________________ 356 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञापकत्वमप्यर्थ इति नानार्थत्वम्, नानार्थत्वकल्पने प्रमाणाभावात् / तथा च “अन्याय्यं चानेकार्थत्वम्” इति जैमिनीयसूत्रविरोधः / अस्यार्थो यथा एकार्थत्वे सम्भवति अनेकार्थकल्पनम् अन्याय्यमित्यर्थः / उभयत्र सम्बन्धकल्पनागौरवं स्यात् / तथा एकेनैव सम्बन्धेनोपपत्तौ नानासम्बन्धकल्पने प्रमाणाभावः / सैन्धवमानय इत्यादिस्थले नानार्थत्वं वर्तते [178B] | तत्र अन्याय्यं चानेकार्थत्वमिति दूषणं न लगति। कुतः ? सैन्धवपदाद् यदा अश्वत्वप्रकारको बोधो भवति तदा लवणबोधानन्तरमेव भवतीत्ययं नियमो नास्ति, अथवा यदा लवणत्वप्रकारको बोधो भवति तदा अश्वत्वप्रकारकबोधानन्तरमेव भवतीत्ययं नियमो नास्तीति तत्र द्वयोस्तुल्यबोधात् विनिगमकाभावात् अनेकार्थत्वम् / गङ्गापदादौ तुन नानार्थत्वम् / गङ्गापदवाच्यप्रवाहबोधानन्तरमेव तीरबोधात् लक्षणयैवोपपत्तौ नानार्थकल्पने प्रमाणाभाव इति भावः / अत्र तु न वा सुब्विभक्तौ लक्षणा न वा नानार्थकल्पने. प्रमाणमिति भावः / न तु हेतुत्वानुपपत्तिरेव नानार्थत्वे लक्षणायां वा मानमित्यत आह - उक्तेनैवेति टीका। प्रतिज्ञायां ज्ञानलक्षणयैवोपपत्तेः पञ्चम्यर्थहेतुत्वान्वयोपपत्तेः किमर्थं नानार्थत्वकल्पनमिति भावः / अत्राशङ्कते - न चेति टीका / तत्त्वज्ञानानिःश्रेयसाधिगमः इत्यत्र तत्त्वज्ञानशब्देन शास्त्रम्, शास्त्रस्य च मोक्षहेतुत्वाभावात् यथा प्रयोजकत्वे पञ्चमी तथा धूमादितीयमपि प्रयोजकत्वे पञ्चम्यस्तु / यथा ज्ञानं प्रति श्रवणादि कारणम्, श्रवणादिकं प्रति] पदार्थतत्त्वज्ञानं कारणम्, पदार्थतत्त्वज्ञानं प्रति साधर्म्यवैधर्म्यज्ञानं कारणम्, साधर्म्यवैधर्म्यज्ञानं . प्रति शास्त्रं कारणमिति कारणकारणत्वेन प्रयोजकत्वम्, तद्वत् प्रकृते वह्रिज्ञानं प्रति धूमज्ञानं कारणम्, धूमज्ञानं स्मरणरूपंप्रति पूर्वानुभूतधूमप्रत्यक्षं कारणम्, धूमप्रत्यक्ष प्रति] विषयत्वेन धूमः कारणमिति प्रयोजकत्वे पञ्चमी भवतु इत्याशङ्कार्थः / समाधत्ते - अनन्यथेति टीका। तथा च तत्त्वज्ञानान्निःश्रेयसाधिगमः इत्यत्रापि न प्रयोजकत्वे पञ्चमी किन्तु हेतुत्वे एव, हेतुत्वं नामअनन्यथासिद्धनियतपूर्वत्वम्। तथा चानन्यथासिद्धत्वांशं विहायोद्व(द्ध)रितो योऽशो नियतपूर्वत्वमानं तावदेवान्वेति नानन्यथासिद्धत्वम्, शास्त्रं तु मोक्षं प्रत्यन्यथासिद्धं तत्त्वज्ञानेन / न च व्यापारेण व्यापारोऽनन्यथासिद्ध] इति वाच्यम् / तत्त्वज्ञानं तु शास्त्रस्य व्यापारो न भवति किन्तु श्रवणादीनामेव तत्त्वज्ञानं व्यापारः / तादृशपरम्परयैवान्तरितत्वाच्छास्त्रमन्यथासिद्धम् / अयं भावः - पञ्चम्याः शक्तिरनन्यथासिद्धनियतपूर्ववर्तित्वे, तत्र विशेषणांशोऽनन्यथासिद्धत्वभागस्तं विहाय विशेष्यांशो यो नियतपूर्ववर्तित्वभागस्तस्यैवान्वयात्। यथा गौरनित्य इत्यत्र गोशब्दार्थो गोत्वविशिष्टो गौः परंगोत्वांशंपरित्यज्य विशेष्यमात्रस्यैव गोव्यक्ते: स्वरूपस्य यथाऽनित्यत्वेन सहान्वयस्तथा प्रकृतेऽपि अनन्यथांशं परित्यज्य नियतपूर्ववर्तित्वेन सहान्वयः पञ्चम्यर्थस्य इत्यर्थः / अत्राशङ्कते - न चेति टीका / तथा च [179 A] पदार्थः पदार्थेनान्वेति न तु तदेकदेशेनेति व्युत्पत्तेः / तेन पदार्थोऽनन्यथासिद्धनियतपूर्ववृत्तित्वरूपो विशिष्टोऽस्ति / तस्यैकदेशो नियतपूर्ववृत्तित्वम्, तेन सह कथमन्वयः स्यात् ? अतएव गौर्नित्या इत्यत्र गोत्वस्य नित्यत्वेऽपि नित्यत्वेन सहगोत्वस्य