________________ हेतुनिरूपणम् 347 प्रत्यक्षत्वात् इत्यत्रान्त्यदलेऽतिव्याप्तिः, तत्रापि हेतुमद्विभक्तिमत्त्वं वर्तते परं हेत्ववयवत्वं नास्ति / सम्पूर्ण एव हेतुरतः शाब्दपदम् / तथा च शब्दपदेन तस्य कथमतिव्याप्तिवारणाय अत आह - तथा चेति टीका / ततः शब्दाधिक्यादर्थाधिक्यमिति न्यायेन यावच्छब्दावच्छेदेन हेतुत्वप्रतिपादकविभक्तिसमभिव्याहारस्तावदवच्छिन्नशब्दत्वं विवक्षितम्। तत्प्रकृते उक्ते विशिष्टे हेतौ योजयति- प्रकृतेचेति टीका। तथा चसतिसप्तमीबलात् विशिष्टे चेत् हेतुत्वमन्वेति तदा हेतुत्वप्रतिपादिका या विभक्तिः पञ्चमी सा तस्याः समभिव्याहारो विशिष्टप्रतिपादकशब्द एव विभक्तेः समभिव्याहारः सतिसप्तम्या विशिष्टमेवोपस्थाप्यते।अन्यथा हेतुप्रतिपादकविभक्तिमच्छब्दत्वमन्त्यभागे उक्तरूपे तिष्ठत्येवेत्यतिव्याप्तिः स्यात्, यथाक्ते तु न सम्भवत्येवेत्यर्थः / ननु हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं हेत्ववयवत्वमित्युक्तेऽपि अस्मदादीति अन्तिमभागेऽतिव्याप्तिस्तदवस्थैवेति अतो व्याचष्टे - न्यायावयवत्वावच्छेदकेति टीका / तथा च न्यायावयवत्वावच्छेदकावच्छेदेन हेतुत्वप्रतिपादकविभक्तिमत्त्वं विवक्षितमन्तिमभागे तु पूर्वोक्ते तावन्मात्रन्यायावयवत्वं न विभक्तिसमभिव्याहारस्यावच्छदकं किन्तु सम्पूर्णन्यायावयवत्वमेव तत्रावच्छेदकम्। यतस्तावन्मात्र एव विभक्त्यर्थस्य हेतुत्वस्यान्वय इति न तत्रातिव्याप्तिः। अथ निगमनेऽपि नातिव्याप्तिरित्याह - तस्मादिति टीका / तस्माद् वह्रिमानिति निगमनेऽपि हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वमस्त्येवेत्यतिव्याप्तिर्न स्यात् / कुतः ? निगमनरूपावयवत्वावच्छेदेन हेतुविभक्तिसमभिव्याहारो नास्ति किन्तु निगमनं विशिष्टमेव ततस्तदवच्छेदेन हेतुमद्विभक्तिसमभिव्याहारो नास्ति किन्तु तस्मादित्यंशावच्छेदेनैवेति न तत्रातिव्याप्तिः / ननूदाहरणेत्यग्रिमहेतुलक्षणेऽवयवपदमग्रिमं व्यर्थमित्यत आह - व्याप्तीति टीका। उदाहरणपदेन व्याप्त्यभिधायकोऽवयवो ग्राह्यः / एतद्व्याख्यानबीजमाह - उदाहरणेति टीका / तथा च यदि उदाहरणरूपावयवप्रयोजकाकाङ्क्षाजनकशाब्दज्ञानजनकत्वमात्रे उक्ते सति [173 B] आप्तवाक्ये * 'धूमावह्निमान् इत्येवंरूपेऽतिव्याप्तिवारणार्थम् अवयवपदं दत्तं तद् व्यर्थं स्यात्। तत्रोदाहरणरूपावयवाभिधानप्रयोजकाकासाजनकज्ञानजनकत्वमेव नास्तीत्यवयवपदं व्यर्थं स्वादित्यर्थः / ननुहेतोः साध्यविषयकज्ञानजनकत्वात् यतो हेतुना साध्यानुमितिः क्रियते कथं साध्याविषयकज्ञानजनकत्वं स्यादित्यत आह - अत्रेति टीका। साध्याविषयकेति हेतुलक्षणे जनकेत्यन्तं शब्दविशेषणं तथा च साध्याविषयकज्ञानजनको यो हेतुः पञ्चम्यन्ता(न्तोऽ)नुमितिपरः शब्दः सहेत्ववयवः। तथा च साध्याविषयकत्वं हेतोर्विशेषणं नास्ति तेन नोक्तदोषः। साध्याविषयकज्ञानजनकेत्यस्य कृत्यमाह - तस्मादिति टीका! निगमने तस्या(स्मा)दित्यंशे साध्यविषयकज्ञानजनकत्वात् यतः सर्वनाम्नो बुद्धिस्थवाचकात् बुद्धिस्थस्तुवहिव्याप्य: धूमएव तच्छब्देन वहिव्याप्यः धूम एव परामृश्यतेऽतस्तदंशे निगमने साध्यविषयकज्ञानजनकत्वात् नातिव्याप्तिः। ननु वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयात् इत्यत्र साध्याविषयकज्ञानजनकत्वं नास्तीत्यव्याप्तिरित्यत आह - तदर्थत्वेति टीका। तथा च साध्यविषयकज्ञानजनकनियता