________________ 357 हेतुनिरूपणम् नान्वयः, पदार्थैकदेशत्वात् तस्य / तत्र यथा लक्षणा। तथाहि - गौर्नित्या इत्यत्र गोत्वेन सह नित्यत्वस्य नान्वय एकदेशत्वात् / गोत्वविशिष्टगोव्यक्त्या सह नित्यत्वस्यान्वयो न भवति, बाधात् / तथा च गौर्नित्या इत्यत्र गोत्वस्य गोपदात् पदार्थैकदेशत्वोपस्थितिर्मा भूत् किन्तु पदार्थत्वेनोपस्थितिर्भवतु, लक्षणयागोत्वबोधात् तद्वत् प्रकृतेऽपि नियतपूर्ववर्तित्वंपदार्थैकदेशस्तेन सहधूमस्य नान्वयः, एकदेशत्वात्।अतोऽनन्वय एवेत्याशङ्कार्थः / समाधत्ते - विशेषणांशे इति टीका / तथा च न पदार्थैकदेशत्वमात्रमनन्वये प्रयोजकं किन्तु निराकासत्वमेव / अत एव गौर्नित्या इत्यत्र गोत्वं गोव्यक्तिविशेषणमिति कृत्वा विशेषणत्वेनैव निराकासम्, अतो नित्यत्वेन सह नान्वितम् / गोत्वस्य नित्यत्वेन सह नान्वयः किन्तु स्वातन्त्र्येण गोपदात् गोत्वोपस्थितिर्लक्षणयैव / लक्षणया प्राधान्येन गोत्वं चेत् उपस्थितं तदा नित्यत्वेन सहान्वयो भवत्येव / प्रकृते च नियतपूर्ववर्तित्वस्य विशेष्यत्वात् विशेष्यं तु सदा साकाङ्क्षमेवेति कृत्वा साकाङ्क्षण विशेष्येण नियतपूर्ववर्तित्वेन सहान्वयो भविष्यत्येव / अत एव गौरनित्या इत्यत्र गोव्यक्तरेकदेशत्वेऽपि न लक्षणा विशेष्यस्य गोव्यक्तेः साकाङ्क्षत्वात् / अन्यान्वितत्वेनेति टीका / यथा गौर्नित्या इत्यत्र गोत्वस्य गोव्यक्त्यन्वितत्वेन विशेषणतया नित्यत्वेन सह निराकाझं गोत्वमिति कृत्वा तत्र गोत्वे आकाङ्क्षोत्थापनाय तत्राप्याकाङ्क्षा स्यात् इति आकाङ्क्षा तुस्वातन्त्र्योपस्थितिं विना न सम्भवति, स्वातन्त्र्योपस्थितिस्तु लक्षणां विना न सम्भवतीति स्वातन्त्र्योपस्थितये गोपदे लक्षणा स्वीक्रियते। न तु साकाङ्के विशेष्यभागे गौरनित्या इत्यादी लक्षणा, गोव्यक्तेर्विशेष्यतयोपस्थितत्वेन साकाङ्क्षत्वात् / तथा च गोव्यक्तेरेकदेशत्वेऽपि विशेष्यतयोपस्थितत्वात्न गौरनित्या इत्यत्र लक्षणा। तद्वत्प्रकृतेऽपि नियतपूर्ववर्तित्वस्य विशेष्यतयोपस्थितत्वात् पदार्थ कादेशत्वेऽपि साकाङ्क्षतया नियतपूर्ववर्तित्वरूपविशेष्यभागेन सह धूमस्य हेतोरन्वयो भविष्यत्येवेत्यर्थः / ननु गौरनित्या इत्यत्र गोत्वं विशेषणं भवति गोव्यक्त्याश्रितत्वात् / तथा च * गोव्यक्तिविशेष्या, गोत्वं विशेषणम्।तेन गोव्यक्तरेकदेशत्वेऽपिविशेष्यतया साकाङ्क्षत्वात् भवतु अनित्यत्वान्वयः / प्रकृते चतत्त्वज्ञानादित्यत्र पञ्चम्यर्थोऽनन्यथासिद्धनियतपूर्ववर्तित्वम्। तत्रानन्यथासिद्धत्वं विशेषणं नियतपूर्ववर्तित्वं विशेष्यमीदृशनियमेप्रमाणाभावात्। नियतपूर्ववर्तित्वे सति अनन्यथासिद्धत्वमत्रअनन्यथासिद्धत्वस्य विशेष्यत्वात् नियतपूर्ववर्तित्वस्य विशेषणत्वमित्यपि वक्तुं [179 B] शक्यते एव इति विशेषणत्वेनोपस्थितस्य नियतपूर्ववर्तित्वस्य निराकाङ्क्षत्वेन कथं शास्त्रेणान्वयः स्यादित्यस्वरसादाह - अस्तु वेति टीका / तदनुरोधादिति टीका / तत्त्वज्ञानान्निःश्रेयसाधिगमः इत्यत्र तत्त्वज्ञानादिति पञ्चम्यनुरोधात् नियतपूर्ववर्तित्वमात्र एव पञ्चम्याः शक्तिः / तथापीति टीका / यद्यपि नियतपूर्ववर्तित्वे शक्तिः तथापि धूमादिति पञ्चम्यर्थस्य नियतपूर्ववर्तित्वस्य धूमे अनन्वयात्, अतीतधूमादौ व्यभिचारात् / उक्तज्ञापकत्वे लक्षणायां सुविभक्तौ इत्युक्तदोषप्रसङ्गात् / ज्ञापकत्वेऽपि पञ्चम्याः शक्तौ नानार्थत्वं स्यात्, नानार्थत्वे तु प्रमाणाभावादित्यत आह -