________________ 346 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पदम्, अन्वयिनः प्रमेयत्वादेर्व्यतिरेकित्वभ्रमदशायामतिव्याप्तिवारणार्थं प्रतीतान्वयेति पदम् / तथा च केवलान्वयिनो व्यतिरेक(कि)त्वभ्रमदशायां प्रतीतान्वयं साध्यं नास्तीति नातिव्याप्तिः / शेष टीकायाम् / अथ व्यतिरेकिहेत्ववयवलक्षणमाह - एतदेवेतिमूलम्। अनुमितिकारणीभूतशाब्दज्ञानकारणसाध्याविषयकशाब्दधीजनकाऽप्रतीतान्वयसाध्यसाधनवाचकहेतुविभक्तिमच्छब्दत्वम्।केवलान्वयिनि अतिव्याप्तिवारणाय अप्रतीतान्वयेति, केवलान्वयिनि साध्यसाधनयोऽ(र)प्रतीतान्वयो नास्तिव्यतिरेकिणितु अप्रतीतान्वयएवअन्वयव्याप्त्यभावात् अप्रतीतान्वय एव। अथ टीकाव्याख्या। हेतुत्वं चेति इति टीका।न्यायाप्रविष्टेतिटीका।न्यायाप्रविष्टमुदासीनवाक्यमित्यर्थः / तत्रातिव्याप्तिवारणार्थं कारणेत्यन्तम्। तथा चोदासीनवाक्यमनुमितिकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणं नभवतीति न तत्रातिव्याप्तिः।साध्याविषयकेति पदस्य कृत्यमाह - तस्मादिति टीका। तस्मात् तथेति निगमनेऽतिव्याप्तिवारणाय साध्याविषयकेति पदम्, निगमने तु साध्यविषयकज्ञानजनकत्वम्।।? ननु कस्मिंश्चित् हेतावपि साध्यविषयकज्ञानजनकत्वमस्ति किन्तु साध्याविषयकज्ञानजनकत्वं] नास्ति इति अव्याप्तिरत आह - अत्र चेति टीका।तथा च साध्यतावच्छेदकप्रकारेण साध्याविषयकत्वं विवक्षितम्।प्रमेयत्वं तु यद्यपि साध्यविषयकज्ञानजनक भवति तथापि साध्यतावच्छेदकप्रकारेण साध्यविषयकज्ञानजनकंनभवतियतः प्रमेयमध्ये प्रमेयत्वेन रूपेणाभिधेयं भासते परमभिधेयत्वेन रूपेण न भासते इति / तेनेति टीका। इदं प्रमेयं घटत्वात् अत्र घटत्वादिति हेतौ साध्याविषयकज्ञानजनकत्वं नास्ति।साध्यं प्रमेयम्, तच्च घटत्वं भवत्येव, तेन घटत्वे साध्यविषयकंज्ञानजनकत्वमेवेति हेतौ लक्षणाव्याप्तिः / साध्यतावच्छेदकप्रकारेणेति विवक्षायां घटत्वादिति हेतुविषयकज्ञाने प्रमेयत्वेन रूपेण साध्यं न भासते किन्तु घटत्वत्वेन रूपेण प्रमेयत्वमपि भासतेऽतो नाव्याप्तिरित्यर्थः / अत्राशङ्कते - न चैवमिति टीका / वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र हेत्ववयवस्य साध्याविषयकज्ञानजनकत्वं नास्ति / यतः प्रत्यक्षत्वरूपं यत् साध्यं तद्विषयकज्ञानजनकत्वमेव, हेतुमध्येऽपि प्रत्यक्षपदप्रवेशात् इत्याशङ्कार्थः / समाधत्ते - साध्यविषयकेति टीका / तथा साध्यविषयकशाब्दधीजनकत्वनियतावयवभिन्नत्वं विवक्षितं तथा च वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र साध्यविषयकशाब्दधीजनकत्वनियतावयवाः [173 A] प्रतिज्ञोदाहरणोपनयनिगमनरूपाः यत्र साध्यमपि विषयीभूय भासते प्रत्यक्षस्पर्शाश्रयत्वे एतच्चतुष्टयावयवभिन्नत्वं तु वर्तत एवेति तत्र नाव्याप्तिः। अथ हेतुविभक्तिमदितिपदस्य कृत्यमाह - यो यइति टीका।यो यो धूमवान् इत्युदाहरणस्यैकदेशो योधूमवान् इतिरूपः ततोऽतिव्याप्तिवारणार्थं हेतुविभक्तिमदितिपदम्।तदर्थस्तु हेतुत्वप्रतिपादकविभक्तिमत्त्वम्, अन्यथा तृतीया-पञ्चमीउभयसङ्ग्रहो न स्यादिति भावः / उदाहरणैकदेशे तु हेतुविभक्तिमत्त्वं नास्तीति भावः / अथ शाब्दपदस्य कृत्यमाह - सामान्यवत्त्वे सतीति टीका। शब्दे गुणः सामान्यवत्त्वे सति अस्मदादिबाह्यकरण