________________ 352 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका हेत्ववयवत्वम्। तथा च पर्युदासनबादिलाक्षणिकपदवदवयवान्तरे पूर्वोक्तोदाहरणे तादृशलाक्षणिकपदनियतानुमितिपरशब्दत्वं नास्तीति न तत्रातिव्याप्तिः / नन्वेवं लाक्षणिकपदनियतानुमितिपरशब्दत्वमेव हेत्ववयवत्वं कुतः इत्यत आह - अन्यथेति टीका / अन्यथा यदि लाक्षणिकपदनियतानुमितिपरशब्दत्वं हेत्ववयवत्वमेवं विवक्षा न क्रियते तदा पञ्चम्यन्तपदे दत्तेऽपि उदाहरणविशेषेऽतिव्याप्तिः स्यादेव। तथाहि पर्वतो वह्निमान् धूमात् इत्यनुमानमेकम्, अनुमानान्तरं यथा शब्दो गुणः सामान्यवत्त्वे सति अस्मदादिबाह्यकरणप्रत्यक्षत्वात् धूमादिति हेत्ववयवशब्दवत् इत्युदाहरणावयवेऽतिव्याप्तेः वज्रलेपत्वात् / अत्राशङ्कते - न चेति टीका / धूमवत्त्वादिति। हेत्ववयवो यत्र दृष्टान्तत्वेनोपादीयते तत्रातिव्याप्तिर्न भवति इत्याह - प्रकृतेति टीका। प्रकृतसाध्येति। प्रकृतं यत्र यत् साध्यं तत्प्रतियोगिकं यत् हेतुपञ्चम्यन्तं लाक्षणिकपदवत् अनुमितिपरशब्दत्वम्, यत्र चधूमादिति हेत्ववयवो दृष्टान्तत्वेनोपादीयते तत्र प्रकृतसाध्यप्रतियोगिको धूमादिति हेतुर्न भवति / प्रकृतसाध्यं गुणत्वं तत्प्रतियागिकं हेतुपञ्चम्यन्तं न भवतीति न तत्रातिव्याप्तिरित्यर्थः / दूषयति - तत्प्रतियोगिकेति टीका। घटशब्दो गुणः द्रव्यकर्मान्यत्वे सति सत्त्वात् / यत्र यत्र द्रव्यकर्मान्यत्वे सति सत्त्वं तत्र तत्र गुणत्वं यथा द्रव्यकर्मान्यत्वे सति सत्त्वादिति हेत्ववयववत् इत्यत्र हेत्ववयव एव दृष्टान्तत्वेनोपादीयते। ततोऽत्रातिव्याप्तिः स्यादेव, लाक्षणिकपदवत्प्रकृतसाध्यप्रतियोगिकहेतुपञ्चम्यन्तानुमितिपरशब्दत्वमस्त्येव, तस्मात् लाक्षणिकपदवत्त्वेन लाक्षणिकपदवह्नि(ह्निः) यत(तः) [तद्वात्त्वमेव वक्तव्यम् / तेन न तथाविधोदाहरणेऽतिव्याप्तिः / तथा च यदि प्रतिज्ञायां लक्षणा नास्ति तदाऽवयवान्तरस्य लाक्षणिकपदनियतत्वाभावात् तेनैवातिव्याप्तिवारणे पञ्चम्यन्तपदं व्यर्थं स्यादित्यभिप्रायः ततः प्रतिज्ञायामपि साध्यज्ञानलक्षणा अवश्यं वक्तव्या इत्युक्तम् / दूषयति - तत्रेति / पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरशब्दत्वमित्येव यथाश्रुतंयुक्तमित्याह - उदाहरणेति टीका। तेन घटशब्दो गुण इत्यादौ हेत्ववयव एव यत्र दृष्टान्तत्वेनोपादीयते तत्र उदाहरणांशविषयीभूतस्य द्रव्यकर्मान्यत्वे सति सत्त्वात् इत्यंशस्य हेत्ववयवत्वे इष्टापत्तिः, एतावानंशो हेत्ववयवोभवत्येवेति।नचैवंद्रव्यकर्मान्यत्वे[176B] सतिसत्त्वादितिशब्दवदित्येतस्य सम्पूर्णस्य पञ्चम्यन्तत्वमस्तीति। पञ्चम्यन्तत्वाभावान्न तस्य हेत्ववयवत्वप्रसक्तिरित्यर्थः / एतदेवाह - नियमविवक्षाया इति टीका / नियमविवक्षा तु क्रियते उदाहरणांशेऽतिव्याप्तिवारणाय / पञ्चम्यन्तो यदि हेत्ववयवः तदा तस्य हेत्ववयवत्वमेवेति न तत्रातिव्याप्तिरिति नियमविवक्षा व्यर्था / उत्तरग्रन्थं योजयति - हेतुपदेनेति टीका / तथा च हेतुपदेन धूमपदेन धूमज्ञाने लक्षणा, तथा च धूमादिति धूमज्ञानादित्यर्थः / ननु मूले लिङ्गस्याहेतुत्वादित्युक्तम्, तस्याहेतुत्वं कुत इत्यत आह - अतीतादाविति टीका / अतीतो धूमो हेतुः, तत्र वह्रिज्ञानं प्रति धूमस्य हेतुत्वाभावात् हेतुत्वप्रतिपादिका पञ्चमी अनन्विता स्यात्, तस्माद् यस्य वह्रिज्ञानं प्रति हेतुत्वं सम्भवति तत्रैव लक्षणा, धूमज्ञानस्य तु वह्रिज्ञानं प्रति हेतुत्वं सम्भवति, ततस्तत्रज्ञानलक्षणा इति सिद्धम् /