्थः / अन्वयहेत्ववयवलक्षणे जनकान्तपदव्यावृत्तिमाह - अत्रेति टीका / हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वमित्युच्यमाने व्यतिरेकिहेत्ववयवेऽतिव्याप्तिः, तन्निरासार्थमन्वयव्याप्तीत्यारभ्य जनकेतिपर्यन्तं व्यतिरेकिहेत्ववयवस्यान्वयेति ज्ञानजनकत्वं नास्तीति नातिव्याप्तिः / हेतुत्वप्रतिपादकविभक्तिमत्पदस्य [180 A] कृत्यमाह - प्रतिज्ञायामिति टीका / प्रतिज्ञायामपि हेत्ववयववाक्यार्थबोधद्वारा अपि अन्वयव्याप्त्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकत्वं वर्तत इत्यतिव्याप्तिवारणाय हेतुत्वप्रतिपादकविभक्तिमदिति पदम् / ननु द्वितीयदलेऽवयवपदं व्यर्थम्, उदासीनवाक्येऽतिव्याप्तिवारणं तुप्रथमावयवपदेनैव भवति। तथाहि उदासीनवाक्येऽवयवाभिधानप्रयोजकज्ञानजनकत्वं नास्तीति द्वितीयावयवपदं व्यर्थमित्यत आह - अत्रेति टीका / तथा च नोभयावयवघटितमिदं लक्षणं किन्तु प्रत्येकावयवपदघटितं लक्षणद्वयं बोद्धव्यम् / तथा हि एकं तु अन्वयव्याप्त्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमद्वाक्यत्वम्, द्वितीयं तु अन्वयव्याप्त्यभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वमिति / तथा च द्वितीयमवयवपदं न व्यर्थमिति भावः / अत्राशङ्कते - नन्विति टीका। अन्वयेत्यादि मूलोक्तं लक्षणम् अन्वयव्यतिरेकिणि हेतावतिव्याप्तम्। तत्राप्यन्वयव्याप्तिर्वर्तते इति कृत्वा अन्वयव्याप्त्यभिधायकावयवाभिधानाप्रयोजक]ज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमत्त्वम् अन्वयव्यतिरेकि