________________ 350 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका लाक्षणिकपदवत्त्वमेव नास्ति कथं तत्रातिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - साध्यस्येति टीका। तथा च साध्यस्य वर्हेतुवाक्यार्थेन सह जन्यजनकभावलक्षणो यो वाक्यार्थः स न सम्भवति तथा च धूमादिति पञ्चम्या अर्थो जनकत्वं तन्निरूपकत्वं वह्नौ नान्वितम् / कुत [175 A] इत्यत आह - तस्येति टीका / साध्यस्य वहेरित्यर्थः / तदकार्यत्वात् धूमाकार्यत्वात् इत्यर्थः / उपाध्यायमतमाह - अत्राहुरिति टीका। न हीति टीका। न हि पञ्चम्याः कारकत्वम् अर्थः किन्तु ज्ञापकत्वम् / तथा च प्रतिज्ञार्थस्तु लक्षणं(णां) विना शक्यार्थ एव / पञ्चम्यर्थस्तु ज्ञापकत्वम्, तच्च तत्र वह्नौ अन्वितं भविष्यत्येव, तेन हेतावेव लक्षणा, प्रतिज्ञावाक्ये लक्षणा नास्ति। तथा च लाक्षणिकपदवत्त्वं प्रतिज्ञायां नास्तीति न तत्रातिव्याप्तिः, तेन पञ्चम्यन्तपदं व्यर्थमेव / एतदेवाह - साध्येति टीका / तथा च साध्यनिर्देशानन्तरं न कारणमात्रस्याकाङ्क्षा किन्तु प्रमाणस्याकाङ्क्षा, यथा पर्वतो वह्निमान् कुतः . प्रमाणादिति प्रमाणाकाङ्क्षायां धूमात् इति हेतुवाक्यस्य प्रयोगात् / पञ्चम्या ज्ञापकत्वमेव प्रतिपाद्यते, यथा वह्नेः धूमो ज्ञापक इति / तथा च धूमपदलक्षणया प्रकृत्योपस्थापितो धूमः, प्रत्ययः पञ्चमीङसिस्तयोपस्थापितं ज्ञापकत्वं तत्र साध्यस्य विषयत्वेन ज्ञाप्यत्वेन ज्ञानविषयत्वेनेति यावत् / तथा च प्रतिज्ञायां न साध्यपदे वढ्यादिरूपे ज्ञाने लक्षणा। अत्रैवोपोद्वलकं प्राह - अत एवेति टीका / यतः पञ्चम्या ज्ञापकत्व एव लक्षणा अत एव पञ्चम्या विभक्त्या ज्ञापकत्वमुपस्थाप्यते / यदि च प्रतिज्ञायां साध्यपदे ज्ञानलक्षणा स्यात् तदा दोषमाह - उद्देश्येति टीका / यदि च प्रतिज्ञायां साध्ये ज्ञानलक्षणा स्यात् तदा उद्देश्यानुमितीत्यादि पूर्वोक्तं प्रतिज्ञालक्षणं न स्यात्।अनुमितिस्तुपक्षतावच्छेदकसाध्यसामानाधिकरण्यावगाहिनीपर्वतो वह्निमान् इति रूपा। प्रतिज्ञायामधिकं ज्ञानं च तव मतेऽधिकं भासते इति कृत्वा अनुमित्यन्यूनानतिरिक्तता नास्ति किन्तु अधिकमपि ज्ञानं भासते, ततः प्रतिज्ञालक्षणं गङ्गेशकृतमयुक्तं स्यात्। एतदेवाह - अन्यथेति टीका। तथा च प्रतिज्ञायां साध्यज्ञानमपि भासते, अनुमितौ तु साध्यज्ञानं न भासते किन्तु साध्यमेव भासते। तथा चातिरिक्तविषयत्वमेव जातम्, अतः प्रतिज्ञायां साध्ये ज्ञानलक्षणा नास्ति इत्युपाध्यायाः / यज्ञपत्युपाध्याया वदन्ति - तथा च पञ्चम्यर्थो ज्ञापकत्वम्, तथा च हेतुवाक्य एव ज्ञापकत्वे पञ्चम्या लक्षणा / ननु प्रतिज्ञायां साध्ये ज्ञानलक्षणेत्युक्तम् / एतन्मतं दूषयति - अत्र वदन्तीति टीका।पञ्चम्या ज्ञापकत्वे शक्तिर्वा लक्षणा वा। तत्रनान्त्य इत्याह - सुबिति टीका।सुब्विभक्तौ लक्षणा नास्ति, अन्यथा व्यत्ययानुशासनवैयर्थ्यं स्यात्। यथा “श्लाघढुङ्स्थाशपांज्ञीप्स्यमानः" [पाणिनिसूत्र 1.4.34] श्लाघादेरी (ज्ञी)प्स्यमानोऽर्थः सम्प्रदानस्यात्। एवं "स्पृहेरीप्सितः" [पाणिनिसूत्र १.४.३६]अत्रापि स्पृहेरीप्सितोऽर्थः सम्प्रदानं स्यात् / इत्यत्र कर्मत्वबोधनार्थं चतुर्थी प्रोक्ता वस्तुगत्या सम्प्रदानत्वं नास्ति इति कृत्वा सम्प्रदानसंज्ञायां कृतायां सम्प्रदानसंज्ञा प्रयोजनचतुर्थी विहिता तथा च यदि सुब्विभक्तौ लक्षणा स्यात् तदा पाणिनेस्तत्रानुशासने लक्षणानियमो न स्यात् / तथाहि द्वितीयायाः [175 B] शक्योऽर्थः कर्मत्वम्, चतुर्थ्याः