________________ 348 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वयवभिन्नत्वपर्यवसन्नोऽर्थः / अथ हेतुपञ्चम्येति पदस्य कृत्यमाह - उदाहरणेति टीका / यो धूमवान् स वह्निमान् इत्युदाहरणेऽतिव्याप्तिवारणाय हेतुपञ्चम्यन्तेति पदम् / तथा चोक्तोदाहरणवाक्ये हेतुपञ्चम्यन्तत्वं नास्तीति नातिव्याप्तिः / अनुमितिपरेति पदस्य कृत्यमाह - उदासीनवाक्येति टीका / तथा चाप्तवाक्ये धूमादितिरूपे साध्याविषयकज्ञानजनकहेतुपञ्चम्यन्तत्वं वर्तते परंहेत्ववयवत्वंतत्रनास्तीतिअतिव्याप्तिस्ततस्तद्वारणायानुमितिपरशब्दत्वं न्यायावयवत्वमित्यर्थः / ननु अनुमितिपरशब्द इत्यनेन न्यायावयवत्वमुच्यते तथा चोदाहरणांशे यो धूमवान् इत्यंशेन्यायावयवत्वमेव नास्तिइति कृत्वा हेतुपञ्चम्यन्तपदं व्यर्थमित्यत आह-न्यायप्रविष्टेति टीका। तथा चानुमितिपरशब्दस्यार्थे न्यायप्रविष्टवाक्यत्वमित्यर्थः, एवं तेनोदाहरणे न्यायप्रविष्टवाक्यत्वंवर्ततएवेत्यतिव्याप्तिवारणार्थं हेतुपञ्चम्यन्तेति पदम् / अथवा हेतुपञ्चम्यन्तपदवैयर्थ्यास्वरसादाह - यद्वेति टीका / तथा च लक्षणद्वये तात्पर्यम् / तथाहि - लक्षणद्वयमेव विवृणोति / तथा चेति टीका / तथा च साध्याविषयकज्ञानजनकन्यायावयवत्वमित्येकंलक्षणम्।हेतुपञ्चम्यन्तेन्यायावयवत्वमितिद्वितीयम्। प्रथमलक्षणे न्यायावयवत्वमात्रं प्रतिज्ञायामतिव्याप्तमत आह - साध्याविषयकज्ञानजनकेति पदम् / साध्याविषयकज्ञानजनकत्वं प्रतिज्ञायां नास्ति, तस्याः साध्यविषयकत्वात् / साध्याविषयकज्ञानजनकत्वमात्रमुदासीनवाक्येऽतिव्याप्तमत आह - न्यायावयवत्वपदम्। द्वितीयलक्षणं न्यायावयवत्वमात्र[174A]प्रतिज्ञायामतिव्याप्तमत आह - हेतुपञ्चम्यन्तेति / तावन्मात्रं हेतुपञ्चम्यन्तमात्रमुदासीनवाक्येऽतिव्याप्तमत आह - न्यायावयवत्वपदम् / ननु पूर्वोक्तलक्षणेन मूलोक्तेन सदेहं पुनरुक्तमित्यत आह - पूर्वमिति टीका। तथा च पूर्वमूललक्षणे हेतुपञ्चम्यन्तत्वं नोक्तम् अत्र तु हेतुपञ्चम्यन्तत्वमुक्तम् इति भेदः / ननु प्रतिज्ञेत्यादिमूललक्षणे उदासीनवाक्येऽतिव्याप्तिवारणं कथं स्यादित्यत आह - उदासीनस्येतिटीका। तथा चयद्यपिउदासीनवाक्ये हेतुविभक्तिमद्वाक्यत्वंवर्तते तथापिप्रतिज्ञावाक्यजन्या याधीः तज्जन्यायाकारणाकाङ्क्षा नाम हेत्वाकाङ्क्षा तन्निवर्तकज्ञानजनकत्वंनास्तीतिन तत्रोदासीनवाक्येऽतिव्याप्तिः / अत्रलक्षणे उत्तरदलस्य कृत्यमाह- सामान्यवत्त्वेसतीति टीका। तथाचसामान्यवत्त्वेसतीति हेत्ववयवावयवेत्यत आह - परम्परयेति टीका / परम्परा यथा सामान्यवत्त्वे सतीति विशेषणज्ञानात् पञ्चम्यन्तत्वरूपविशिष्टज्ञानम्, तेन विशिष्टज्ञानेनोक्ताकाङ्क्षानिवृत्तिरिति विशेषणज्ञानस्यापि उक्ताकाङ्क्षानिवर्तकत्वमस्त्येवेति कृत्वा तत्रातिव्याप्तिः तद्वारणार्थं हेतुविभक्तिमत्त्वं विशेषणम् / ननु तथापि सामान्यवत्त्वे सतीति हेत्ववयवावयवे हेतुविभक्तिमत्समभिव्याहृतत्वं वर्तत एवेत्यत आह - हेतुत्वेति टीका / तथा च हेतुत्वेनान्वितो य एकार्थो विशिष्टोऽर्थः तत्प्रतिपादकवाक्यत्वमित्यर्थः / एतत् कथं हेत्ववयवावयवे नास्तीत्यत आह - हेत्ववयवेति टीका / सामान्यवत्त्वे सतीत्येवंरूपस्य तथात्वाभावात् हेतुत्वान्वितैकार्थावच्छिन्नवाक्यत्वाभावादित्यर्थः / हेतुत्वान्वितैकार्थावच्छिन्नवाक्यत्वं तु विशिष्ट एवेति भावः / एतदेव विवृणोति - सामान्यवत्त्वे सतीति टीका /