SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 344 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भवतीति न तत्रातिव्याप्तिः / प्रतिज्ञावाक्यधीजन्यकारणासानिवर्तकत्वमात्रं धूमो यत इति हेत्ववयवशब्दे प्रथमेति / अथ लक्षणान्तरमाह - पञ्चम्यन्तेतिमूलम्। पञ्चम्यन्तं यद् लाक्षणिकपदवत् यदनुमितिपरं वाक्यं तत्त्वं वा / अनुमितिपरवाक्यत्वमित्यक्ताबुदाहरणेति / अतः पञ्चम्यन्तेति / तथा च पञ्चम्यन्तं धूमादिति पञ्चम्यन्तं लाक्षणिकं पदं भवति अनुमितिपरशब्दानामवयवोऽपि भवति / ननु हेतुपदे लाक्षणिकपदत्वं कथमित्याह - हेतुपदे चेति मूलम् / ज्ञानलक्षणा तथा च धूमात् धूमज्ञानादित्यर्थः / ननु प्रतिज्ञायां ज्ञानलक्षणाश्रयणात् ततों वह्रिज्ञानं प्रति धूमादेर्हेतुत्वं सम्भवत्येवेत्याह - अन्यथेति / तथा च वह्रिज्ञानं प्रति धूमादेर्न हेतुत्वम् अतीतानागतवह्निस्थलेधूमाद्यभावेऽपिधूमज्ञानाद्वह्रिज्ञानं जायत इति कृत्वावह्रिज्ञानं प्रतिधूमस्य हेतुत्वं नास्ति किन्तु धूमज्ञानस्य / तथा च धूमज्ञानस्य वह्रिज्ञानं प्रति हेतुत्वात् धूमस्य च हेतुत्वाभावाच्च धूमपदेन धूमज्ञाने लक्षणा / एतदेवाह - तथैवेति मूलम् / मतान्तरे हेतुलक्षणमाह - अनुमितीति मूलम् / अनुमितिहेतुर्यद् ज्ञानं परामर्शरूपं तस्य कारणम् / अथ च धूमवत्त्वादिति शब्दजन्यज्ञानवृत्ति। अथ च प्रतिज्ञादिजन्यज्ञानावृत्तिरेव या जातिस्तद्योगि यद् ज्ञानं तज्जनकं यद् वाक्यं स हेत्ववयव [171 B] इति केचित् / प्रतिज्ञादिवारणार्थं प्रतिज्ञादिजन्यज्ञानावृत्तिरित्युक्तम् / अनुमितीत्यादि पूर्वविशेषणं शुकाधुदीरित घटमानय इति वाक्येऽतिव्याप्तिवारणाय / इदं लक्षणं धूमादिति हेत्ववयवे वर्तते तथाहि - धूमादिति वाक्यजन्यं ज्ञानम्, तत्र ज्ञानेऽनुमितिहेतुज्ञानं लिङ्गपरामर्शरूपम्, तस्य कारणंज्ञानम्, तत्पुनः कीदृशम् ?, वक्ष्यमाणविशेषणविशिष्टा या जातिस्तद्योगि, वक्ष्यमाणविशेषणानि यथा धूमवत्त्वादिति शब्दजन्यज्ञानवृत्तीत्येकं विशेषणं प्रतिज्ञादिजन्यज्ञानावृत्तीति द्वितीयं विशेषणम् एतादृशविशेषणविशिष्टाया जातिधूमादिति वाक्यजन्यज्ञानवृत्तिस्तद्योगियद् ज्ञानं शाब्दज्ञानं तज्जनकं यद् वाक्यं धूमादिति प्रकृतिप्रत्ययसमूहरूपं स हेत्ववयव इत्यर्थः / तथा च विजातीयज्ञानविशेषजनकं वाक्यं हेत्ववयव इति पर्यवसन्नम् / एतदपरे दूषयन्ति इत्याह - जातिं विनेति मूलम् / तथा च तादृशविजातीयज्ञानं प्रति हेत्ववयववाक्यस्य केन रूपेण कारणत्वं ग्राह्यम् ? न तावद्धत्ववयवत्वं किञ्चिदनुगतो धर्मोऽस्ति येन तेन रूपेण कारणता ग्राह्या स्यात् / जातिस्तु न भवति / कुतः ? अनुगतरूपेण जनकत्वाग्रहे जनकतावच्छेदकरूपेणापि जातिर्न सिद्धयति।तथा चहेत्ववयववाक्यजन्यज्ञानस्यानुमितिहेतुज्ञानं प्रत्यप्यनुगतरूपेण कारणत्वंग्रहीतुंनशक्यते।अथ चतादृशज्ञानप्रतिजनकतावच्छेदकानुगतरूपाभावात्हेत्ववयवरूपवाक्यविशेषस्यापि जनकत्वं ग्रहीतुं न शक्यते / तथा च विजातीयज्ञानविशेषजनकवाक्यत्वं हेत्ववयवलक्षणं न सम्भवतीति भावः। सामान्यहेत्ववयवलक्षणानन्तरम् अन्वयिहेत्ववयवलक्षणमाह - अन्वयव्याप्तीति मूलम्। तथा चान्वयव्याप्त्यभिधायको योऽवयव उदाहरणरूपोऽवयवस्तदभिधानप्रयोजकं यद् ज्ञानं हेतुवाक्यजन्यं ज्ञानं तज्जनको हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवः सोऽन्वयिहेत्ववयव इत्यर्थः / हेतुत्वप्रतिपादकविभक्ति
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy