________________ हेतुनिरूपणम् 355 तटस्थतया ज्ञानान्तरेण प्रधानतयोपस्थिते रक्तरूपे आकाङ्क्षा अथवा यद्वी(द्धि) येन विना न भासते तद्बोधस्य तद्बोधनियमात् / तथा च रक्तरूपवत उपस्थितिः रक्तरूपेण विना न सम्भवति इति कृत्वा रक्तरूपेऽप्याकाङ्क्षा, तदा पञ्चम्यर्थो हेतुत्वमन्वितं भविष्यत्येवेति, तदा प्रकृतेऽपि तुल्यम् / तथाहि धूमज्ञानस्योपस्थितिधूमेन विना न सम्भवतीति धूमस्याप्युपस्थितिर्वर्तत एव धूमेऽप्याकाङ्क्षावशाद् व्याप्त्याद्यन्वयो भविष्यत्येव / यद्वी(द्धि) येन विनेति न्यायं प्रकृते योजयति - तद्विषयकज्ञानस्येति टीका। धूमविषयकज्ञानस्य तन्निरूपणाधीननिरूपणत्वेन धूमनिरूपणाधीननिरूपणत्वेन धूमज्ञानाधीनज्ञानत्वेन धूमज्ञानोपस्थिताववश्यं धूम उपस्थितो भवत्येव / तथा चोपस्थितेधूमे पञ्चम्यर्थहेतुत्वान्वयो भविष्यत्येव / तेन चव्याप्त्याद्यन्वयोऽपिधूमे भविष्यत्येव। अत्रैवोपोद्वलकमाह - अतएवेति टीका।बहुव्रीहिसमासे लम्बकर्णमानयइत्यादौ न केवलमन्यपदार्थलक्षणया शुद्धस्यान्यपदार्थस्य भानं किन्तुलम्बकर्णयोरप्युपस्थित्या[178AJलम्बकर्णविशिष्टव्यक्तिभानम्, तथा प्रकृतेऽपिधूमसम्बन्धिज्ञानभाने धूमपस्थितिरवश्यं वाच्या। उपस्थितायां च धूमव्यक्तौ व्याप्त्याद्यन्वयो भविष्यतीत्यर्थः / अत्राशङ्कते - नन्विति टीका / यद्यपि धूमपदेन धूमज्ञानमुपस्थितं विशेषणतया धूमोऽप्युपस्थितस्तथापि धूमस्य ज्ञानविशेषणत्वान्न गमकत्वान्वयः स्यात्, धूमे गमकत्वान्वयो न स्यात्। किन्तु धूमज्ञानस्यैव विशेषणस्य निराकासत्वाद् विशेष्यमेव साकाझं धूमज्ञानमेव साकाङ्क्षम् / यथा दण्डी आगत इत्यत्र आगमनान्वयो देवदत्त एव न तु दण्डे तद्वत् धूमज्ञान एवाकाङ्क्षा न तु धूमे इत्याशङ्कार्थः / उत्तरमाह - इष्टापत्तेरिति टीका / गमकत्वं यदि ज्ञानजनकत्वमात्रं तदा तत्रैव धूमज्ञाने एव वह्रिज्ञानजनकत्वं वर्तते, अतो धूमज्ञान(ने) गमकत्वाकाङ्क्षा / ननु तर्हि यो यो धूमवान् इत्युदाहरणं व्यर्थं स्यात् इत्यत आह - तथा चेति टीका ! तथा च कथं धूमज्ञानस्य गमकत्वमिति, व्याप्यधूमविषयतयेति, योग्यतया भासमाने ज्ञाने सति, तच्च धूमे व्याप्तिप्रदर्शनं विना न सम्भवतीति व्याप्तिप्रदर्शनार्थमुदाहरणमपि सङ्गच्छते / न तु गमके व्याप्त्याकाङ्क्षा, गमकं तु धूमज्ञानमेवेति कृत्वा धूमज्ञान(ने) व्याप्तिः प्रदर्शनीया स्यात् न तुधूमे इत्यत आह - अस्तु वेति टीका। अस्तु वा धूमरूपे लिङ्ग एव गमकत्वाकाङ्क्षा / ननु विशेषणत्वेनोपस्थिते धूमे कथं गमकत्वाकाङ्क्षा स्यादित्यत आह - तथा चेति / तथा च क्वचिद् विशेषणत्वेनोपस्थितेऽपि आकाङ्क्षा वर्तते एव / यथा स्वर्गात् ध्वस्तः इत्यत्र विशेषणत्वेनोपस्थितस्य स्वर्गस्यापि ध्वंसान्वयस्तथा प्रकृते विशेषणत्वेनोपस्थिते धूमे गमकत्वान्वयो] भविष्यतीत्यर्थः / परोक्तं खण्डयति - यथोक्तमिति टीका / तथा च पूर्वमुक्तं पञ्चमी हेतुतायां न किन्तु ज्ञापकत्वे पञ्चमी इति तद् दूषयति - हेतुत्वशक्ताया इति टीका। धूमादिति पञ्चमी हेतुत्वे शक्ता, तस्या यदिज्ञापकत्वे शक्तिस्तदा पञ्चम्या नानार्थता स्यात्। लक्षणायां तु सुब्विभक्तौ लक्षणा नास्तीति दोषः / एतदेवाह - सुबिति टीका / तदिति / लक्षणानुपपत्तेः पूर्वोक्तव्यत्ययानुशासनवैयर्थ्यादिति भावः / ननु ज्ञापकत्वे पञ्चम्याः शक्तिरेवास्तु इत्यत आह - नानार्थेति टीका / तथा च पञ्चम्या हेतुत्वमप्यर्थो