________________ हेतुनिरूपणम् 345 मन्न्यायावयवमित्युक्ते निगमनेऽतिव्याप्तिःनिगमनस्यापितस्मात्तथेतिहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं वर्ततेऽतस्ततोऽतिव्याप्तिवारणार्थं व्याप्त्यभिधायकावायवाभिधानप्रयोजकज्ञानजनकेति पदम् / तावच्च व्यतिरेकिणिहेतौ गतमतोऽन्वयेतिपदम्।अन्वयहेत्ववयमुक्त्वा व्यतिरेकिहेत्ववयवलक्षणमाह - [व्यतिरेकेति / तदनन्तरमन्वयव्यतिरेकिहेत्ववयवलक्षणमाह] - अन्वयेति।अन्वयोदाहरणं यत्रधूमस्तत्र वह्निर्यथा महानसम् / व्यतिरेकोदाहरणं यत्र वढ्यभावस्तत्रधूमाभावो यथा महाह्रद इति। एतद्द्वयोदाहरणस्य याआकाङ्क्षा तत्प्रयोजकं यद् ज्ञानं हेतुवाक्यार्थज्ञानं तजनकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवो [172 A] यः सोऽन्वयव्यतिरेकिहेत्ववयवः / व्यावृत्तिः पूर्ववत् / अन्वयव्यतिरेकिणो लक्षणान्तरमाह - यद्वेति / पक्षे सपक्षे च विद्यमानस्य विपक्षेऽविद्यमानस्य हेतोर्यद्वचनं सोऽन्वयव्यतिरेकिहेत्ववयव इत्यर्थः / अत्रापिन्यायावयवत्वमिति पूरणीयम् / तेनोदासीनाप्तवाक्यधूमादिति रूपे नातिव्यापातिः / व्यतिरेकिहेत्ववयवेऽतिव्याप्तिवारणार्थं पक्षसपक्षसत इति पदम् / केवलान्वयिनि अतिव्याप्तिवारणार्थं विपक्षासत इति पदम् / पक्षसपक्षसतोऽन्वयव्यतिरेकिहेत्ववयव इत्युक्तेऽसम्भवः, न हि धूमादि हेत्ववयवः किन्तु धूमादिवचनमिति, एतादर्थं हेतुवचनपदम्। अथ केवलान्वयिहेत्ववयवलक्षणमाह - अत्यन्ताभावाप्रतियोगीति / तथा चात्यन्ताभावाप्रतियोगि यत् साध्यं तेन सह समानाधिकरण एवम्भूतो यः पक्षे सन् एवंभूतो यो हेतुस्तस्य वचनं केवलान्वयी हेत्ववयव इत्यर्थः / व्यतिरेकिहेत्ववयवेऽतिव्याप्तिवारणार्थम् अत्यन्ताभावाप्रतियोगिपदम् / अत्यन्ताभावाप्रतियोगि यत् साध्यं तेन सह समानाधिकरणएवम्भूतो यः पक्षे विद्यमानोहेतुस्तद्वचनम्।अत्रसमानाधिकरणपदत्यागेऽयं ज्ञानवान् शरीरित्वादित्यत्र समवायसम्बन्धेन केवलान्वयिता स्यात् / विषयतासम्बन्धेनात्यन्ताभावाप्रतियोगि साध्यं ज्ञानं तत्कः शरीरित्वं हेतुर्भवति। पक्षे विद्यमानोऽपि भवति। तस्य साध्यांशे समवायसम्बन्धेन केवलान्वयिता स्यात् अतः * साध्येन सह समानाधिकरणेति। तथा च येन सम्बन्धेन साध्यस्यात्यन्ताभावाप्रतियोगित्वं तेन सम्बन्धेन तस्य हेतोः तत्साध्यककेवलान्वयित्वलाभार्थं समानाधिकरणपदम् / स्वरूपासिद्धिवारणार्थं पक्षवृत्तिपदं तथाहि - हृदोऽभिधेयवान्धूमात् इत्यत्यन्ताभावाप्रतियोगिसाध्यकरणहेतुवचनंभवतिपरंकेवलान्वयी हेतुर्न भवतीति पक्षसत्त्वपदम् / केवलान्वयिनो लक्षणान्तरमाह - यद्वेति मूलम्। अनुमितिकारणीभूतपरामर्शप्रयोजकं यच्छाब्दज्ञानं तस्य कारणं यत् साध्याविषयकशाब्दधीजनकप्रतीतान्वयसाध्यसाधनवाचकहेतुविभक्तिमच्छब्दत्वम्।शब्दोऽभिधेयः प्रमेयत्वादिति हेतुवचनम् अनुमितिकारणीभूतपरामर्शप्रयोजकं यत् शाब्दज्ञानंन्यायजन्यशाब्दज्ञानं तस्य कारणं भवति अथ च साध्याविषयिका या शाब्दधीः प्रमेयत्वादिति रूपा यत्र साध्यं विषयो न भवतीति यावत् तज्जनकं यत्प्रतीतान्वयसाध्यसाधनवाचको यो हेतुविभक्तिमच्छब्दस्तत्त्वम् / उदासीनाप्तवाक्ये प्रमेयत्वादित्यादावतिव्याप्तिवारणाय कारणेत्यन्तम्, निगमनेऽतिव्याप्तिवारणार्थं (172 B] साध्याविषयकशाब्दधीजनकेति