________________ हेतुनिरूपणम् 349 सप्तमीबलादिति टीका। यत्र सतिसप्तमीमहिम्ना यत्र सतिसप्तमीभवति तत्र विशिष्ट एवार्थो भवति यथा दण्डे सति कुण्डलवान् समागतः इत्यत्र दण्डविशिष्टः कुण्डलवान् आगत इति विशिष्टप्रत्यय एव भवति तद्वत् अत्रापि सामान्यवत्त्वविशिष्टास्मदादिबाह्यकरणत्वरूपोयो विशिष्टोऽर्थः तत्रैवपञ्चम्यर्थविभक्त्यर्थस्यान्वयः। विशेष्यमात्र इति टीका। बाह्यप्रत्यक्षत्वमात्रे इत्यर्थः / मतान्तरमुत्थाप्य दूषयति - यत्त्विति। प्रतिज्ञावाक्यधीजन्यकारणाकाङ्गानिवर्तकज्ञानजनकत्वमात्रे धूमो यत इत्यनवयवरूपे वाक्येऽतिव्याप्तिवारणार्थं हेतुविभक्तिमदिति पदम् / कथमनेन तद्वारणमित्यत आह - न हीति टीका / तथा च न हि पञ्चम्यन्तमात्रेण तत्राकाङ्क्षानिवृत्तिः किन्तु प्रथमान्तपञ्चम्यन्ताभ्यामेवाकाङ्क्षानिवृत्तिः / तथा हि धूम इत्युक्तेऽप्याकाङ्क्षा न निवर्तते / यत इति पञ्चम्यन्ते शक्तेऽपि नाकाङ्क्षानिवृत्तिरत उभाभ्यामेवैताभ्यामाकाङ्क्षानिवृत्तिः / तथा च हेत्ववयवे [174B] केवलपञ्चम्यन्तमात्रेणाकाङ्क्षानिवृत्तिरनवयववाक्ये तु द्वाभ्यामेवेति तन्निरासः। दूषयति - तस्येति टीका / धूमो यत इति वाक्यं हेत्ववयवरूपं न भवति चेत् तदा पूर्वदलमेव नास्ति। न हि उदासीनेनानेन वाक्येन प्रतिज्ञावाक्यधीजन्यकारणाकाङ्गानिवर्तकज्ञानजनकत्वं नास्ति तथा च तत्रपूर्वदलाभावादेव तत्र नातिव्याप्तिः। अवयवत्वेचेति टीका। तथा च धूमो यत इति वाक्यस्य यदि ह(हे)त्ववयवरूपत्वं तदा तद्वारणमेव न सम्भवति तस्य लक्ष्यत्वादेव / लक्षणान्तरमाचष्टे - पञ्चम्यन्तेति टीका / तथा च पञ्चम्यन्तश्लाक्षणिकपदवत्रअनुमितिपरवाक्य३त्वमिति लक्षणे तृतीयपदस्य कृत्यमाह - न्यायेति टीका / तथा च न्यायाप्रविष्टहेतुसदृशवाक्ये उदासीनवाक्येऽतिव्याप्तिवारणायानुमितिपरेति पदम् / तेन कथं तद्वारणमित्यत आह - न्यायप्रविष्टेति / तथा चोदासीनवाक्यं न्यायप्रविष्टं न भवतीति भावः / लाक्षणिकपदस्य कृत्यमाह - निगमनेति मूलम्। निगमने तस्मात् वह्निमान् इति रूपे लाक्षणिकपदत्वं नास्ति / ननु तत्रापि वक्ष्यमाणानुपपत्त्या लिङ्गस्याहेतुत्वरूपया तस्मादिति तच्छच्देऽपि ज्ञानलक्षणाऽवश्यं वक्तव्या। यथा वह्रिज्ञानं प्रतिधूमादिति अर्थस्य हेतुत्वं नास्ति किन्तुधूमज्ञानस्येतिधूपमदस्य धूमज्ञाने लक्षणा तद्वत् तस्मादिति शब्दार्थेऽपि वह्रिज्ञानं प्रति हेतुत्वमनुपपन्नमिति कृत्वा तत्रापि लक्षणाऽवश्यं वक्तव्येत्यत आह - सर्वनाम्नश्चेति टीका / तथा च धूमपदेन धूमज्ञानं लक्षणयोपस्थाप्यते धूमपदस्य धूमे शक्तत्वात् धूमज्ञाने लक्षणैव परं तत्पदस्य बुद्धिस्थवाचकतया बुद्धिस्थे शक्तिस्तथा धूमज्ञानमपि बुद्धिस्थमिति कृत्वा तत्पदेन धूमवत् धूमज्ञानमपि शक्त्यैवोपस्थापितं तथा च तत्र लक्षणा नास्ति कथं लक्षणावत्पदत्वं निगमने इति कृत्वा तत्र नातिव्याप्तिः / एतदेवाह - लक्षणाया इति टीका / पञ्चम्यन्तेति पदस्य कृत्यमाह - प्रतिज्ञाया इति टीका / तथा च पर्वतो वह्रिमान् इति प्रतिज्ञायां लाक्षणिकानुमितिपरशब्दत्वं वर्तते यतः पर्वतो वह्रिमान् वह्रिमत्तया ज्ञातव्य इत्यत्रापि ज्ञानलक्षणाऽस्त्येव तन्निरासाय पञ्चम्यन्तेति / तथा च प्रतिज्ञावाक्ये पञ्चम्यन्तत्वं नास्तीति न तत्रातिव्याप्तिः / शङ्कते - नचेति। तत्रेति टीका। प्रतिज्ञायाम्। तथा च प्रतिज्ञायां लक्षणाया अभावेन