SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ हेतुनिरूपणम् 351 शक्योऽर्थः सम्प्रदानम्, द्वितीया सम्प्रदानत्वं बोधयितुमसमर्था, चतुर्थी कर्मत्वं बोधयितुमसमर्था / यदि च द्वितीयया शक्यार्थातिरिक्तं सम्प्रदानत्वं लक्षणया बोधयितुं शक्यते एवं चतुर्थ्याऽपि सम्प्रदानातिरिक्तं कर्मत्वं बोधयितुं शक्यते तर्हि सर्वाभिर्विभक्तिभिः स्वस्वशक्यार्थान् विहाय सर्वेऽर्थाः सर्वाभिर्विभक्तिभिः लक्षणया प्रतिपादयितुं शक्यन्त एवेति पाणिनेस्तासां तासां कासाञ्चिद् विभक्तीनां शक्यार्थं विहाय कस्मिंश्चिदेवार्थविशेषे लक्षणया प्रतिपादनार्थं विभक्तिविशेषविधानं स्यात् / तस्मात् गोपी कृष्णाय इत्यत्र चतुर्थीलक्षणया कर्मत्वं बोध्यतोऽयं नियमो न स्यात् / सर्वत्र प्रातिपदिकलक्षणयेव सुब्विभक्तिलक्षणयाऽपि ते तेऽर्थाः उपस्थिता भविष्यन्तीति तत्तत्सूत्रे लक्षणानियमोऽनर्थः स्यात् / तस्मात् पाणिनेर्यत्र लक्षणयाऽनुशासनं तत्रैव विभक्तौ लक्षणा। तथा च पाणिनिना पञ्चम्या ज्ञापकत्वमर्थो लाक्षणिकः कुत्राप्युक्तो नास्ति तादृशानुशासनाभावात् / अनुशासनाभावेऽपि यदि लक्षणा स्यात् तदा लक्षणानियमानुशासनं व्यर्थं स्यात्। ततः पञ्चम्या ज्ञापकत्वे लक्षणा नास्तीति / अथ पञ्चम्या ज्ञापकत्वं शक्य एवार्थोऽस्तु इत्यत आह - एकार्थत्वेति / तथा चान्याय्यं चानेकार्थत्वमिति जैमिनीयसूत्रेण विरोधः / एतदर्थो यथा एकस्य शब्दस्य प्रयोजनव्यतिरेकेणानेकार्थत्वं न सम्भवति। एकार्थत्वे सम्भवत्यनेकार्थत्वायोगात् / तथा च पञ्चम्या ज्ञापकत्वं शक्योऽर्थो न भवति, हेतुत्वमेव शक्योऽर्थः / नन्वेवं प्रतिज्ञायां साध्ये ज्ञानलक्षणा स्वीक्रियते तदा पूर्वोक्तमुद्देश्येत्यादि प्रतिज्ञालक्षणं दुष्टं स्यात् इत्यत आह - प्रतिज्ञालक्षणमिति टीका। तथा च प्रतिज्ञायां ज्ञानलक्षणासत्त्वेऽपि लाक्षणिकबोधात् पूर्वं यः वाक्यार्थबोधस्तमादायैव प्रतिज्ञालक्षणं ज्ञेयं पर्वते वह्रिरित्येव, लक्षणापक्षे तु पर्वतो वह्निमत्तया ज्ञातव्य इति / मतान्तरमाशङ्याह - यत्त्विति टीका / यदि च प्रतिज्ञायां ज्ञानलक्षणा नास्ति तदा हेत्ववयवलक्षणे पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरशब्दत्वमित्यत्रपञ्चम्यन्तपदं व्यर्थं स्यात्लाक्षणिकपदवदनुमितिपरशब्दत्वमित्येवास्तु पञ्चम्यन्तपदं. व्यर्थम् / प्रतिज्ञायामतिव्याप्तिर्नास्ति तत्र लाक्षणिकपदत्वाभावात् / अतः पञ्चम्यन्तपदं व्यर्थं स्यादित्यर्थः / अत्राशङ्कते -नचेति टीका। पर्युदासनअन्योन्याभाव एव। यथाऽसुराअविद्या इत्यादौ।अत्रासुरा इत्युच्यमाने सुराणामत्यन्ताभावो न प्रतीयते किन्तु सुरविरुद्धा एव, ब्राह्मणोऽब्राह्मणभिन्नः, एवं समस्तो नञ्स पर्युदासः / असमस्तस्तु निषेधवाचकः यथा चैत्रो न पचतीत्यादि / तथा प्रकृते लाक्षणिकपदवदावायवान्तरे यद् उदाहरणं तत्रातिव्याप्तिवारणार्थं हेतुलक्षणे पञ्चम्यन्तपदम् / तथाहि - अयं [176 A] स्नानसन्ध्याद्ययोग्यः अपठितवेदत्वात् अब्राह्मणवत् इत्यत्र उदाहरणे अब्राह्मणवदिति यत् पदं तल्लाक्षणिकपदवदनुमितिपर: शब्दो भवति। कथम् ? यतोऽत्र ब्राह्मणभेदो नअर्थः, स तु शक्यः, तद्वान् लक्ष्योऽर्थः शूद्रादिः / तथा च पर्युदासनञ्पदं लाक्षणिकपदम्, तद्वदुदाहरणम्, तत्रातिव्याप्तिवारणार्थं पञ्चम्यन्तपदम् / दूषयति - लाक्षणिकेति टीका / तथा च हेत्ववयवलक्षणं न केवलं लाक्षणिकपदवदनुमितिपरशब्दत्वं किन्तु लाक्षणिकपदनियतानुमितिपरशब्दत्वं
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy