________________ हेतुनिरूपणम् 353 अत्राशङ्कते - न चेति टीका। तथा च धूमपदस्य ज्ञाने लक्षणा किमर्थं कर्तव्या ? शब्दप्रयोगा(गः) स्वाधीनः, तथा च धूमादिति [कृ]त्वा धूमज्ञाने लक्षणा वक्तव्या, ततस्तदपेक्षया धूमज्ञानादिति शब्दप्रयोग एव कार्य इत्याशङ्कार्थः / समाधत्ते - कटमिति टीका / कटं करोति इतिवत् निरूढलक्षणया ज्ञानलाभात् धूमज्ञानलाभात् / यथा कटं करोति इत्यत्र कृधातुना कृतरुपस्थितिः, कृतेराश्रयत्वं न कटेऽस्ति कटस्यासिद्धत्वात्, कृतेस्तु सिद्धविषयत्वम् असिद्धोत्पादकत्वं तथा चसिद्धविषयिण्या कृत्याऽसिद्धमुत्पाद्यते।यथा कपालविषयकमपरोक्षज्ञानं कुलालस्य पूर्वमुत्पद्यते / तदनन्तरं घटविषयिणी चिकीर्षोत्पद्यते कपालेन घटं साधयामीति / तदनन्तरं कपालविषयकः प्रयत्नः कुलाले उत्पद्यते। येन कपालग्रहणं करोति स कपालविषयकः प्रयत्नः / तेन प्रयत्नेन घटः उत्पाद्यते, स चासिद्ध उत्पाद्यते। तथा च कपालविषयिण्या कृत्या घट उत्पाद्यते। एवं कटावयवविषयिण्या कृत्या कटोऽसिद्ध उत्पाद्यते। कृतिविषयता कटावयवे तिष्ठति परं न कटे, तेन कटं करोतीति प्रयोगः स्यात् / ननु कटं करोतीति प्रयोगः ततो यथाऽत्र निरूढलक्षणयाऽयं प्रयोगः, निरूढलक्षणा च प्रयोजनशून्या लक्षणाऽनादितात्पर्यमूलका यत्र सावधिकं तात्पर्यं नास्ति / सदाऽयमेव प्रयोगः यथा कर्मणि कुशलः इत्यत्र निरूढलक्षणा व्यङ्ग्यप्रयोजनाभावात् / अत एव निरूढशक्तितुल्या मुख्यार्थस्य कटस्य बाधात् कटावयवे लक्षणा। ततः प्रकृते धूमे हेतुत्वस्य बाधितत्वात् धूमज्ञाने निरूढलक्षणा / उपाध्यायमतमाशङ्कते - नन्विति टीका / धूमपदे यदि ज्ञानलक्षणा तदा वृत्तिद्वयविरोधः / तथाहि लक्षणया एकस्मादेव धूमपदात् धूमज्ञानस्योपस्थितिः शक्त्या च धूमपदात् धूमस्योपस्थितिः / तथा च सकृदुच्चरितपदस्य सकृदर्थप्रत्यायकत्वनियमात् एकेन एकदा धूमपदेन शक्त्या धूमस्यैवोपस्थितिः कर्तव्या न तु लक्षणया [177 A] धूमज्ञानस्याप्युपस्थितिः, एवं लक्षणया यदा धूमज्ञानस्योपस्थितिः क्रियते तदा न शक्त्या धूमस्योपस्थितिः / तत्र युगपद् एकदा वृत्तिद्वयविरोधः शक्तिलक्षणारूपवृत्तिद्वयविरोधः। एवं तर्हि धूमपदे निरूढलक्षणया यदिधूमज्ञानमुपस्थितः तदाधूमोपस्थितिः शक्त्या न स्यात् / ननु मास्तु तदा धूमस्योपस्थितिधूमज्ञानस्यैवोपस्थितिसम्भवादित्यत आह - तथा चेति टीका / अनुपस्थितेधूम(मे) व्याप्याकाङ्क्षा न स्यात् यथा धूमो व्याप्य इत्याकाङ्क्षा न स्यात् किन्तु धूमज्ञानमेवोपस्थितमिति कृत्वा धूमज्ञान एव गमकत्वाकाङ्क्षा स्यात् / एवं धूमज्ञानस्योपस्थितत्वात् शक्त्या धूमस्यानुपस्थितत्वात् तत्रोदाहरणवाक्येन व्याप्त्यादिकं न प्रदर्येत / तदा धूमज्ञान(ने) व्याप्त्युपदर्शकत्वं स्यात् / तथा च व्याप्त्यादिकं धूमा(म)ज्ञान एवप्रदर्खेत।ननु धूमपदात् यदि निरूढलक्षणयाधूमज्ञानमुपस्थितं तदा ज्ञाने वह्निनिरूपितव्याप्त्याद्यभावात् धूमपदेन ज्ञानविशेषणत्वेनोपस्थिते धूमे एव व्याप्त्यन्वयो भविष्यति सविशेषणे हीति न्यायात्। तथाहि वह्निनिरूपितंव्याप्त्यादिकमुदाहरणवाक्येनप्रतिपाद्यमानंधूमपदेनोपस्थितेधूमज्ञाने ज्ञानरूपे विशेष्ये व्याप्त्यादिकं बाधितमिति कृत्वा विशेषणे धूमे एव व्याप्त्यादिकमन्वितं भविष्यतीति नोक्तदोष इत्यस्वरसादाह - किञ्चेति